श्लोक 1-2
अथातः कुष्ठनिदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
मिथ्याहाराचारस्य विशेषाद्गुरुविरुद्धासात्म्याजीर्णाहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायामग्राम्यधर्मसेविनो ग्राम्यानूपौदकमांसानिवा पयसाऽभीक्ष्णमश्नतो यो वा मज्जत्यप्सूष्माभितप्तः सहसा छर्दिं वा प्रतिहन्ति, तस्य पित्तश्लेष्माणौ प्रकुपितौ परिगृह्यानिलः प्रवृद्धस्तिर्यग्गाःसिराः सम्प्रपद्य समुद्धूय बाह्यं मार्गं प्रति समन्ताद्विक्षिपति, यत्र यत्र च दोषो विक्षिप्तो निश्चरति तत्र तत्र मण्डलानि प्रादुर्भवन्ति, एवं समुत्पन्नस्त्वचि दोषस्तत्र तत्र च परिवृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्यते धातूनभिदूषयन् ||३||
श्लोक 4
तस्य पूर्वरूपाणि-त्वक्पारुष्यमकस्माद्रोमहर्षः कण्डूः स्वेदबाहुल्यमस्वेदनं वाऽङ्गप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति ||४||
श्लोक 5
तत्र सप्त महाकुष्ठानि, एकादश क्षुद्रकुष्ठानि, एवमष्टादश कुष्ठानि भवन्ति |
तत्र महाकुष्ठान्यरुणोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणकपुण्डरीकदद्रु-कुष्ठानीति |
क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठं चर्मदलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिभं (मं) पामा रकसा चेति ||५||
श्लोक 6
सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्ति, उत्सन्नतस्तु दोषग्रहणमभिभवात् ||६||
श्लोक 7
तत्र वातेनारुणं, पित्तेनोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणकानि, श्लेष्मणापुण्डरीकं दद्रुकुष्ठं चेति |
तेषां महत्त्वं क्रियागुरुत्वमुत्तरोत्तरं धात्वनुप्रवेशादसाध्यत्वं चेति ||७||
श्लोक 8
तत्र, वातेनारुणाभानि तनूनि विसर्पीणि तोदभेदस्वापयुक्तान्यरुणानि |
पित्तेन पक्वोदुम्बरफलाकृतिवर्णान्यौदुम्बराणि , ऋष्य(क्ष)जिह्वाप्रकाशानि खराणि ऋष्य(क्ष)जिह्वानि, कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि, काकणन्तिकाफलसदृशान्यतीव रक्तकृष्णानि काकणकानि ; तेषां चतुर्णामप्योषचोषपरिदाहधूमायनानि क्षिप्रोत्थानप्रपाकभेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि |
श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि, अतसीपुष्पवर्णानि ताम्राणि वा विसर्पीणि पिडकावन्ति च दद्रुकुष्ठानि; तयोर्द्वयोरप्युत्सन्नता परिमण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि रूपाणि ||८||
श्लोक 9
क्षुद्रकुष्ठान्यत ऊर्ध्वं वक्ष्यामः-स्थूलानि सन्धिष्वतिदारुणानि स्थूलारुषि स्युः कठिनान्यरूंषि |९|
श्लोक 9
त्वक्कोचभेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते भवन्ति ||९||
श्लोक 10
कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्ति कुष्ठम् |१०|
श्लोक 10
स्युर्येन कण्डूव्यथनौषचोषास्तलेषु तच्चर्मदलं वदन्ति ||१०||
श्लोक 11
विसर्पवत् सर्पति सर्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम् |
मूर्च्छाविदाहारतितोदपाकान् कृत्वा विसर्पः स भवेद्विकारः ||११||
श्लोक 12
शनैः शरीरे पिडकाः स्रवन्त्यः सर्पन्ति यास्तं परिसर्पमाहुः |१२|
श्लोक 12
कण्ड्वन्वितं श्वेतमपायि सिध्म विद्यात्तनु प्रायश ऊर्ध्वकाये ||१२||
श्लोक 13
राज्योऽतिकण्ड्वर्तिरुजः सरूक्षा भवन्ति गात्रेषु विचर्चिकायाम् |
कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव ||१३||
श्लोक 14
यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिभं(मं) वदन्ति |१४|
श्लोक 14-15
सास्रावकण्डूपरिदाहकाभिः पामाऽणुकाभिः पिडकाभिरूह्या ||१४||
स्फोटैः सदाहैरति सैव कच्छूः स्फिक्पाणिपादप्रभवैर्निरूप्या |१५|
श्लोक 15
कण्ड्वन्विता या पिडका शरीरे संस्रावहीना रकसोच्यते सा ||१५||
श्लोक 16
अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनि |
वायोः प्रकोपात् परिसर्पमेकं शेषाणि पित्तप्रभवाणि विद्यात् ||१६||
श्लोक 17
किलासमपि कुष्ठविकल्प एव; तत्त्रिविधं- वातेन, पित्तेन, श्लेष्मणा चेति |
कुष्ठकिलासयोरन्तरं- त्वग्गतमेव किलासमपरिस्रावि च |
तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च, पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहं च, श्लेष्मणा श्वेतं स्निग्धं बहलं कण्डूमच्च |
तेषु सम्बद्धमण्डलमन्तेजातं रक्तरोम चासाध्यमग्निदग्धं च ||१७||
श्लोक 18
कुष्ठेषु तु त्वक्सङ्कोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन, पाकावदरणाङ्गुलिपतनकर्णनासाभङ्गाक्षिरागसत्त्वोत्पत्तयः पित्तेन, कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा ||१८||
श्लोक 19
तत्रादिबलप्रवृत्तं पौण्डरीकं काकणं चासाध्यम् ||१९||
श्लोक 20-21
भवन्ति चात्र-
यथा वनस्पतिर्जातः प्राप्य कालप्रकर्षणम् |
अन्तर्भूमिं विगाहेत मूलैर्वृष्टिविवर्धितैः ||२०||
एवं कुष्ठं समुत्पन्नं त्वचि कालप्रकर्षतः |
क्रमेण धातून् व्याप्नोति नरस्याप्रतिकारिणः ||२१||
श्लोक 22-28
स्पर्शहानिः स्वेदनत्वमीषत्कण्डूश्च जायते |
वैवर्ण्यं रूक्षभावश्च कुष्ठे त्वचि समाश्रिते ||२२||
त्वक्स्वापो रोमहर्षश्च स्वेदस्याभिप्रवर्तनम् |
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ||२३||
बाहुल्यं वक्रशोषश्च कार्कश्यं पिडकोद्गमः |
तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते ||२४||
दौर्गन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा |
गात्राणां भेदनं चापि कुष्ठे मेदःसमाश्रिते ||२५||
नासाभङ्गोऽक्षिरागश्च क्षते च क्रिमिसम्भवः |
भवेत् स्वरोपघातश्च ह्यस्थिमज्जसमाश्रिते ||२६||
कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् |
शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च ||२७||
स्त्रीपुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः |
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ||२८||
श्लोक 29
कुष्ठमात्मवतः साध्यं त्वग्रक्तपिशिताश्रितम् |
मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम् ||२९||
श्लोक 30
ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः |
कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य सम्भवम् ||३०||
श्लोक 31-32
म्रियते यदि कुष्ठेन पुनर्जातेऽपि गच्छति |
नातः कष्टतरो रोगो यथा कुष्ठं प्रकीर्तितम् ||३१||
आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम् |
औषधीनां विशिष्टानां तपसश्च निषेवणात् |
यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात् ||३२||
श्लोक 32-34
प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात् सहभोजनात् |
सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ||३३||
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च |
औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ||३४||
पुष्पिका
इति सुश्रुतसंहितायां निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः ||५||