अध्ययनसंप्रदानीयाध्यायः

श्लोक 1-2

अथातोऽध्ययनसम्प्रदानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु |
तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत्, षोडश निदानानि, दश शारीराणि, चत्वारिंशच्चिकित्सितानि, अष्टौ कल्पाः, तदुत्तरं षट्षष्टिः ||३||

श्लोक 4-12

वेदोत्पत्तिः शिष्यनयस्तथाऽध्ययनदानिकः |
प्रभाषणाग्रहरणावृतुचर्याऽथ यान्त्रिकः ||४||

शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम् |
अग्निकर्म जलौकाख्यो ह्यध्यायो रक्तवर्णनम् ||५||

दोषधातुमलाद्यानां विज्ञानाध्याय एव च |
कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ||६||

हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक् |
कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ||७||

विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा |
शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ||८||

पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा |
अवारणो युक्तसेनीय आतुरक्रमभूमिकौ ||९||

मिश्रकाख्यो द्रव्यगणः संशुद्धौ शमने च यः |
द्रव्यादीनां च विज्ञानं विशेषो द्रव्यगोऽपरः ||१०||

रसज्ञानं वमनार्थमध्यायो रेचनाय च |
द्रवद्रव्यविधिस्तद्वदन्नपानविधिस्तथा ||११||

सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः |
षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते ||१२||

श्लोक 13-14

वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः |
कुष्ठमेहोदरं मूढो विद्रधिः परिसर्पणम् ||१३||

ग्रन्थिवृद्धिक्षुद्रशूकभग्नाश्च मुखरोगिकम् |
हेतुलक्षणनिर्देशान्निदानानीति षोडश ||१४||

श्लोक 15-17

भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च |
व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् ||१५||

प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च |
सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा ||१६||

निर्दिष्टानि दशैतानि शारीराणि महर्षिणा |
विज्ञानार्थं शरीरस्य भिषजां योगिनामपि ||१७||

श्लोक 18-26

द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम् |
महावातिकमर्शांसि साश्मरिश्च भगन्दरः ||१८||

कुष्ठानां महतां चापि मैहिकं पैडिकं तथा |
मधुमेहचिकित्सा च तथा चोदरिणामपि ||१९||

मूढगर्भचिकित्सा च विद्रधीनां विसर्पिणाम् |
ग्रन्थिवृद्ध्युपदंशानां तथा च क्षुद्ररोगिणाम् ||२०||

शूकदोषचिकित्सा च तथा च मुखरोगिणाम् |
शोफस्यानागतानां च निषेधो मिश्रकं तथा ||२१||

वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च |
मेधायुष्करणं चापि स्वभावव्याधिवारणम् ||२२||

निवृत्तसन्तापकरं कीर्तितं च रसायनम् |
स्नेहोपयौगिकः स्वेदो वमने सविरेचने ||२३||

तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः |
नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः ||२४||

निरूहक्रमसञ्ज्ञश्च तथैवातुरसञ्ज्ञकः |
धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः ||२५||

प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च |
पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते ||२६||

श्लोक 27-28

अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च |
सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् ||२७||

दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च |
अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् ||२८||

श्लोक 29

अध्यायानां शतं विंशमेवमेतदुदीरितम् |२९|

श्लोक 29-35

अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते ||२९||

अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्रवान् |
औपद्रविक इत्येष तस्याग्र्यत्वान्निरुच्यते ||३०||

सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु |
संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ||३१||

चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः |
पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ||३२||

लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु |
क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ||३३||

घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम् |
प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ||३४||

चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते |३५|

श्लोक 35-37

नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ||३५||

अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् |
पूतनायास्तथाऽन्धायाः शीतपूतनमण्डिका ||३६||

नैगमेषचिकित्सा च ग्रहोत्पत्तिः सयोनिजा |
कुमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ||३७||

श्लोक 38-40

ज्वरातिसारशोषाणां गुल्महृद्रोगिणामपि |
पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ||३८||

तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः |
स्वरभेदचिकित्सा च कृम्युदावर्तिनोः पृथक् ||३९||

विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः |
इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ||४०||

श्लोक 41

अमानुषनिषेधश्च तथाऽऽपस्मारिकोऽपरः |
उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ||४१||

श्लोक 42

रसभेदाः स्वस्थवृत्तं युक्तयस्तान्त्रिकाश्च याः |
दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ||४२||

श्लोक 43

श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः |
बह्वर्थसङ्ग्रहाच्छ्रेष्ठमुत्तरं वाऽपि पश्चिमम् ||४३||

श्लोक 44-46

शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या |
भूतविद्येति चत्वारि तन्त्रे तूत्तरसञ्ज्ञिते ||४४||

वाजीकरं चिकित्सासु रसायनविधिस्तथा |
विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ||४५||

इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम् |
विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ||४६||

श्लोक 47

एतद्ध्यवश्यमध्येयम्, अधीत्य च कर्माप्यवश्यमुपासितव्यम्, उभयज्ञो हि  भिषग् राजार्हो भवति ||४७||

श्लोक 48-50

भवन्ति चात्र-
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः |
स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ||४८||

यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः |
स सत्सु पूजां नाप्नोति वधं चर्च्छति राजतः ||४९||

उभावेतावनिपुणावसमर्थौ स्वकर्मणि |
अर्धवेदधरावेतावेकपक्षाविव द्विजौ ||५०||

श्लोक 51

ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः |
भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ||५१||

श्लोक 52

स्नेहादिष्वनभिज्ञो यश्छेद्यादिषु च कर्मसु |
स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ||५२||

श्लोक 53

यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने |
आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ||५३||

श्लोक 54

अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानं-अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्याय  यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा; ते च पदपादश्लोका भूयः  क्रमेणानुसन्धेयाः, एवमेकैकशो घटयेदात्मना चानुपठेत्;  अद्रुतमविलम्बितमविशङ्कितमननुनासिकं  सुव्यक्ताक्षरमपीडितवर्णमक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतं  नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् |
न चान्तरेण कश्चिद्व्रजेत् तयोरधीयानयोः ||५४||

श्लोक 55

भवतश्चात्र |
शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः |
पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ||५५||

श्लोक 56

वाक्सौष्ठवेऽर्थविज्ञाने प्रागल्भ्ये कर्मनैपुणे |
तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ||५६||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसम्प्रदानीयो नाम तृतीयोऽध्यायः  ||३||