ग्रन्थ्यपच्यर्बुदगलगण्डनिदानम्

श्लोक 1-2

अथातो ग्रन्थपच्यर्बुदगलगण्डानां निदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

वातादयो मांसमसृक् च दुष्टाः सन्दूष्य मेदश्च कफानुविद्धम् |
वृत्तोन्नतं विग्रथितं तु शोफं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ||३||

श्लोक 4

आयम्यते व्यथ्यत एति तोदं प्रत्यस्यते कृत्यत एति भेदम् |
कृष्णोऽमृदुर्बस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् ||४||

श्लोक 5

दन्दह्यते धूप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि |
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् ||५||

श्लोक 6

शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत् संहननोपपन्नः |
चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम् ||६||

श्लोक 7

शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महानल्परुजोऽतिकण्डूः |
मेदःकृतो गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेदः ||७||

श्लोक 8-9

व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुर्हि सिराप्रतानम् |
सम्पीड्य सङ्कोच्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् ||८||

ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च |
अरुक् स एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः ||९||
इति ग्रन्थीनां निदानं समाप्तम् |

श्लोक 10-12

हन्वस्थिकक्षाक्षकबाहुसन्धिमन्यागलेषूपचितं तु मेदः |
ग्रन्थिं स्थिरं वृत्तमथायतं वा स्निग्धं कफश्चाल्परुजं करोति ||१०||

तं ग्रन्थिभिस्त्वामलकास्थिमात्रैर्मत्स्याण्डजालप्रतिमैस्तथाऽन्यैः |
अनन्यवर्णैरुपचीयमानं चयप्रकर्षादपचीं वदन्ति ||११||

कण्डूयुतास्तेऽल्परुजः प्रभिन्नाः स्रवन्ति नश्यन्ति भवन्ति चान्ये |
मेदःकफाभ्यां खलु रोग एष सुदुस्तरो वर्षगणानुबन्धी ||१२||

श्लोक 13-14

गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्च्छिता मांसमभिप्रदूष्य |
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकम् ||१३||

कुर्वन्ति मांसोपचयं तु शोफं तमर्बुदं शास्त्रविदो वदन्ति |१४|

श्लोक 14-15

वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च ||१४||

तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति |१५|

श्लोक 15-17

दोषः प्रदुष्टो रुधिरं सिरास्तु सम्पीड्य सङ्कोच्य गतस्त्वपाकम् ||१५||

सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धिम् |
स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं स्यात् ||१६||

रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेत् सोऽर्बुदपीडितस्तु |१७|

श्लोक 17-19

मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं प्रकरोति शोफम् ||१७||

अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् |
प्रदुष्टमांसस्य नरस्य बाढमेतद्भवेन्मांसपरायणस्य ||१८||

मांसार्बुदं त्वेतदसाध्यमुक्तं… |१९|

श्लोक 19-20

…साध्येष्वपीमानि विवर्जयेत्तु |
सम्प्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् ||१९||

यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः |
यद्द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् ||२०||

श्लोक 21

न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु |
दोषस्थिरत्वाद्ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु ||२१||

श्लोक 22

वातः कफश्चैव गले प्रवृद्धौ मन्ये तु संसृत्य तथैव मेदः |
कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः ||२२||

श्लोक 23-27

तोदान्वितः कृष्णसिरावनद्धः कृष्णोऽरुणो वा पवनात्मकस्तु |
मेदोन्वितश्चोपचितश्च कालाद्भवेदतिस्निग्धतरोऽरुजश्च ||२३||

पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः ||२४||

स्थिरः सवर्णोऽल्परुगुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु |
चिराभिवृद्धिं कुरुते चिराच्च प्रपच्यते मन्दरुजः कदाचित् ||२५||

माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः |
स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदःकृतो नीरुगथातिकण्डूः ||२६||

प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः |
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् ||२७||

श्लोक 28

कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम् |
क्षीणं च वैद्यो गलगण्डिनं तु भिन्नस्वरं चैव विवर्जयेत्तु ||२८||

श्लोक 29

निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले |
महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ||२९||

पुष्पिका

इति सुश्रुतसंहितायां निदानस्थाने गलगण्डगण्डमालापच्यर्बुदनिदानं  नामैकादशोऽध्यायः ||११||