अभयामलकीयरसायनपादः

श्लोक 1-2

अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-4

चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम्||३||
विद्याद्भेषजनामानि, …|४|

श्लोक 4

… भेषजं द्विविधं च तत्|
स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्||४||

श्लोक 5

अभेषजं च द्विविधं बाधनं सानुबाधनम्|५|

श्लोक 5-6

स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्||५||

प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमे मतम्|
प्रायःशब्दो विशेषार्थो ह्युभयं ह्युभयार्थकृत्||६||

श्लोक 7-8

दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः|
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम्||७||

वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात्|
लाभोपायो हि शस्तानां रसादीनां रसायनम्||८||

श्लोक 9-12

अपत्यसन्तानकरं यत् सद्यः सम्प्रहर्षणम्|
वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः||९||

भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते|
जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते||१०||

प्रभूतशाखः शाखीव येन चैत्यो यथा महान्|
भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः||११||

सन्तानमूलं येनेह प्रेत्य चानन्त्यमश्नुते|
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत्||१२||

श्लोक 13-14

स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम्|
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते||१३||

चिकित्सितार्थ एतावान् विकाराणां यदौषधम्|
रसायनविधिश्चाग्रे वाजीकरणमेव च||१४||

श्लोक 15

अभेषजमिति ज्ञेयं विपरीतं यदौषधात्|
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम्||१५||

श्लोक 16-24

रसायनानां द्विविधं प्रयोगमृषयो विदुः|
कुटीप्रावेशिकं चैव वातातपिकमेव च||१६||

कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते|
नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम्||१७||

निवासे निर्भये शस्ते प्राप्योपकरणे पुरे|
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम्||१८||

विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम्|
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्||१९||

शब्दादीनामशस्तानामगम्यं स्त्रीविवर्जिताम्|
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ||२०||

अथोदगयने शुक्ले तिथिनक्षत्रपूजिते|
मुहूर्तकरणोपेते प्रशस्ते कृतवापनः||२१||

धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः|
विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्||२२||

देवताः पूजयित्वाऽग्रे द्विजातींश्च प्रदक्षिणम्|
देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम्||२३||

तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः|
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम्||२४||

श्लोक 25-28

हरीतकीनां चूर्णानि सैन्धवामलके गुडम्|
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्||२५||

पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः|
तेन शुद्धशरीराय कृतसंसर्जनाय च||२६||

त्रिरात्रं यावकं दद्यात् पञ्चाहं वाऽपि सर्पिषा|
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः||२७||

शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्|
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्||२८||

श्लोक 29-37

हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|
दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम्||२९||

आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्|
सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम्||३०||

कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम्|
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१||

हृद्रोगं सशिरोरोगमतीसारमरोचकम्|
कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२||

कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्|
श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३||

स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः|
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी||३४||

(अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः|
सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये)||३५||

तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि|
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः||३६||

अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः|
हरीतकीनां शस्यानि भिषगामलकस्य च||३७||

श्लोक 38-40

ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः|
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु||३८||

आपूर्णरसवीर्याणि काले काले यथाविधि|
आदित्यपवनच्छायासलिलप्रीणितानि च||३९||

यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च|
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्||४०||

श्लोक 41-47

पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्|
हरीतकीसहस्रं च त्रिगुणामलकं नवम्||४१||

विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्|
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्||४२||

बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्|
पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च||४३||

जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्|
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||

इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्|
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||

दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्|
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च||४६||

तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः|
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत्||४७||

मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च|
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा||४८||

मधुकस्य हरिद्राया वचायाः कनकस्य च|
भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा||४९||

सितोपलासहस्रं च चूर्णितं तुलयाऽधिकम्|
तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः||५०||

साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना|
ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत्||५१||

क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने|
तिष्ठेत्सम्मूर्च्छितं तस्य मात्रां काले प्रयोजयेत्||५२||

या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति|
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते||५३||

वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः|
रसायनमिदं प्राश्य बभूवुरमितायुषः||५४||

मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः|
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः||५५||

मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः|
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया||५६||

रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्|
दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते||५७||
(इति ब्राह्मरसायनम्)|

श्लोक 48-61

यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा  सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्|
तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्च- -लामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृता-चन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा  क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधःस्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य  कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा  ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||

भवन्ति चात्र-
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः||५९||

कान्तः प्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युतिः|
श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते||६०||

धरणीधरसारश्च वायुना समविक्रमः|
स भवत्यविषं चास्य गात्रे सम्पद्यते विषम्||६१||
(इति द्वितीयं ब्राह्मरसायनम्)|

श्लोक 62-74

बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||

शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||

मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|
विदारी वृषमूलानि काकोली काकनासिका||६४||

एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च|
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||

ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||

पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||

षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||

पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|
इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||

कासश्वासहरश्चैव विशेषेणोपदिश्यते|
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः||७०||

स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||

अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|
अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा||७२||

मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम्||७३||

रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||
(इति च्यवनप्राशः)|

श्लोक 75

अथामलकहरीतकीनामामलकबिभीतकानां  हरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा  पलाशत्वगवनद्धानां मृदाऽवलिप्तानां कुकूलस्विन्नानामकुलकानां  पलसहस्रमुलूखले सम्पोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं  भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः  प्रत्यवस्थापनम् ,  अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च  रसायनप्रयोगप्रकर्षो  द्विस्तावदग्निबलमभिसमीक्ष्य , प्रतिभोजनं यूषेण  पयसा वा षष्टिकः  ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः  स्यात्|
अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो  निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया  तपः||७५||
(इति चतुर्थामलकरसायनम्)|

श्लोक 76

हरीतक्यामलकबिभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोली- -क्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेन  विदारीस्वरसेन क्षीराष्टगुणसम्प्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा  प्रयुञ्जानोऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यां  शालिषष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचारव्यपगतभयः  शरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भः  परमायुरनवाप्नुयात्||७६||
(इति पञ्चमो हरीतकीयोगः)|

श्लोक 77-80

हरीतक्यामलकबिभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधु- -कपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च  सन्नीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसम्प्रयुक्तं  पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात्, त्रिवर्षप्रयोगादस्य वर्षशतमजरं  वयस्तिष्ठति, श्रुतमवतिष्ठते, सर्वामयाः प्रशाम्यन्ति, विषमविषं भवति गात्रे,  गात्रमश्मवत् स्थिरीभवति, अधृष्यो भूतानां भवति||७७||

भवन्ति चात्र-
यथाऽमराणाममृतं यथा भोगवतां सुधा|
तथाऽभवन्महर्षीणां रसायनविधिः पुरा||७८||

न जरां न च दौर्बल्यं नातुर्यं निधनं न च|
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||

न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते|
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ||८०||

श्लोक 81

तत्र श्लोकः-
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|
रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः||१||