ऋतुचर्याध्यायः

श्लोक 1-2

अथात ऋतुचर्यमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

कालो हि नाम (भगवान् ) स्वयम्भुरनादिमध्यनिधनः |
अत्र रसव्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते |
स सूक्ष्मामपि कलां न लीयत इति कालः, सङ्कलयति कालयति वा  भूतानीति कालः ||३||

श्लोक 4

तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेणाक्षिनिमेषकाष्ठाकलामु-हूर्ताहोरात्रपक्षमासर्त्वयनसंवत्सरयुगप्रविभागं करोति ||४||

श्लोक 5

तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः, पञ्चदशाऽक्षिनिमेषाः काष्ठा,  त्रिंशत्काष्ठाः कला, विंशतिकलो मुहूर्तः कलादशभागश्च, त्रिंशन्मुहूर्तमहोरात्रं, पञ्चदशाहोरात्राणि पक्षः, स च द्विविधः- शुक्लः कृष्णश्च, तौ मासः ||५||

श्लोक 6

तत्र माघादयो द्वादश मासाः, द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति; ते  शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः |
तेषां तपस्तपस्यौ शिशिरः, मधुमाधवौ वसन्तः, शुचिशुक्रौ ग्रीष्मः,  नभोनभस्यौ वर्षाः, इषोर्जौ शरत्, सहःसहस्यौ हेमन्त इति ||६||

श्लोक 7

त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो  दक्षिणमुत्तरं च |
तयोर्दक्षिणं वर्षाशरद्धेमन्ताः; तेषु भगवानाप्यायते सोमः,  अम्ललवणमधुराश्च रसा बलवन्तो भवन्ति, उत्तरोत्तरं च सर्वप्राणिनां  बलमभिवर्धते |
उत्तरं च शिशिरवसन्तग्रीष्माः, तेषु भगवानाप्यायतेऽर्कः,  तिक्तकषायकटुकाश्च रसा बलवन्तो भवन्ति, उत्तरोत्तरं च सर्वप्राणिनां  बलमुपहीयते ||७||

श्लोक 8

भवति चात्र-
शीतांशुः क्लेदयत्युर्वीं विवस्वान् शोषयत्यपि |
तावुभावपि संश्रित्य वायुः पालयति प्रजाः ||८||

श्लोक 9

अथ खल्वयने द्वे युगपत् संवत्सरो भवति |
ते तु पञ्च युगमिति सञ्ज्ञां लभन्ते |
स एष निमेषादिर्युगपर्यन्तः कालश्चक्रवत् परिवर्तमानः कालचक्रमित्युच्यत  इत्येके ||९||

श्लोक 10

इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति,  दोषोपचयप्रकोपोपशमनिमित्तं; ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः; तद्यथा-भाद्रपदाश्वयुजौ वर्षाः, कार्तिकमार्गशीर्षौ शरत्, पौषमाघौ हेमन्तः,  फाल्गुनचैत्रौ वसन्तः, वैशाखज्येष्ठौ ग्रीष्मः; आषाढश्रावणौ प्रावृडिति ||१०||

श्लोक 11

तत्र, वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमलप्रायाः, ता  उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते, विदाहात् पित्तसञ्चयमापादयन्ति; स  सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः  पैत्तिकान् व्याधीञ्जनयति |
ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च  प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्याश्च, ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः  सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः  स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसञ्चयमापादयन्ति; स सञ्चयो  वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान्  व्याधीञ्जनयति |
ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च, ता  उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाच्च वायोः  सञ्चयमापादयन्ति; स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ  क्लिन्नदेहानां देहिनां शीतवातवर्षेरितो वातिकान् व्याधीञ्जनयति |
एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः ||११||

श्लोक 12

तत्र वर्षाहेमन्तग्रीष्मेषु सञ्चितानां दोषाणां
शरद्वसन्तप्रावृट्सु च प्रकुपितानां निर्हरणं कर्तव्यम् ||१२||

श्लोक 13

तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां निदाघे, वातिकानां  शरदि , स्वभावत एव; त एते सञ्चयप्रकोपोपशमा व्याख्याताः ||१३||

श्लोक 14

तत्र, पूर्वाह्णे वसन्तस्य लिङ्गं, मध्याह्ने ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे  वार्षिकं, शारदमर्धरात्रे, प्रत्युषसि हैमन्तमुपलक्षयेत्;
एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं  दोषोपचयप्रकोपोपशमैर्जानीयात् ||१४||

श्लोक 15

तत्र, अव्यापन्नेषु ऋतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च; ता उपयुज्यमानाः  प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति ||१५||

श्लोक 16

तेषां पुनर्व्यापदोऽदृष्टकारिताः, शीतोष्णवातवर्षाणि खलु  विपरीतान्योषधीर्व्यापादयन्त्यपश्च ||१६||

श्लोक 17

तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति ||१७||

श्लोक 18

तत्र, अव्यापन्नानामोषधीनामपां चोपयोगः ||१८||

श्लोक 19

कदाचिदव्यापन्नेष्वपि ऋतुषु कृत्याभिशापरक्षःक्रोधाधर्मैरुपध्वस्यन्ते  जनपदाः, विषौषधिपुष्पगन्धेन वा वायुनोपनीतेनाक्रम्यते यो देशस्तत्र  दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशिरोरुग्ज्वरैरुपतप्यन्ते,  ग्रहनक्षत्रचरितैर्वा,  गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा ||१९||

श्लोक 20

तत्र, स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्कारतपोनियम-दयादानदीक्षाभ्युपगमदेवताब्राह्मणगुरुपरैर्भवितव्यम्, एवं साधु भवति  ||२०||

श्लोक 21

अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः ||२१||

श्लोक 22-23

वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः |
छन्नस्तुषारैः सविता हिमानद्धा जलाशयाः ||२२||

दर्पिता ध्वाङ्क्षखङ्गाह्वमहिषोरभ्रकुञ्जराः |
रोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये ||२३||

श्लोक 24

शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः |
शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः ||२४||

श्लोक 25-28

सिद्धविद्याधरवधूचरणालक्तकाङ्किते |
मलये चन्दनलतापरिष्वङ्गाधिवासिते ||२५||

वाति कामिजनानन्दजननोऽनङ्गदीपनः |
दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः ||२६||

दिशो वसन्ते विमलाः काननैरुपशोभिताः |
किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः ||२७||

कोकिलाषट्पदगणैरुपगीता मनोहराः |
दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः ||२८||

श्लोक 29-30

ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतोऽसुखः |
भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव ||२९||

भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः |
ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ||३०||

श्लोक 31-32

प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः |
अम्बुदैर्विद्युदुद्द्योतप्रस्रुतैस्तुमुलस्वनैः ||३१||

कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही |
कदम्बनीपकुटजसर्जकेतकभूषिता ||३२||

श्लोक 33-34

तत्र वर्षासु नद्योऽम्भश्छन्नोखाततटद्रुमाः |
वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ||३३||

भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता |
नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ||३४||

श्लोक 35-36

बभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः |
तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ||३५||

पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः |
बाणसप्ताह्वबन्धूककाशासनविराजिता ||३६||

श्लोक 37

स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः |
विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम् ||३७||

श्लोक 38

हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत् |
वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् ||३८||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने ऋतुचर्या नाम षष्ठोऽध्यायः ||६||