गोमयचूर्णीयमिन्द्रियम्

श्लोक 1-2

अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-8

यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते । सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम् ||३||
निकषन्निव [१] यः पादौ च्युतांसः परिधावति| विकृत्या न स लोकेऽस्मिंश्चिरं वसति मानवः||४||
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्। आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति ||५||
यमुद्दिश्यातुरं वैद्यः संवर्तयितुमौषधम् [२] |
यतमानो न शक्नोति दुर्लभं तस्य जीवितम्||६||
विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्| न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्||७||
आहारमुपयुञ्जानो [३] भिषजा सूपकल्पितम्। यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम्||८||

श्लोक 9-25

दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम्।
यानि दृष्ट्वा भिषक् प्राज्ञः मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा । भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्||१०||
प्रत्याख्यायादसंयमम्||९||
सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति| आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत् ||११||
जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि| वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसवः||१२||
कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः । वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम्||१३||
मृतदग्धविनष्टानि भजति व्याहरत्यपि । अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम् ||१४||
विकारसामान्यगुणे देशे कालेऽथवा भिषक् । दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्||१५||
दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम्|
त्रीन् व्याकृतींश्च षण्डांश्च दूतान् विद्यान्मुमूर्षताम्||१६||
अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा।
सम्प्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति ||१७||
आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम्।
दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम्||१८||
पलालबुसमांसास्थिकेशलोमनखद्विजान्।
मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम् [१] ||१९||
तृणकाष्ठतुषाङ्गारं स्पृशन्तो लोष्टमश्म च। तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम्||२०||
यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्। पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्||२१||
तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा। भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा ||२२||
रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्। स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदशुभं भवेत्||२३||
तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः। दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत् ||२४||
इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्षताम्|२५|

श्लोक 25-32

पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुनः||२५||
अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा ।
आक्रोशः सम्प्रहारो वा प्रतिषेधो विगर्हणम् ||२६||
वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्। व्यसनं दर्शनं चापि मृतव्यसनिनां तथा||२७||
चैत्यध्वजपताकानां पूर्णानां पतनानि च। हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः||२८||
पथच्छेदो बिडालेन शुना सर्पेण वा पुनः। मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति||२९||
शयनासनयानानामुत्तानानां च दर्शनम्। इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः||३०||
एतानि पथि वैद्येन पश्यताऽऽतुरवेश्मनि । शृण्वता च न गन्तव्यं तदागारं विपश्चिता ||३१||
इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम् |३२|

श्लोक 32-39

इमामपि च बुध्येत गृहावस्थां मुमूर्षताम्||३२||
प्रवेशे पूर्णकुम्भाग्निमृद्बीजफलसर्पिषाम्| वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम् ||३३||
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च। भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति||३४||
छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च | दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जनाः||३५||
शयनं वसनं यानं गमनं भोजनं रुतम्। श्रूयतेऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम्||३६||
शयनं वसनं यानमन्यं वाऽपि परिच्छदम्| प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः ||३७||
अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैवोपशाम्यति| निवाते सेन्धनं यस्य तस्य नास्ति चिकित्सितम्||३८||
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा । -अतिमात्रममत्राणि दुर्लभं तस्य जीवितम् ||३९||

श्लोक 40-42

भवन्ति चात्र-
यद्द्वादशभिरध्यायैर्व्यासतः परिकीर्तितम् | मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत्||४०||
तत् समासेन वक्ष्यामः पर्यायान्तरमाश्रितम्| पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते||४१||
अत्यर्थं पुनरेवेयं विवक्षा नो विधीयते । तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम्||४२||

श्लोक 43-61

वसतां चरमं कालं शरीरेषु शरीरिणाम्।
अभ्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम्||४३||
इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम्| तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्||४४||
विनाशायेह रूपाणि यान्यवस्थान्तराणि च| भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम् ||४५||
प्राणाः समुपतप्यन्ते [१] विज्ञानमुपरुध्यते। वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च||४६||
इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना [२] औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि ||४७||
स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पतः। उपप्लवन्ते पाप्मान ओजस्तेजश्च [३] नश्यति ||४८||
शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते। विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति||४९||
शुक्रं प्रच्यवते स्थानादुन्मार्गं भजतेऽनिलः । क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम्||५०||
ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति सन्धयः । गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा||५१||
वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति | धूमः सञ्जायते मूर्ध्नि दारुणाख्यश्च चूर्णकः||५२||
सततस्पन्दना देशाः शरीरे येऽभिलक्षिताः। ते स्तम्भानुगताः सर्वे न चलन्ति कथञ्चन||५३||
गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः। विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः||५४||
नखेषु जायते पुष्पं पङ्को दन्तेषु जायते। जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि||५५||
भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि|
यानि चाप्युपपद्यन्ते तेषां वीर्यं [४] न सिध्यति||५६||
नानाप्रकृतयः क्रूरा विकारा विविधौषधाः | क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी||५७||
शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम् [५] | उत्पद्यन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु||५८||
दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते। प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते||५९||
प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्धते ।
कृत्स्नमौत्पातिकं घोरमरि(नि)ष्टमुपलक्ष्यते||६०||
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम्| लक्षणानि यथोद्देशं यान्युक्तानि यथागमम्||६१||

श्लोक 62-64

मरणायेह रूपाणि पश्यताऽपि भिषग्विदा| अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम्||६२||
पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम्। आतुरस्य भवेद्दुःखमथवाऽन्यस्य कस्यचित्||६३||
अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम्| यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक् ||६४||

श्लोक 65-66

लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता | लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम् ||६५||
दूतैरौत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः । आतुराचारशीलेष्टद्रव्यसम्पत्तिलक्षणैः||६६||

श्लोक 67-70

स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम् अमुण्डमजटं दूतं जातिवेशक्रियासमम्||६७||
अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च । अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु [१] च||६८||
विना चतुर्थी नवमीं विना रिक्तां चतुर्दशीम् । मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम्||६९||
विना देशमशस्तं चाशस्तौत्पातिकलक्षणम्।
दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक्||७०||

श्लोक 71-80

दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च ||७१||
रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च।
सुरध्वजपताकानां फलानां यावकस्य [१] च||७२||
कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था| पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च||७३||
मोदकानां सुमनसां शुक्लानां चन्दनस्य च । मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च||७४||
नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रियास्तथा| जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम्||७५||
हंसानां शतपत्राणां चाषाणां शिखिनां तथा । मत्स्याजद्विजशङ्खानां प्रियङ्गूनां [२] घृतस्य च||७६||
रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्।
गन्धः सुरभिर्वर्णश्च सुशुक्लो मधुरो रसः ||७७||
मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः। छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः||७८||
भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिस्वनाः। वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः||७९||
पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्|८०|

श्लोक 80-86

मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः ||८०||
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः । धनैश्वर्यसुखावाप्तिरिष्टलाभः सुखेन च ||८१||
द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च| गृहप्रासादशैलानां नागानामृषभस्य च||८२||
हयानां पुरुषाणां च स्वप्ने समधिरोहणम्। सोमार्काग्निद्विजातीनां गवां नॄणां पयस्विनाम्||८३||
अर्णवानां प्रतरणं वृद्धिः सम्बाधनिःसृतिः। स्वप्ने देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम्||८४||
दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च। मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः||८५||
स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम्। अश्वगोरथयानं च यानं पूर्वोत्तरेण च।
रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ||८६||

श्लोक 87-88

सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु। साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणम् ||८७||
आरोग्याद्बलमायुश्च सुखं च लभते महत्। इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणः||८८||

श्लोक 89

तत्र श्लोकौ –
उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम्। दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम्||८९||

श्लोक 90

इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं भिषग्विदा। तथा हि सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च ||९०||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं नाम द्वादशोऽध्यायः||१२||
इति चरकसंहितायां पञ्चमम् इन्द्रियस्थानं सम्पूर्णम्।