अर्शश्चिकित्सितम्

श्लोक 1-3

अथातोऽर्शसां चिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

चतुर्विधोऽर्शसां साधनोपायः |
तद्यथा- भेषजं क्षारोऽग्निः शस्त्रमिति |
तत्र, अचिरकालजातान्यल्पदोषलिङ्गोपद्रवाणि भेषजसाध्यानि,  मृदुप्रसृतावगाढान्युच्छ्रितानि क्षारेण, कर्कशस्थिरपृथुकठिनान्यग्निना,  नुमूलान्युच्छ्रितानि क्लेदवन्ति च शस्त्रेण |
तत्र भेषजसाध्यानामर्शसामदृश्यानां च भेषजं भवति,  क्षाराग्निशस्त्रसाध्यानां तु विधानमुच्यमानमुपधारय ||३||

श्लोक 4

तत्र बलवन्तमातुरमर्शोभिरुपद्रुतमुपस्निग्धं  परिस्विन्नमनिलवेदनाभिवृद्धिप्रशमार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं  भुक्तवन्तमुपवेश्य संवृ(भृ)ते शुचौ देशे साधारणे व्यभ्रे काले समे  फलके शय्यायां वा प्रत्यादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायमुत्तानं किञ्चिदुन्नतकटिकं वस्त्रकम्बलकोपविष्टं यन्त्रणशाटकेन  परिक्षिप्तग्रीवासक्थिं परिकर्मिभिः सुपरिगृहीतमस्पन्दनशरीरं कृत्वा  ततोऽस्मै घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुमुखं पायौ शनैः शनैः प्रवाहमाणस्य प्रणिधाय, प्रविष्टे चार्शो वीक्ष्य, शलाकयोत्पीड्य,  पिचुवस्त्रयोरन्यतरेण प्रमृज्य, क्षारं पातयेत्; पातयित्वा च पाणिना  यन्त्रद्वारं पिधाय वाक्च्छतमात्रमुपेक्षेत, ततः प्रमृज्य क्षारबलं व्याधिबलं चावेक्ष्य पुनरालेपयेत्, अथार्शः  पक्वजाम्बवप्रतीकाशमवसन्नमीषन्नतमभिसमीक्ष्योपावर्तयेत्, क्षारं  प्रक्षालयेद्धान्याम्लेन दधिमस्तुशुक्तफलाम्लैर्वा, ततो यष्टीमधुकमिश्रेण सर्पिषा निर्वाप्य यन्त्रमपनीयोत्थाप्यातुरमुष्णोदकोपविष्टं शीताभिरद्भिः परिषिञ्चेत्, अशीताभिरित्येके, ततो निर्वातमागारं  प्रवेश्याचारिकमादिशेत्; सावशेषं पुनर्दहेत्; एवं सप्तरात्रात्  सप्तरात्रादेकैकमुपक्रमेत; तत्र बहुषु पूर्वं दक्षिणं साधयेत्, दक्षिणाद्वामं, वामात् पृष्ठजं, ततोऽग्रजमिति ||४||

श्लोक 5-6

तत्र वातश्लेष्मनिमित्तान्यग्निक्षाराभ्यां साधयेत्, क्षारेणैव मृदुना  पित्तरक्तनिमित्तानि ||५||
तत्र वातानुलोम्यमन्नरुचिरग्निदीप्तिर्लाघवं बलवर्णोत्पत्तिर्मनस्तुष्टिरिति  सम्यग्दग्धलिङ्गानि, अतिदग्धे तु गुदावदरणं दाहो मूर्च्छा ज्वरः पिपासा शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपद्रवा भवन्ति, ध्यामाल्पव्रणता  कण्डूरनिलवैगुण्यमिन्द्रियाणामप्रसादो विकारस्य चाशान्तिर्हीनदग्धे  ||६||

श्लोक 7

महान्ति च प्राणवतश्छित्त्वा दहेत्, निर्गतानि चात्यर्थं दोषपूर्णानि  यन्त्राद्विना  स्वेदाभ्यङ्गस्नेहावगाहोपनाहविस्रावणालेपक्षाराग्निशस्त्रैरुपाचरेत्;  प्रवृत्तरक्तानि च रक्तपित्तविधानेन, भिन्नपुरीषाणिचातीसारविधानेन,  बद्धवर्चांसि स्नेहपानविधानेनोदावर्तविधानेन वा; एष  सर्वस्थानगतानामर्शसां दहनकल्पः ||७||

श्लोक 8

आसाद्य च दर्वीकूर्चकशलाकानामन्यतमेन क्षारं पातयेत् |
भ्रष्टगुदस्य तु विना यन्त्रेण क्षारादिकर्म प्रयुञ्जीत |
सर्वेषु च शालिषष्टिकयवगोधूमान्नं सर्पिःस्निग्धमुपसेवेत पयसा  निम्बयूषेण पटोलयूषेण वा, यथादोषं  शाकैर्वास्तूकतण्डुलीयकजीवन्त्युपोदिकाश्वबलाबालमूलकपाल-ङ्क्यसनचिल्लीचुच्चूकलायवल्लीभिरन्यैर्वा |
यच्चान्यदपि स्निग्धमग्निदीपनमर्शोघ्नं सृष्टमूत्रपुरीषं च तदुपसेवेत ||८||

श्लोक 9

दग्धेषु चार्शःस्वभ्यक्तोऽनलसन्धुक्षणार्थमनिलप्रकोपसंरक्षणार्थं च  स्नेहादीनां सामान्यतः क्रियापथमुपसेवेत |
विशेषतस्तु वातार्शःसु सर्पींषि च वातहरदीपनीयसिद्धानि  हिङ्ग्वादिभिश्चूर्णैः प्रतिसंसृज्य पिबेत्, पित्तार्शःसु पृथक्पर्ण्यादीनां  कषायेण दीपनीयप्रतीवापं सर्पिः , शोणितार्शःसु मञ्जिष्ठामुरुङ्ग्यादीनां कषाये पाचयेत्, श्लेष्मार्शःसु सुरसादीनां कषाये |
उपद्रवांश्च यथास्वमुपाचरेत् ||९||

श्लोक 10

परं च यत्नमास्थाय गुदे क्षाराग्निशस्त्राण्यवचारयेत्, तद्विभ्रमाद्धि  षाण्ढ्यशोफदाहमदमूर्च्छाटोपानाहातीसारप्रवाहणानि भवन्ति मरणं  वा ||१०||

श्लोक 11

अत ऊर्ध्वं यन्त्रप्रमाणमुपदेक्ष्यामः- तत्र यन्त्रं लौहं दान्तं शार्ङ्गं वार्क्षं वा  गोस्तनाकारं चतुरङ्गुलायतं पञ्चाङ्गुलपरिणाहं पुंसां,  षडङ्गुलपरिणाहं नारीणां तलायतं; तद् द्विच्छिद्रं दर्शनार्थम्,  एकछिद्रं तु कर्मणि; एकद्वारे हि शस्त्रक्षाराग्नीनामतिक्रमो न भवति;  छिद्रप्रमाणं तु त्र्यङ्गुलायतमङ्गुष्ठोदरपरिणाहं, यदङ्गुलमवशिष्टं  तस्यार्धाङ्गुलादधस्तादर्धाङ्गुलोच्छ्रितोपरिवृत्तकर्णिकम्; एष  यन्त्राकृतिसमासः ||११||

श्लोक 12

अत ऊर्ध्वमर्शसामालेपान् वक्ष्यामः- स्नुहीक्षीरयुक्तं हरिद्राचूर्णमालेपः  प्रथमः, कुक्कुटपुरीषगुञ्जाहरिद्रापिप्पलीचूर्णमिति गोमूत्रपित्तपिष्टो  द्वितीयः, दन्तीचित्रकसुवर्चिकालाङ्गलीकल्को वा गोपित्तपिष्टस्तृतीयः,  पिप्पलीसैन्धवकुष्ठशिरीषफलकल्कः स्नुहीक्षीरपिष्टोऽर्कक्षीरपिष्टो वा  चतुर्थः, कासीसहरितालसैन्धवाश्वमारकविडङ्गपूतीककृतवेधनजम्ब्व-र्कोत्तमारणीदन्तीचित्रकालर्कस्नुहीपयःसु तैलं विपक्वमभ्यञ्जनेनार्शः  शातयति ||१२||

श्लोक 13

अत ऊर्ध्वं भेषजसाध्येष्वदृश्येष्वर्शःसु योगान् यापनार्थं वक्ष्यामः- प्रातः  प्रातर्गुडहरीतकीमासेवेत, ब्रह्मचारी गोमूत्रद्रोणसिद्धं वा हरीतकीशतं  प्रातः प्रातर्यथाबलं क्षौद्रेण, अपामार्गमूलं वा तण्डुलोदकेन  सक्षौद्रमहरहः, शतावरीमूलकल्कं वा क्षीरेण, चित्रकचूर्णयुक्तं वा सीधुं परार्ध्यं, भल्लातचूर्णयुक्तं वा सक्तुमन्थमलवणं तक्रेण, कलशे  वाऽन्तश्चित्रकमूलकल्कावलिप्ते निषिक्तं तक्रमम्लमनम्लं वा  पानभोजनेषूपयुञ्जीत, एष एव भार्ग्यास्फोतायवान्यामलकगुडूचीषु  तक्रकल्पः, पिप्पलीपिप्पलीमूलचव्यचित्रकविडङ्गशुण्ठीहरीतकीषु च  पूर्ववदेव, निरन्नो वा तक्रमहरहर्मासमुपसेवेत,  शृङ्गवेरपुनर्नवाचित्रककषायसिद्धं वा पयः, कुटजमूलत्वक्फाणितं वा  पिप्पल्यादिप्रतीवापं क्षौद्रेण, महावातव्याध्युक्तं  हिङ्ग्वादिचूर्णमुपसेवेत तक्राहारः क्षीराहारो वा,  क्षारलवणांश्चित्रकमूलक्षारोदकसिद्धान् वा कुल्माषान् भक्षयेत्,  चित्रकमूलक्षारोदकसिद्धं वा पयः पलाशतरूक्षारसिद्धं वा,  पलाशतरूक्षारसिद्धान् वा कुल्माषान्, पाटलापामार्गबृहतीपलाशक्षारं वा परिस्नुतमहरहर्घृतसंसृष्टं, कुटजबन्दाकमूलकल्कं वा तक्रेण,  चित्रकपूतीकनागरकल्कं वा पूतीकक्षारेण, क्षारोदकसिद्धं वा सर्पिः  पिप्पल्यादिप्रतीवापं, कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः प्रातरुपसेवेत  शीतोदकानुपानम्; एभिरभिवर्धतेऽग्निरर्शांसि चोपशाम्यन्ति ||१३||

श्लोक 14

द्विपञ्चमूलीदन्तीचित्रकपथ्यानां तुलामाहृत्य जलचतुर्द्रोणे विपाचयेत्,  ततः पादावशिष्टं कषायमादाय सुशीतं गुडतुलया सहोन्मिश्र्य  घृतभाजने निःक्षिप्य मासमुपेक्षेत यवपल्ले, ततः प्रातः प्रातर्मात्रां  पाययेत, तेनार्शोग्रहणीदोषपाण्डुरोगोदावर्तारोचका न भवन्ति  दीप्तश्चाग्निर्भवति ||१४||

श्लोक 15

पिप्पलीमरिचविडङ्गैलवालुकलोध्राणां द्वे द्वे पले, इन्द्रवारुण्याः पञ्च  पलानि, कपित्थमध्यस्य दश, पथ्याफलानामर्धप्रस्थः, प्रस्थो  धात्रीफलानां, एतदैकध्यं जलचतुर्द्रोणे विपाच्य, पादावशेषं परिस्राव्य, सुशीतं गुडतुलाद्वयेनोन्मिश्र्य, घृतभाजने निःक्षिप्य, पक्षमुपेक्षेत  यवपल्ले; ततः प्रातः प्रातर्यथाबलमुपयुञ्जीत |
एष खल्वरिष्टः  प्लीहाग्निषङ्गार्शोग्रहणीहृत्पाण्डुरोगशोफकुष्ठगुल्मोदरकृमिहरो  बलवर्णकरश्चेति ||१५||

श्लोक 16

तत्र, वातप्रायेषु स्नेहस्वेदवमनविरेचनास्थापनानुवासनमप्रतिषिद्धं,  पित्तजेषु विरेचनम्, एवं रक्तजेषु संशमनं, कफजेषु  शृङ्गवेरकुलत्थोपयोगः, सर्वदोषहरं यथोक्तं सर्वजेषु, यथास्वौषधिसिद्धं च पयः सर्वेष्विति ||१६||

श्लोक 17

अत ऊर्ध्वं भल्लातकविधानमुपदेक्ष्यामः-भल्लातकानि  परिपक्वान्यनुपहतान्याहृत्य तत एकमादाय द्विधा त्रिधा चतुर्धा वा  छेदयित्वा कषायकल्पेन विपाच्य तस्य कषायस्य शुक्तिमनुष्णां  घृताभ्यक्ततालुजिह्वौष्ठः प्रातः प्रातरुपसेवेत, ततोऽपराह्णे क्षीरं  सर्पिरोदन इत्याहारः; एवमेकैकं वर्धयेद्यावत् पञ्चति, ततः पञ्च  पञ्चाभिवर्धयेद्यावत् सप्ततिरिति, प्राप्य च सप्ततिमपकर्षयेद्भूयः पञ्च  पञ्च यावत् पञ्चेति, पञ्चभ्यस्त्वेकैकं यावदेकमिति |
एवं भल्लातकसहस्रमुपयुज्य सर्वकुष्ठार्शोभिर्विमुक्तो बलवानरोगः  शतायुर्भवति ||१७||

श्लोक 18

द्विव्रणीयोक्तेन विधानेन भल्लातकनिश्च्युतितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत, जीर्णे पूर्ववदाहारः फलप्रकर्षश्च |
भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो  निवातमागारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं वोपयुञ्जीत, तस्मिञ्जीर्णे  क्षीरं सर्पिरोदन इत्याहारः, एवं मासमुपयुज्य मासत्रयमादिष्टाहारो  रक्षेदात्मानं; ततः सर्वोपतापानपहृत्य वर्णवान् बलवाञ्  श्रवणग्रहणधारणशक्तिसम्पन्नो वर्षशतायुर्भवति, मासे मासे च प्रयोगे  वर्षशतं वर्षशतमायुषोऽभिवृद्धिर्भवति, एवं दशमासानुपयुज्य  वर्षसहस्रायुर्भवति ||१८||

श्लोक 19-20

भवन्ति चात्र-
यथा सर्वाणि कुष्ठानि हतः खदिरबीजकौ |
तथैवार्शांसि सर्वाणि वृक्षकारुष्करौ हतः ||१९||

हरिद्रायाः प्रयोगेण प्रमेहा इव षोडश |
क्षाराग्नी नातिवर्तन्ते तथा दृश्या गुदोद्भवाः ||२०||

श्लोक 21

घृतानि दीपनीयानि लेहायस्कृतयः सुराः |
आसवाश्च प्रयोक्तव्या वीक्ष्य दोषसमुच्छ्रितिम् ||२१||

श्लोक 22

वेगावरोधस्त्रीपृष्ठयानान्युत्कुटुकासनम् |
यथास्वं दोषलं चान्नमर्शःसु परिवर्जयेत् ||२२||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थानेऽर्शश्चिकित्सितं नाम षष्ठोऽध्यायः  ||६||