श्लोक 1-2
अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
सततं यः पिबेद्वारि न तृप्तिमधिगच्छति |
पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत् ||३||
श्लोक 4-5
सङ्क्षोभशोकश्रममद्यपानाद्रूक्षाम्लशुष्कोष्णकटूपयोगात् |
धातुक्षयाल्लङ्घनसूर्यतापात् पित्तं च वातश्च भृशं प्रवृद्धौ ||४||
स्रोतांसि सन्दूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि |
स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णाऽतिबला ततस्तु ||५||
श्लोक 6
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च |
स्यात् सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ||६||
श्लोक 7
ताल्वोष्ठकण्ठास्यविशोषदाहाः सन्तापमोहभ्रमविप्रलापाः |
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ||७||
श्लोक 8
शुष्कास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि |
स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ||८||
श्लोक 9
मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः |
शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च ||९||
श्लोक 10-11
कफावृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम् |
निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् ||१०||
कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च |
कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव |
एतानि रूपाणि भवन्ति तस्यां तयाऽर्दितः काङ्क्षति नाति चाम्भः ||११||
श्लोक 12
क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु |
तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् ||१२||
श्लोक 13-14
रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च |
अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः ||१३||
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् |१४|
श्लोक 14
त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता ||१४||
श्लोक 15
स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवातितृषां करोति |१५|
श्लोक 15
क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु ||१५||
श्लोक 16-17
तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागधिकोदकेन |
विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः ||१६||
तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः |१७|
श्लोक 17
गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः ||१७||
श्लोक 18
सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा |
जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्रयुतं हिमं वा ||१८||
श्लोक 19
पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा |
पिबेत् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः ||१९||
श्लोक 20
पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्रयुतः सुशीतः |
पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः ||२०||
श्लोक 21
बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति |
हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन ||२१||
श्लोक 22
सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्याद्विधिं तेन हि ता न सन्ति |२२|
श्लोक 22-23
पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्क्वथितोदकं वा ||२२||
वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः |२३|
श्लोक 23
कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं क्षतजां निहन्ति ||२३||
श्लोक 24-25
लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु |
तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्रयुतं वदन्ति ||२४||
द्राक्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः |२५|
श्लोक 25-26
ससारिवादौ तृणपञ्चमूले तथोत्पलादौ प्रथमे गणे च ||२५||
कुर्यात् कषायं च यथेरितेन … |२६|
श्लोक 26
… मधूकपुष्पादिषु चापरेषु |
राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः ||२६||
श्लोक 27
सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि |२७|
श्लोक 27
क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः ||२७||
श्लोक 28
क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा |२८|
श्लोक 28-29
आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ दीपनीयैः ||२८||
आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि |२९|
श्लोक 29
गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् ||२९||
श्लोक 30
श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः |३०|
श्लोक 30
भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च ||३०||
श्लोक 31
या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः |३१|
श्लोक 31
मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ||३१||
श्लोक 32
तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः |३२|
श्लोक 32
स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ||३२||
श्लोक 33
लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि |
संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ||३३||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे
(दशमोऽध्यायः, आदितः) अष्टचत्वारिंशोऽध्यायः ||४८||