तृष्णाप्रतिषेधाध्यायः

श्लोक 1-2

अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

सततं यः पिबेद्वारि न तृप्तिमधिगच्छति |
पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत् ||३||

श्लोक 4-5

सङ्क्षोभशोकश्रममद्यपानाद्रूक्षाम्लशुष्कोष्णकटूपयोगात् |
धातुक्षयाल्लङ्घनसूर्यतापात् पित्तं च वातश्च भृशं प्रवृद्धौ ||४||

स्रोतांसि सन्दूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि |
स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णाऽतिबला ततस्तु ||५||

श्लोक 6

तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च |
स्यात् सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ||६||

श्लोक 7

ताल्वोष्ठकण्ठास्यविशोषदाहाः सन्तापमोहभ्रमविप्रलापाः |
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ||७||

श्लोक 8

शुष्कास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि |
स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ||८||

श्लोक 9

मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः |
शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च ||९||

श्लोक 10-11

कफावृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम् |
निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् ||१०||

कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च |
कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव |
एतानि रूपाणि भवन्ति तस्यां तयाऽर्दितः काङ्क्षति नाति चाम्भः ||११||

श्लोक 12

क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु |
तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् ||१२||

श्लोक 13-14

रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च |
अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः ||१३||

रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् |१४|

श्लोक 14

त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता ||१४||

श्लोक 15

स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवातितृषां करोति |१५|

श्लोक 15

क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु ||१५||

श्लोक 16-17

तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागधिकोदकेन |
विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः ||१६||

तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः |१७|

श्लोक 17

गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः ||१७||

श्लोक 18

सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा |
जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्रयुतं हिमं वा ||१८||

श्लोक 19

पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा |
पिबेत् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः ||१९||

श्लोक 20

पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्रयुतः सुशीतः |
पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः ||२०||

श्लोक 21

बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति |
हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन ||२१||

श्लोक 22

सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्याद्विधिं तेन हि ता न सन्ति |२२|

श्लोक 22-23

पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्क्वथितोदकं वा ||२२||

वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः |२३|

श्लोक 23

कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं क्षतजां निहन्ति ||२३||

श्लोक 24-25

लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु |
तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्रयुतं वदन्ति ||२४||

द्राक्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः |२५|

श्लोक 25-26

ससारिवादौ तृणपञ्चमूले तथोत्पलादौ प्रथमे गणे च ||२५||

कुर्यात् कषायं च यथेरितेन … |२६|

श्लोक 26

… मधूकपुष्पादिषु चापरेषु |
राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः ||२६||

श्लोक 27

सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि |२७|

श्लोक 27

क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः ||२७||

श्लोक 28

क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा |२८|

श्लोक 28-29

आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ दीपनीयैः ||२८||

आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि |२९|

श्लोक 29

गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् ||२९||

श्लोक 30

श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः |३०|

श्लोक 30

भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च ||३०||

श्लोक 31

या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः |३१|

श्लोक 31

मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ||३१||

श्लोक 32

तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः |३२|

श्लोक 32

स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ||३२||

श्लोक 33

लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि |
संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ||३३||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे
(दशमोऽध्यायः, आदितः) अष्टचत्वारिंशोऽध्यायः ||४८||