ज्वरचिकित्सितम् (continued)

श्लोक 195-196

गुरूष्णस्निग्धमधुरान् कषायांश्च नवज्वरे||१९५||

आहारान् दोषपक्त्यर्थं प्रायशः परिवर्जयेत्|
अन्नपानक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१९६||

श्लोक  197-200

अत ऊर्ध्वं प्रवक्ष्यन्ते कषाया ज्वरनाशनाः|
पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत्||१९७||

सनागरं पर्पटकं पिबेद्वा सदुरालभम्|
किराततिक्तकं मुस्तं गुडूचीं विश्वभेषजम्||१९८||

पाठामुशीरं सोदीच्यं पिबेद्वा ज्वरशान्तये|
ज्वरघ्ना दीपनाश्चैते कषाया दोषपाचनाः||१९९||

तृष्णारुचिप्रशमना मुखवैरस्यनाशनाः|२००|

श्लोक 200-203

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी||२००||

पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी|
निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ||१०१||

किराततिक्तममृता चन्दनं विश्वभेषजम्|
गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः||२०२||

कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्|
सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान्||२०३||

श्लोक 204-207

वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम्|
मूर्वां सातिविषां निम्बं पटोलं धन्वयासकम्||२०४||

वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम्|
पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः||२०५||

मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्|
त्रायमाणामुशीरं च त्रिफलां कटुरोहिणीम्||२०६||

पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते|२०७|

श्लोक 207-209

जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्||२०७||

विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत्|
त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम्||२०८||

पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः|
त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः||२०९||

श्लोक 210-214

बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्|
कोलवल्ली च योगोऽयं सन्निपातज्वरापहः||२१०||

शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा|
गुडूची नागरं पाठा किरातं कटुरोहिणी||२११||

एष शट्यादिको वर्गः सन्निपातज्वरापहः|
कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते||२१२||

बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा|
वत्सकस्य च बीजानि पटोलं कटुरोहिणी||२१३||

बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः|
कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च||२१४||

श्लोक 215

कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः|
निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्||२१५||

श्लोक 216-217

ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः|
रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम्||२१६||

रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च|
यः स्यादनुबलो धातुः स्नेहवध्यः स चानिलः||२१७||

श्लोक 218

कषायाः सर्व एवैते सर्पिषा सह योजिताः|
प्रयोज्या ज्वरशान्त्यर्थमग्निसन्धुक्षणाः शिवाः||२१८||

श्लोक 219-221

पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी|
कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा||२१९||

द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका|
सिद्धमितैर्घृतं सद्यो जीर्णज्वरमपोहति||२२०||

क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम्|
अंसाभितापमाग्निं च विषमं सन्नियच्छति||२२१||

श्लोक 222-223

वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम्|
पक्त्वा तेन कषायेण पयसा द्विगुणेन च||२२२||

पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः|
कल्कीकृतैश्च विपचेद्धृतं जीर्णज्वरापहम्||२२३||

श्लोक 224-226

बलां श्वदंष्ट्रां बृहतीं कलसीं धावनीं स्थिराम्|
निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम्||२२४||

कृत्वा कषायं पेष्यार्थे दद्यात्तामलकीं शटीम्|
द्राक्षां पुष्करमूलं च मेदामामलकानि च||२२५||

घृतं पयश्च तत् सिद्धं सर्पिर्ज्वरहरं परम्|
क्षयकासशिरःशूलपार्श्वशूलांसतापनुत् ||२२६||

श्लोक 227-233

ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्|
दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते||२२७||

मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा|
युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये||२२८||

क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना|
ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा||२२९||

मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्|
रसमामलकानां वा घृतभृष्टं ज्वरापहम्||२३०||

लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा|
पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम्||२३१||

आरग्वधं वा पयसा मृद्वीकानां रसेन वा|
त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत्||२३२||

ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्|
पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः||२३३||

श्लोक 234-239

कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्|
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः||२३४||

एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात्|
पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः||२३५||

त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्|
वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः||२३६||

सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्|
शृतं पयः सखर्जूरं पिपासाज्वरनाशनम्||२३७||

चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः|
धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत्||२३८||

जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम्|
पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम्||२३९||

श्लोक 240-249

प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान्|
पक्वाशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु||२४०||

पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः|
ह्रीबेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च||२४१||

स्थिरा बला च तत् सर्वं पयस्यर्धोदके शृतम्|
क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा||२४२||

कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च|
वत्सकस्य च संयुक्तं बस्तिं दद्याज्ज्वरापहम्||२४३||

शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु|
गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः||२४४||

आरग्वधमुशीरं च मदनस्य फलं तथा|
चतस्रः पर्णिनीश्चैव निर्यूहमुपकल्पयेत्||२४५||

प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका|
कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः||२४६||

गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम्|
स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत्||२४७||

रसं जाङ्गलमांसस्य रसेन सहितं भिषक्|
पिप्पलीफलमुस्तानां कल्केन मधुकस्य च||२४८||

ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा|
ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम्||२४९||

श्लोक 250-253

जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्|
ऋद्धिं रास्नां बलां विश्वं शतपुष्पां शतावरीम्||२५०||

पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्|
आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम्||२५१||

पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च|
मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम्||२५२||

चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः|
सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते||२५३||

श्लोक 254-255

यदुक्तं भेषजाध्याये विमाने रोगभेषजे|
शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम्||२५४||

यच्च नावनिकं तैलं याश्च तैलं याश्च प्राग्धूमवर्तयः|
मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि||२५५||

श्लोक 256

अभ्यङ्गांश्च प्रदेहांश्च परिषेकांश्च कारयेत्|
यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम्||२५६||

श्लोक 257

सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम्|
दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक्||२५७||

श्लोक 258-259

अथ चन्दनाद्यं तैलमुपदेक्ष्यामः- चन्दनभद्रश्रीकालानुसार्यकालीयक-पद्मापद्मकोशीरसारिवामधुकप्रपौण्डरीकनागपुष्पोदीच्यवन्यपद्मोत्पल-नलिनकुमुद- सौगन्धिकपुण्डरीकशतपत्रबिसमृणालशालूकशैवालक-शेरुकानन्ताकुशकाशेक्षुदर्भशरनलशालिमूलजम्बुवेतसवानीरगुन्द्रा-ककुभासनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिशखदिरकदरक-दम्बकाश्मर्यफलसर्जप्लक्षवटकपीतनोदुम्बराश्वत्थ-न्यग्रोधधातकीदू-र्वेत्कटशृङ्गाटकमञ्जिष्ठाज्योतिष्मतीपुष्करबीजक्रौञ्चादनबदरीकोविदा-रकदली- संवर्तकारिष्टशतपर्वाशीतकुम्भिकाशतावरीश्रीपर्णीश्रावणीम-हाश्रावणीरोहिणीशीतपाक्योदनपाकीकालबलापयस्याविदारी-जीवकर्षभकमेदामहामेदामधुरसर्ष्यप्रोक्तातृणशून्यमोचरसाटरूषक-बकुलकुटजपटोलनिम्बशाल्मलीनारिकेल-खर्जूरमृद्वीकाप्रियाल-प्रियङ्गुधन्वनात्मागुप्तामधूकानामन्येषां च शीतवीर्याणां  यथालाभमौषधानां कषायं कारयेत्|
तेन कषायेण द्विगुणितपयसा तेषामेव च कल्केन कषायार्धमात्रं  मृद्वग्निना साधयेत्तैलम्|
एतत्तैलमभ्यङ्गात् सद्यो दाहज्वरमपनयति|
एतैरेव चौषधैरश्लक्ष्णपिष्टैः सुशीतैः प्रदेहं कारयेत्|
एतैरेव च शृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत||२५८||

इति चन्दनाद्यं तैलम्|
मध्वारनालक्षीरदधिघृतसलिलसेकावगाहाश्च सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वात्||२५९||

श्लोक 260-266

भवन्ति चात्र-
पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु च|
कदलीनां च पत्रेषु क्षौमेषु विमलेषु च||२६०||

चन्दनोदकशीतेषु शीते धारागृहेऽपि वा|
हिमाम्बुसिक्ते सदने दाहार्तः संविशेत् सुखम्||२६१||

हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य च|
चन्दनोदकशीतानां संस्पर्शानुरसान् स्पृशेत्||२६२||

स्रग्भिर्नीलोत्पलैः पद्मैर्व्यजनैर्विविधैरपि|
शीतवातावहैर्व्यज्ज्येच्चन्दनोदकवर्षिभिः ||२६३||

नद्यस्तडागाः पद्मिन्यो ह्रदाश्च विमलोदकाः|
अवगाहे हिता दाहतृष्णाग्लानिज्वरापहाः||२६४||

प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः|
सान्त्वयेयुः परैः कामैर्मणिमौक्तिकभूषणाः||२६५||

शीतानि चान्नपानानि शीतान्युपवनानि च|
वायवश्चन्द्रपादाश्च शीता दाहज्वरापहाः||२६६||

श्लोक 267

अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः-अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयकक्षेमकैलावरा-ङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकी-देवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृ-हतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्ड-शोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकप-त्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णी-तिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोत-काण्डीरात्मजैकेषीकाकरञ्जधान्यकाजमोद-पृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभू-स्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबलातिबला-गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्र-काध्यण्डाम्लचाङ्गेरी-तिलबदरकुलत्थमाषाणामेवंविधानामन्येषां  चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्, तेन कषायेण तेषामेव च कल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वर-प्रतिविनीतेन तैलपात्रं विपाचयेत्|
तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्, तथा शीतज्वरःप्रशाम्यति; एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैः प्रदेहं कारयेत्, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत  शीतज्वरप्रशमार्थम्||२६७||
इत्यगुर्वाद्यं तैलम्|

श्लोक 268-271

भवन्ति चात्र-
त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः|
मात्राकालविदा युक्तः स च शीतज्वरापहः||२६८||

सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्|
शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः||२६९||

चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा|
आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम्||२७०||

स्वेदनान्यन्नपानानि वातश्लेष्महराणि च|
शीतज्वरं जयन्त्याशु संसर्गबलयोजनात्||२७१||

श्लोक 272-283

वातजे श्रमजे चैव पुराणे क्षतजे ज्वरे|
लङ्घनं न हितं विद्याच्छमनैस्तानुपाचरेत्||२७२||

विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्|
ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः||२७३||

यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि|
न पचत्योदनं सम्यगनिलप्रेरितो बहिः||२७४||

पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्|
न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु||२७५||

अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः|
सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः||२७६||

निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि|
उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः||२७७||

मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः|
एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे||२७८||

नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्|
ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्||२७९||

कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्|
पाययित्वा कषायं च भोजयेद्रसभोजनम्||२८०||

जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्|
श्लेष्मलानामवातानां ज्वरोऽनुष्णः कफाधिकः||२८१||

परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्|
तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना||२८२||

आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्|२८३|

श्लोक 283-284

सामा ये ये च कफजाः कफपित्तज्वराश्च ये||२८३||

लङ्घनं लङ्घनीयोक्तं तेषु कार्यं प्रति प्रति|२८४|

श्लोक 284-285

वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्||२८४||

ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्|२८५|

श्लोक 285-287

संसृष्टान् सन्निपतितान् बुद्ध्वा तरतमैः समैः||२८५||

ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्|
वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा||२८६||

कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्|२८७|

श्लोक 287-289

सन्निपातज्वरस्यान्ते कर्णमूले सुदारूणः||२८७||

शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते|
रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत्||२८८||

प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः|२८९|

श्लोक 289-290

शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति||२८९||

शाखानुसारी रक्तस्य सोऽवसेकात् प्रशाम्यति|२९०|

श्लोक 290-291

विसर्पेणाभिघातेन यश्च विस्फोटकैर्ज्वरः||२९०||

तत्रादौ सर्पिषः पानं कफपित्तोत्तरो न चेत्|२९१|

श्लोक 291-292

दौर्बल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते||२९१||

बल्येः सम्बृंहणैस्तस्मादाहारैस्तमुपाचरेत्|२९२|

श्लोक 292-296

कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ ||२९२||

आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे|
वातप्रधानं सर्पिर्भिर्बस्तिभिः सानुवासनैः||२९३||

स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम्|
विरेचनेन पयसा सर्पिषा संस्कृतेन च||२९४||

विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत्|
वमनं पाचनं रूक्षमन्नपानं विलङ्घनम्||२९५||

कषायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे|२९६|

श्लोक 296-310

योगाः पराः प्रवक्ष्यन्ते विषमज्वरनाशनाः||२९६||

प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते|
सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः||२९७||

तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे|
पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत्||२९८||

त्रिफलायाः कषायं वा गुडूच्या रसमेव वा|
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्||२९९||

पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः|
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः||३००||

उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्|
सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे||३०१||

आस्थापनं यापनं वा कारयेद्विषमज्वरे|
पयसा वृषदंशस्य शकृद्वा तदहः पिबेत्||३०२||

वृषस्य दधिमण्डेन सुरया वा ससैन्धवम्|
पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः||३०३||

पञ्चगव्यस्य पयसः प्रयोगो विषमज्वरे|
रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम्||३०४||

मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम्|
हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा||३०५||

पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा|
सैन्धवं पिप्पलीनां च तण्डुलाः समनःशिलाः||३०६||

नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे|
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी||३०७||

सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्|
ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत्||३०८||

मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे|
मणीनामोषधीनां च मङ्गल्यानां विषस्य च||३०९||

धारणादगदानां च सेवनान्न भवेज्ज्वरः|३१०|

श्लोक 310-317

सोमं सानुचरं देवं समातृगणमीश्वरम्||३१०||

पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्|
विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्||३११||

स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति|
ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्||३१२||

गङ्गां मरुद्गणांश्चेष्ट्या पूजयञ्जयति ज्वरान्|
भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३||

ब्रह्मचर्येण तपसा सत्येन नियमेन च|
जपहोमप्रदानेन वेदानां श्रवणेन च||३१४||

ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च|
ज्वरे रसस्थे वमनमुपवासं च कारयेत्||३१५||

सेकप्रदेहौ रक्तस्थे तथा संशमनानि च|
विरेचनं सोपवासं मांसमेदःस्थिते हितम्||३१६||

अस्थिमज्जगते देया निरूहाः सानुवासनाः|३१७|

श्लोक 317-323

शापाभिचाराद्भूतानामभिषङ्गाच्च यो ज्वरः||३१७||

दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते|
अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः||३१८||

रक्तावसेकैर्मद्यैश्च सात्म्यैर्मांसरसौदनैः|
सानाहो मद्यसात्म्यानां मदिरारसभोजनैः||३१९||

क्षतानां व्रणितानां च क्षतव्रणचिकित्सया|
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च||३२०||

हर्षणैश्च शमं यान्ति कामशोकभयज्वराः|
काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः||३२१||

सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः|
कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः||३२२||

याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः|३२३|

श्लोक 323-324

ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु यः||३२३||

तस्येष्टैस्तु विचित्रैश्च विषयैर्नाशयेत् स्मृतिम्|३२४|

श्लोक 324-328

ज्वरप्रमोक्षे पुरुषः कूजन् वमति चेष्टते|
श्वसन्विवर्णः स्विन्नाङ्गो वेपते लीयते मुहुः||३२४||

प्रलपत्युष्णसर्वाङ्गः शीताङ्गश्च भवत्यपि|
विसञ्ज्ञो ज्वरवेगार्तः सक्रोध इव वीक्ष्यते ||३२५||

सदोषशब्दं च शकृद्द्रवं स्रवति वेगवत्|
लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षणः||३२६||

बहुदोषस्य बलवान् प्रायेणाभिनवो ज्वरः|
सत्क्रियादोषपक्त्या चेद्विमुञ्चति सुदारुणम्||३२७||

कृत्वा दोषवशाद्वेगं क्रमादुपरमन्ति ये|
तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम्||३२८||

श्लोक 329

विगतक्लमसन्तापमव्यथं विमलेन्द्रियम्|
युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम्||३२९||

श्लोक 330-332

सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि च|
असात्म्यान्यन्नपानानि विरुद्धानि च वर्जयेत्||३३०||

व्यवायमतिचेष्टाश्च स्नानमत्यशनानि च|
तथा ज्वरः शमं याति प्रशान्तो जायते न च||३३१||

व्यायामं च व्यवायं च स्नानं चङ्क्रमणानि च|
ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत्||३३२||

श्लोक 333-343

असञ्जातबलो यस्तु ज्वरमुक्तो निषेवते|
वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः||३३३||

दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते|
स्वल्पेनप्यपचारेण तस्य व्यावर्तते पुनः||३३४||

चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम् |
अचिरेणैव कालेन स हन्ति पुनरागतः||३३५||

अथवाऽपि परीपाकं धातुष्वेव क्रमान्मलाः|
यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते||३३६||

दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्|
कण्डूरुक्तोठपिडकाः कुर्वन्त्यग्निं च ते मृदुम्||३३७||

एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गताः|
अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम्||३३८||

निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथाबलम्|
यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत्||३३९||

मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः|
हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः||३४०||

अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च|
हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च||३४१||

गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते|
लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत्||३४२||

किराततिक्तकं तिक्ता मुस्तं पर्पटकोऽमृता|
घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम्||३४३||

श्लोक 344

तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः|
ज्वराक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम्||३४४||

श्लोक 345

रोगराट् सर्वभूतानामन्तकृद्दारुणो ज्वरः|
तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक्||३४५||

श्लोक 346

तत्र श्लोकः-
यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्|
आत्रेयेणाग्निवेशाय भूतानां हितकाम्यया||३४६||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
ज्वरचिकित्सितं नाम तृतीयोऽध्यायः||३||