कल्पनासिद्धिः

श्लोक 1-2

अथातः कल्पनासिद्धिं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-6

का कल्पना पञ्चसु कर्मसूक्ता, क्रमश्च कः, किं च कृताकृतेषु|
लिड्गं तथैवातिकृतेषु, सङ्ख्या का, किङ्गुणः, केषु च कश्च बस्तिः||३||

किं वर्जनीयं प्रतिकर्मकाले, कृते कियान् वा परिहारकालः|
प्रणीयमानश्च न याति केन, केनैति शीघ्रं, सुचिराच्च बस्तिः||४||

साध्या गदाः स्वैः शमनैश्च केचित् कस्मात् प्रयुक्तैर्न शमं व्रजन्ति|
प्रचोदितः शिष्यवरेण सम्यगित्यग्निवेशेन भिषग्वरिष्ठः||५||

पुनर्वसुस्तन्त्रविदाह तस्मै सर्वप्रजानां हितकाम्ययेदम्|६|

श्लोक 6-7

त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य उक्तः ||६||

नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु|७|

श्लोक 7

स्नेहोऽनिलं हन्ति मृदूकरोति देहं मलानां विनिहन्ति सङ्गम्||७||

श्लोक 8

स्नेहोऽनिलं हन्ति मृदूकरोति देहं मलानां विनिहन्ति सङ्गम्||७||

श्लोक 8-9

ग्राम्यौदकानूपरसैः समांसैरुत्क्लेशनीयः पयसा च वम्यः||८||

रसैस्तथा जाङ्गलजैः सयूषैः स्निग्धैः कफावृद्धिकरैर्विरेच्यः|९|

श्लोक 9-10

श्लेष्मोत्तरश्छर्दयति ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यक्||९||

अधः कफेऽल्पे वमनं विरेचयेद्विरेचनं वृद्धकफे तथोर्ध्वम्|१०|

श्लोक 10-11

स्निग्धाय देयं वमनं यथोक्तं वान्तस्य पेयादिरनुक्रमश्च||१०||

स्निग्धस्य सुस्विन्नतनोर्यथावद्विरेचनं योग्यतमं प्रयोज्यम् |११|

श्लोक 11-12

पेयां विलेपीमकृतं कृतं च यूषं रसं त्रिर्द्विरथैकशश्च||११||

क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः|१२|

श्लोक 12-13

यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण||१२||

महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः|१३|

श्लोक 13-15

जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ||१३||

दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च|
पित्तान्तमिष्टं वमनं विरेकादर्धं कफान्तं च विरेकमाहुः||१४||

द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्|१५|

श्लोक 15-16

क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः||१५||

हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ तथा लघुत्वेऽपि च लक्ष्यमाणे|१६|

श्लोक 16

दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रतां च||१६||

श्लोक 17

तृण्मोहमूर्च्छानिलकोपनिद्राबलादिहानिर्वमनेऽति च स्यात्|१७|

श्लोक 17-18

स्रोतोविशुद्धीन्द्रियसम्प्रसादौ लघुत्वमूर्जोऽग्निरनामयत्वम्||१७||

प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण|१८|

श्लोक 18-19

स्याच्छ्लेष्मपित्तानिलसम्प्रकोपः सादस्तथाऽग्नेर्गुरुता प्रतिश्या||१८||

तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते|१९|

श्लोक 19-20

कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः||१९||

निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचितेऽति|२०|

श्लोक 20-22

संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा||२०||

तैलाक्तगात्राय ततो निरूहं दद्यात्र्यहान्नातिबुभुक्षिताय|
प्रस्यागते धन्वरसेन भोज्यः समीक्ष्य वा दोषबलं यथार्हम्||२१||

नरस्ततो निश्यनुवासनार्हो नात्याशितः स्यादनुवासनीयः |२२|

श्लोक 22-23

शीते वसन्ते च दिवाऽनुवास्यो रात्रौ शरद्ग्रीष्मघनागमेषु||२२||

तानेव दोषान् परिरक्षता ये स्नेहस्य पाने परिकीर्तिताः प्राक्|२३|

श्लोक 23-24

प्रत्यागते चाप्यनुवासनीये दिवा प्रदेयं व्युषिताय भोज्यम्||२३||

सायं च भोज्यं परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वा |
त्र्यहे त्र्यहे वाऽप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनं च||२४||

श्लोक 25

एकं तथा त्रीन् कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि|
वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान् कुशलो विदध्यात्||२५||

श्लोक 26

नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्|
शुद्धो निरूहेण विरेचनं च तद्ध्यस्य शून्यं विकसेच्छरीरम्||२६||

श्लोक 27-28

बस्तिर्वयःस्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृच्च|
सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च||२७||

विट्श्लेष्मपित्तानिलमूत्रकर्षी दार्ढ्यावहः शुक्रबलप्रदश्च|
विश्वक्स्थितं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूहः||२८||

श्लोक 29-31

देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च|
न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण समीरणार्ते ||२९||

स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा|
तैलं ददात्याशु मनःप्रसादं वीर्यं बलं वर्णमथाग्निपुष्टिम् ||३०||

मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः|
काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन||३१||

श्लोक 32-34

स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः|
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः||३२||

आध्मापने विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च|
एवम्प्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च बस्तिरिष्टः||३३||

याश्च स्त्रियो वातकृतोपसर्गा गर्भं न गृह्णन्ति नृभिः समेताः|
क्षीणेन्द्रिया ये च नराः कृशाश्च बस्तिः प्रशस्तः परमं च तेषु||३४||

श्लोक 35

उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्|
तत्प्रत्यनीकौषधसम्प्रयुक्तान् सर्वत्र बस्तीन् प्रविभज्य युञ्ज्यात् ||३५||

श्लोक 36

न बृंहणीयान् विदधीत बस्तीन् विशोधनीयेषु गदेषु वैद्यः|
कुष्ठप्रमेहादिषु मेदुरेषु नरेषु ये चापि विशोधनीयाः||३६||

श्लोक 37

क्षीणक्षतानां न विशोधनीयान्न शोषिणां नो भृशदुर्बलानाम्|
न मूर्च्छितानां न विशोधितानां येषां च दोषेषु निबद्धमायुः||३७||

श्लोक 38-40

शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च|
ये सन्ति तेषां न हि कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति||३८||

विण्मूत्रपित्तादिमलाशयानां विक्षेपसङ्घातकरः स यस्मात्|
तस्यातिवृद्धस्य शमाय नान्यद्बस्तिं विना भेषजमस्ति किञ्चित्||३९||

तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके|४०|

श्लोक 40-41

नाभिप्रदेशं कटिपार्श्वकुक्षिं गत्वा शकृद्दोषचयं विलोड्य ||४०||

संस्नेह्य कायं सपुरीषदोषः सम्यक् सुखेनैति च यः स बस्तिः |४१|

श्लोक 41-42

प्रसृष्टविण्मूत्रसमीरणत्वं रुच्यग्निवृद्ध्याशयलाघवानि||४१||

रोगोपशान्तिः प्रकृतिस्थता च बलं च तत् स्यात् सुनिरूढलिङ्गम्|४२|

श्लोक 42-43

स्याद्रुक्छिरोहृद्गुदबस्तिलिङ्गे शोफः प्रतिश्यायविकर्तिके च||४२||

हृल्लासिका मारुतमूत्रसङ्गः श्वासो न सम्यक् च निरूहिते स्युः|४३|

श्लोक 43

लिङ्गं यदेवातिविरेचितस्य भवेत्तदेवातिनिरूहितस्य||४३||

श्लोक 44

प्रत्येत्यसक्तं सशकृच्च तैलं रक्तादिबुद्धीन्द्रियसम्प्रसादः |
स्वप्नानुवृत्तिर्लघुता बलं च सृष्टाश्च वेगाः स्वनुवासिते स्युः||४४||

श्लोक 45-46

अधःशरीरोदरबाहुपृष्ठपार्श्वेषु रुग्रूक्षखरं च गात्रम् |
ग्रहश्च विण्मूत्रसमीरणानामसम्यगेतान्यनुवासितस्य ||४५||

हृल्लासमोहक्लमसादमूर्च्छाविकर्तिका चात्यनुवासितस्य|४६|

श्लोक 46-47

यस्येह यामाननुवर्तते त्रीन् स्नेहो नरः स्यात् स विशुद्धदेहः||४६||

आश्वागतेऽन्यस्तु पुनर्विधेयः स्नेहो न संस्नेहयति ह्यतिष्ठन्|४७|

श्लोक 47-49

त्रिंशन्मताः कर्म नु बस्तयो हि कालस्ततोऽर्धेन ततश्च योगः||४७||

सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतश्च पञ्च|
काले त्रयोऽन्ते पुरतस्तथैकः स्नेहा निरूहान्तरिताश्च षट् स्युः||४८||

योगे निरूहास्त्रय एव देयाः स्नेहाश्च पञ्चैव परादिमध्याः|४९|

श्लोक 49-50

त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षड्वा वातादिकानामनुवासनीयान् ||४९||

स्नेहान् प्रदायाशु भिषग्विदध्यात् स्रोतोविशुद्यर्थमतो निरूहान्|५०|

श्लोक 50-53

विशुद्धदेहस्य ततः क्रमेण स्निग्धं तलस्वेदितमुत्तमाङ्गम्||५०||

विरेचयेत्त्रिर्द्विरथैकशो वा बलं समीक्ष्य त्रिविधं मलानाम्|
उरःशिरोलाघवमिन्द्रियाच्छ्यं स्रोतोविशुद्धिश्च भवेद्विशुद्धे||५१||

गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते|
शिरोक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरं च पश्येत्||५२||

स्यात्तर्पणं तत्र मृदु द्रवं च स्निग्धस्य तीक्ष्णं तु पुनर्न योगे|५३|

श्लोक 53

इत्यातुरस्वस्थसुखः प्रयोगो बलायुषोर्वृद्धिकृदामयघ्नः||५३||

श्लोक 54

कालस्तु बस्त्यादिषु याति यावांस्तावान् भवेद्द्विः परिहारकालः|५४|

श्लोक 54-55

अत्यासनस्थानवचांसि यानं स्वप्नं दिवा मैथुनवेगरोधान्||५४||

शीतोपचारातपशोकरोषांस्त्यजेदकालाहितभोजनं च|५५|

श्लोक 55-56

बद्धे प्रणीते विषमं च नेत्रे मार्गे तथाऽर्शःकफविड्विबद्धे ||५५||

न याति बस्तिर्न सुखं निरेति दोषावृतोऽल्पो यदि वाऽल्पवीर्यः|५६|

श्लोक 56-57

प्राप्ते तु वर्चोनिलमूत्रवेगे वातेऽतिवृद्धेऽल्पबले गुदे वा||५६||

अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे प्रणीतमात्रः पुनरेति बस्तिः|५७|

श्लोक 57-59

मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून् करोति||५७||

स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्|
रोगास्तथाऽन्येऽप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः||५८||

सन्दूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति|५९|

श्लोक 59-60

सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम्||५९||

मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम्|६०|

श्लोक 60-61

तत्र श्लोकः-
प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम्||६०||

प्रजाहितार्थं भगवान् महार्थान् सम्यग्जगादर्षिवरोऽत्रिपुत्रः||६१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमोऽध्यायः||१||