अनुवासनोत्तरबस्तिचिकित्सितम्

श्लोक 1-3

अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

विरेचनात् सप्तरात्रे गते जातबलाय वै |
कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ||३||

श्लोक 4

यथावयो निरूहाणां या मात्राः परिकीर्तिताः |
पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम् ||४||

श्लोक 5-6

उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत् |
एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ||५||

स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः |
स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति ||६||

श्लोक 7-14

अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम् |
पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ||७||

शटीपुष्करकृष्णाह्वामदनामरदारुभिः |
शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ||८||

सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम् |
पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ||९||

अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम् |
कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् ||१०||

वचापुष्करकुष्ठैलामदनामरसिन्धुजैः |
काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ||११||

पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः |
सरलागुरुबिल्वाम्बुवाजिगन्धाग्निवृद्धिभिः ||१२||

विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः |
पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम् ||१३||

गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम् |
अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् ||१४||

श्लोक 15-18

चित्रकातिविषापाठादन्तीबिल्ववचामिषैः |
सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः ||१५||

चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः |
जीवकर्षभवर्षाभूबस्तगन्धाशताह्वयैः ||१६||

रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः |
सक्षीरं विपचेत्तैलं मारुतामयनाशनम् ||१७||

गृध्रसीखञ्जकुब्जाढ्यमूत्रोदावर्तरोगिणाम् |
शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् ||१८||

श्लोक 19-26

भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः |
दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः ||१९||

बलानागबलामूर्वावाजिगन्धामृताद्वयैः |
सहाचरवरीविश्वाकाकनासाविदारिभिः ||२०||

यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम् |
जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् ||२१||

जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान् |
हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् ||२२||

जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः |
ऋषभातिविषाकृष्णाकाकनासावचामरैः ||२३||

रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः |
स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः ||२४||

पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु |
तच्चानुवासने देयं शुक्राग्निबलवर्धनम् ||२५||

बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम् |
नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् ||२६||

श्लोक 27-29

मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः |
श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः ||२७||

तैलपादं पचेत् सर्पिः पयसाऽष्टगुणेन च |
न्यग्रोधादिगणक्वाथयुक्तं बस्तिषु योजितम् ||१८||

दाहासृग्दरवीसर्पवातशोणितविद्रधीन् |
पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् ||२९||

श्लोक 30-32

मृणालोत्पलशालूकसारिवाद्वयकेशरैः |
चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः ||३०||

पटोलकटुकारक्तागुन्द्रापर्पटवासकैः |
पिष्टैस्तैलघृतं पक्वं तृणमूलरसेन च ||३१||

क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम् |
नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून् ||३२||

श्लोक 33-42

त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः |
निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ||३३||

गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः |
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ||३४||

पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् |
स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान् ||३५||

पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः |
सरलागुरुकालीयभार्गीचव्यामरद्रुमैः ||३६||

मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः |
तैलमेरण्डतैलं वा पक्वमेभिः समायुतम् ||३७||

वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च |
हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान् ||३८||

विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः |
कट्फलातिविषाभार्ङ्गीवचाकुष्ठसुराह्वयैः ||३९||

मेदामदनयष्ट्याह्वश्यामानिचुलनागरैः |
शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः ||४०||

बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः |
तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् ||४१||

प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान् |
प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः ||४२||

श्लोक 43

अशुद्धमपि वातेन केवलेनातिपीडितम् |
अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ||४३||

श्लोक 44

रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनान् |
दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ||४४||

श्लोक 45

अस्निग्धमपि वातेन केवलेनातिपीडितम् |
स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् ||४५||

श्लोक 46

अथ सम्यङ्निरूढं तु वातादिष्वनुवासयेत् |
बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम् ||४६||

श्लोक 47

रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः |
स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् ||४७||

श्लोक 48

अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते |
स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति ||४८||

श्लोक 49-50

पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते |
नरे रात्रौ तु दातव्यं काले चोष्णेऽनुवासनम् ||४९||

उष्णे पित्ताधिके वाऽपि दिवा दाहादयो गदाः |
सम्भवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक् ||५०||

श्लोक 51

शीते वसन्ते च दिवा ग्रीष्मप्रावृड्घनात्यये |
स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता ||५१||

श्लोक 52

अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम् |
तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ||५२||

श्लोक 53

न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन |
शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत् ||५३||

श्लोक 54-57

सदाऽनुवासयेच्चापि भोजयित्वाऽऽर्द्रपाणिनम् |
ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः ||५४||

न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत् |
मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ||५५||

रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत् |
युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ||५६||

यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा |
यथोचितात् पादहीनं भोजयित्वाऽनुवासयेत् ||५७||

श्लोक 58-59

अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः |
भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ||५८||

विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना |
प्रणिधानविधानं तु निरूहे सम्प्रवक्ष्यते ||५९||

श्लोक 60-62

ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत् |
प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ||६०||

ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः |
स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः ||६१||

एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक् |
स्वास्तीर्णे शयने काममासीताचारिके रतः ||६२||

श्लोक 63-66

स तु सैन्धवचूर्णेन शताह्वेन च योजितः |
देयः सुखोष्णश्च तथा निरेति सहसा सुखम् ||६३||

यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत् |
अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः ||६४||

सवातोऽधिकमात्रो वा गुरुत्वाद्वा सभेषजः |
तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ||६५||

विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने |
दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः ||६६||

श्लोक 67-69

सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु |
ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ||६७||

जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः |
लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ||६८||

प्रातरुष्णोदकं देयं धान्यनागरसाधितम् |
तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ||६९||

श्लोक 70

स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः |७०|

श्लोक 70-71

अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा ||७०||

विधेया बस्तयस्तेषामन्तरा तु निरूहणम् |७१|

श्लोक 71-74

दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ ||७१||

सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत् |
जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः ||७२||

रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा |
षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च ||७३||

अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम् |
एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् ||७४||

श्लोक 75-76

अष्टादशाष्टादशकान् बस्तीनां यो निषेवते |
यथोक्तेन विधानेन परिहारक्रमेण च ||७५||

स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः |
वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत् ||७६||

श्लोक 77-78

स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत् |
स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम् ||७७||

तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः |
नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम् ||७८||

श्लोक 79

रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने |
दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात् ||७९||

श्लोक 80

स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः |
तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ||८०||

श्लोक 81-85

अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः |
बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ||८१||

अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान् |
कुर्वन्त्युपद्रवान् स्नेहः, स चापि न निवर्तते ||८२||

तत्र वाताभिभूते तु स्नेहे मुखकषायता |
जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः ||८३||

पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत् |
दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ||८४||

श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता |
गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः ||८५||

श्लोक 86

तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत् |
यथास्वं दोषशमनान्युपयोज्यानि यानि च ||८६||

श्लोक 87-92

अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा |
गुरुरामाशयः शूलं वायोश्चाप्रतिसञ्चरः ||८७||

हृत्पीडा मुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः |
तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ||८८||

अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः |
तदाऽङ्गसदनाध्माने श्वासः शूलं च जायते ||८९||

पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम् |
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ||९०||

शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम् |
गात्रेषु सर्वेन्द्रियाणामुपलेपाऽवसादनम् ||९१||

स्नेहगन्धि मुखं चापि कासश्वासावरोचकः |
अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा ||९२||

श्लोक 93-94

अस्विन्नस्याविशुद्धस्य स्नेहोऽल्पः सम्प्रयोजितः |
शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते ||९३||

विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति |
तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ||९४||

श्लोक 95-96

अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा |
दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत् ||९५||

तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना |
(अन्वासनं च स्नेहेन शोधनीयेन शस्यते ) ||९६||

श्लोक 97

अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति |
कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ||९७||

श्लोक 98

यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः |
सर्वोऽल्पोवाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ||९८||

श्लोक 99

अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत् |९९|

श्लोक 99

स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ||९९||

श्लोक 100

इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः |१००|

श्लोक 100-101

बस्तेरुत्तरसञ्ज्ञस्य विधिं वक्ष्याम्यतः परम् ||१००||

चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसम्मितम् |
मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम् ||१०१||

श्लोक 102

स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः |
पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पिताम् ||१०२||

श्लोक 103-104

निविष्टकर्णिकं मध्ये, नारीणां चतुरङ्गुले |
मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम् ||१०३||

मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः |१०४|

श्लोक 104-105

तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम् ||१०४||

द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम् |
विधेयं चाङ्गुलं तासां विधिवद्धक्ष्यते यथा ||१०५||

श्लोक 106

स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसम्मितम् |
देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम् ||१०६||

श्लोक 107-108

औरभ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः |
तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम् ||१०७||

(तस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा ) |१०८|

श्लोक 108-114

अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम् ||१०८||

यवागूं सघृतक्षीरां पीतवन्तं यथाबलम् |
निषण्णमाजानुसमे पीठे सोपाश्रये समम् ||१०९||

स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम् |
ततः समं स्थापयित्वा नालमस्य प्रहर्षितम् ||११०||

पूर्वं शलाकयाऽन्विष्य ततो नेत्रमनन्तरम् |
शनैः शनैर्घृताभ्यक्तं विदध्यालानि षट् ||१११||

मेढ्रयामसमं केचिदिच्छन्ति प्रणिधानकम् |
ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत् ||११२||

ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः |
भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा ||११३||

अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरोऽपि वा |११४|

श्लोक 114-115

ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ||११४||

सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम् |
त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति ||११५||

श्लोक 116

गर्भाशयविशुद्ध्यर्थं स्नेहेन द्विगुणेन तु |११६|

श्लोक 116-117

क्वाथप्रमाणं प्रसृतं, स्त्रिया द्विप्रसृतं भवेत् ||११६||

कन्येतरस्याः, कन्यायास्तद्वद्बस्तिप्रमाणकम् |११७|

श्लोक 117-123

अप्रत्यागच्छति भिषग् बस्तावुत्तरसञ्ज्ञिते ||११७||

भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः |
गुदे वर्तिं निदध्याद्वा शोधनद्रव्यसम्भृताम् ||११८||

प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम् |
पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तरमुष्टिना ||११९||

आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च |
कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वाऽपि ससैन्धवाः ||१२०||

मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु |
बस्तेरागमनार्थाय ता निदध्याच्छलाकया ||१२१||

आगारधूमबृहतीपिप्पलीफलसैन्धवैः |
कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः ||१२२||

अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत् |१२३|

श्लोक 123-124

शर्करामधुमिश्रेण शीतेन मधुकाम्बुना ||१२३||

दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः |
क्षीरवृक्षकषायेण पयसा शीतलेन च ||१२४||

श्लोक 125-126

शुक्रं दुष्टं शोणितं चाङ्गनानां
पुष्पोद्रेकं तस्य नाशं च कष्टम् |
मूत्राघातान्मूत्रदोषान् प्रवृद्धान्
योनिव्याधिं संस्थितिं चापरायाः ||१२५||

शुक्रोत्सेकं शर्करामश्मरीं च
शूलं बस्तौ वङ्क्षणे मेहने च |
घोरानन्यान् बस्तिजांश्चापि रोगान्
हित्वा मेहानुत्तरो हन्ति बस्तिः ||१२६||

श्लोक 127

सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च |
बस्तेरुत्तरसञ्ज्ञस्य समानं स्नेहबस्तिना ||१२७||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तरबस्तिचिकित्सितं  नाम सप्तत्रिंशोऽध्यायः ||३७||