अपस्मारप्रतिषेधाध्यायः

श्लोक 1-2

अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने |
अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ||३||

श्लोक 4-6

मिथ्यातियोगेन्द्रियार्थकर्मणामभिसेवनात् |
विरुद्धमलिनाहारविहारकुपितैर्मलैः ||४||

वेगनिग्रहशीलानामहिताशुचिभोजिनाम् |
रजस्तमोभिभूतानां गच्छतां च रजस्वलाम् ||५||

तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम् |
चेतस्यभिहते पुंसामपस्मारोऽभिजायते ||६||

श्लोक 7

हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता |
निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ||७||

श्लोक 8-10

सञ्ज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः |
रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ||८||

विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः |
दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ||९||

अल्पकालान्तरं चापि पुनः सञ्ज्ञां लभेत सः |
सोऽपस्मार इति प्रोक्तः… |१०|

श्लोक 10-11

… स च दृष्टश्चतुर्विधः ||१०||

वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः |११|

श्लोक 11-12

वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ||११||

यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति |
ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः ||१२||

श्लोक 13-14

तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः |
यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति ||१३||

ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते |१४|

श्लोक 14-15

शीतहृल्लासनिद्रार्तः पतन् भूमौ वमन् कफम् ||१४||

यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति |
ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः ||१५||

श्लोक 16

हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु सङ्ख्यया |१६|

श्लोक 16

प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह ||१६||

श्लोक 17

सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे |१७|

श्लोक  17-18

अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च ||१७||

आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम् |१८|

श्लोक 18-21

क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च ||१८||

आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः |
देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् ||१९||

शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः |
स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः ||२०||

दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः |
अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु ||२१||

श्लोक 22-24

तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते |
पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः ||२२||

उपयोगो ग्रहोक्तानां योगानां तु विशेषतः |
ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत् |
शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् ||२३||

चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् |२४|

श्लोक 24-25

गोधानकुलनागानां पृषतर्क्षगवामपि ||२४||

पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम् |२५|

श्लोक 25

तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् ||२५||

श्लोक 26

पूजां रुद्रस्य कुर्वीत तद्गणानां च नित्यशः |२६|

श्लोक 26-27

वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः ||२६||

कफजं वमनैर्धीमानपस्मारमुपाचरेत् |२७|

श्लोक 27-28

कुलत्थयवकोलानि शणबीजं पलङ्कषाम् ||२७||

जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः |
बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् ||२८||

श्लोक 29

काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे |
पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् ||२९||

श्लोक 30

कृष्णावचामुस्तकाद्यैर्युक्तमारग्वधादिके |
पक्वं च मूत्रवर्गे तु श्लेष्मापस्मारिणे हितम् ||३०||

श्लोक 31-33

सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः |
मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः ||३१||

करञ्जबीजशैरीषगिरिकर्णीहुताशनैः |
सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ||३२||

कृमिकुष्ठगरश्वासबलासविषमज्वरान् |
सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् ||३३||

श्लोक 34-37

दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः |
शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ||३४||

शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः |
त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः ||३५||

कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः |
सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः ||३६||

साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् |
चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ||३७||

श्लोक 38-41

भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम् |
त्र्यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत् ||३८||

ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत् |
त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् ||३९||

मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः |
शुद्धे कुम्भे निदध्याच्च सम्भारं तं सुरां ततः ||४०||

जातगन्धां जातरसां पाययेदातुरं भिषक् |४१|

श्लोक 41

सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ||४१||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो  नाम (द्वितीयोऽध्यायः, आदितः) एकषष्टितमोऽध्यायः ||६१||