कर्णव्यधबन्धविध्यध्यायः

श्लोक 1-2

अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते |
तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु  कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारधराङ्के वा कुमारमुपवेश्य  बालक्रीडनकैः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्य कर्णं दैवकृते  छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणहस्तेनर्जु विध्येत्, प्रतनुकं  सूच्या, बहलमारया, पूर्वं दक्षिणं कुमारस्य, वामं कुमार्याः; ततः पिचुवर्तिं  प्रवेशयेत् ||३||

श्लोक 4

शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात्, निरुपद्रवतया  तद्देशविद्धमिति ||४||

श्लोक 5

तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्रवा  भवन्ति |
तत्र, कालिकायां ज्वरो दाहः श्वयथुर्वेदना च भवति; मर्मरिकायां वेदना  ज्वरो ग्रन्थयश्च; लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि  भवन्ति |
तेषु यथास्वं प्रतिकुर्वीत ||५||

श्लोक 6

क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदायादप्रशस्तव्यधाद्वा  यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु  मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत्  सुरूढ इति; सुरूढं चैनं पुनर्विध्येत्; विधानं तु पूर्वोक्तमेव ||६||

श्लोक 7

तत्र सम्यग्विद्धमामतैलेन परिषेचयेत्, त्र्यहात्त्र्यहाच्च वर्तिं स्थूलतरां दद्यात्,  परिषेकं च तमेव ||७||

श्लोक 8

अथ व्यपगतदोषोपद्रवे कर्णे वर्धनार्थं लघु वर्धनकं कुर्यात् ||८||

श्लोक 9

एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम् |
दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ||९||

श्लोक 10

तत्र समासेन पञ्चदशकर्णबन्धाकृतयः |
तद्यथा-नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो  निर्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्धकपाटसन्धिकः सङ्क्षिप्तो  हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठक इति |
तेषु, पृथुलायतसमोभयपालिर्नेमिसन्धानकः,  वृत्तायतसमोभयपालिरुत्पलभेद्यकः; ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः;  अभ्यन्तरदीर्घैकपालिरासङ्गिमः; बाह्यदीर्घैकपालिर्गण्डकर्णः;  अपालिरुभयतोऽप्याहार्यः; पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो  निर्वेधिमः, स्थूलाणुसमविषमपालिर्व्यायोजिमः;  अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः;  बाह्यदीर्घैकपालिरितराल्पपालिरर्धकपाटसन्धिकः |
तत्र दशैते कर्णबन्धविकल्पाः साध्याः ; तेषां स्वनामभिरेवाकृतयः प्रायेण  व्याख्याताः सङ्क्षिप्तादयः पञ्चासाध्याः |
तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः सङ्क्षिप्तः ; अनधिष्ठानपालिः  पर्यन्तयोः क्षीणमांसो हीनकर्णः; तनुविषमाल्पपालिर्वल्लीकर्णः;  ग्रथितमांसस्तब्धसिराततसूक्ष्मपालिर्यष्टिकर्णः;  निर्मांससङ्क्षिप्ताग्राल्पशोणितपालिः काकौष्ठक इति |
बद्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति ||१०||

श्लोक 11

भवन्ति चात्र-
यस्य पालिद्वयमपि कर्णस्य न भवेदिह |
कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ||११||

श्लोक 12

बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् |
आभ्यन्तरायां दीर्घायां बाह्यसन्घिरुदाहृतः ||१२||

श्लोक 13

एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या |
तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ||१३||

श्लोक 14

गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता |
कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् ||१४||

श्लोक 15

अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसम्भृतसम्भारं  विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णं चेति |
ततोऽङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तैः सुपरिगृहीतं च  कृत्वा, बन्धमुपधार्य, छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य,  कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति; तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां  पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य  कर्णौ, पुनरवलिख्यानुन्नतमहीनमविषमं च कर्णसन्धिं सन्निवेश्य,  स्थितरक्तं सन्दध्यात् |
ततो मधुघृतेनाभ्यज्य पिचुप्रोतयोरन्यतरेणावगुण्ठ्य  सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा  कपालचूर्णेनावकीर्याचारिकमुपदिशेत्, द्विव्रणीयोक्तेन च  विधानेनोपचरेत् ||१५||

श्लोक 16

भवति चात्र-
विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् |
व्यवायमग्निसन्तापं वाक्श्रमं च विवर्जयेत् ||१६||

श्लोक 17

न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा सन्दध्यात् |
स हि वातदुष्टे रक्ते रूढोऽपि परिपुटनवान्, पित्तदुष्टे  दाहपाकरागवेदनावान्, श्लेष्मदुष्टे स्तब्धः कण्डूमान्,अतिप्रवृत्तरक्ते  श्यावशोफवान्,  क्षीणोऽल्पमांसो न वृद्धिमुपैति ||१७||

श्लोक 18-19

(आमतैलेन त्रिरात्रं परिषेचयेत्, त्रिरात्राच्च पिचुं परिवर्तयेत्) |
स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं शनैः शनैरभिवर्धयेत् |
अतोऽन्यथा संरम्भदाहपाकरागवेदनावान्, पुनश्छिद्यते वा ||१८||

अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः |
तद्यथा-गोधाप्रतुदविष्किरानूपौदकवसामज्जानौ पयः सर्पिस्तैलं गौरसर्षपजं च  यथालाभं सम्भृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धा-क्षीरशुक्लाजलशूकमधुरवर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं  निदध्यात् ||१९||

श्लोक 20

स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत् |
अथानुपद्रवः सम्यग्बलवांश्च विवर्धते ||२०||

श्लोक 21

यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्तनं हितम् |२१|

श्लोक 21-22

शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः ||२१||

तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम् |२२|

श्लोक 22-23

ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिताः ||२२||

तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु |
बाह्यच्छेदं न कुर्वीत व्यापदः स्युस्ततोध्रुवाः ||२३||

श्लोक 24

बद्धमात्रं तु यः कर्णं सहसैवाभिवर्धयेत् |
आमकोशी समाध्मातः क्षिप्रमेव विमुच्यते ||२४||

श्लोक 25

जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः |
सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः ||२५||

श्लोक 26

अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह |
यो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत् |
(कर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत! |
कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः(१) ||२६||
द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः |
विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके(२) ||२६||
दाहविस्फोटजननं शोफः पाकश्च पैत्तिके |
कण्डूः सश्वयथुः स्तम्भो गुरुत्वं च कफात्मके(३) ||२६||
यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम् |
स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः(४) ||२६||
मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा |
य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति(५) ||२६||
अत ऊर्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् |
उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम्(६) ||२६||
अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा |
स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम्(७) ||२६||
अपामार्गः सर्जरसः पाटलालकुचत्वचौ |
उत्पाटके प्रलेपः स्यात्तैलमेभिश्च पाचयेत्(८) ||२६||
शम्पाकशिग्रुपूतीकान् गोधामेदोऽथ तद्वसाम् |
वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत्(९) ||२६||
लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम् |
गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम्(१०) ||२६||
श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् |
पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम्(११) ||२६||
दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् |
व्रणीभूतस्य देयं स्यादिदं तैलं विजानता(१२) ||२६||
मधुकक्षीरकाकोलीजीवकाद्यैर्विपाचितम् |
गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे(१३) ||२६||
प्रलेपनमिदं दद्यादवसिच्यावमन्थके |
प्रपौण्डरीकं मधुकं समङ्गां धवमेव च(१४) ||२६||
तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् |
सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् |
एतैरालेपनं दद्यात्तैलमेभिश्च साधितम्(१५) ||२६||
ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु |
ततः सैन्धवचूर्णं तु घृष्ट्वा लेपं प्रदापयेत्(१६) ||२६||
लिखित्वा तत्स्रुतं घृष्ट्वा चूर्णैर्लोध्रस्य जम्बुले |
क्षीरेण प्रतिसार्यैनं शुद्धं संरोपयेत्ततः(१७) ||२६||
मधुपर्णी मधूकं च मधुकं मधुना सह |
लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम्(१८) ||२६||
पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः |
जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत्)(१९) ||२६||

श्लोक 27-31

विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् |
नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बि तस्य ||२७||

तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् |
विलिख्य चाशु प्रतिसन्दधीत तत् साधुबन्धैर्भिषगप्रमत्तः ||२८||

सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा |
प्रोन्नम्य चैनामवचूर्णयेत्तु पतङ्गयष्टीमधुकाञ्जनैश्च ||२९||

सञ्छाद्य सम्यक् पिचुना सितेन तैलेन सिञ्चेदसकृत्तिलानाम् |
घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ||३०||

रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत् |
हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ||३१||

श्लोक 32

नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम् |
य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ||३२||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधबन्धविधिर्नाम  षोडशोऽध्यायः ||१६||