श्लोक 1-2
अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3-7
धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोदुम्बर-करहाटकार्जुनककुभसर्ज-कपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तका-र्कचिरबिल्वमहावृक्षारुष्करारलु-मधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्, दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पली-मरिचविडङ्गगृहधूमानन्ता-सोमसरलाबाह्लीकगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलक-वञ्जुलवक्रालवर्धमानपुत्रश्रेणी-सप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्राव-चाचूर्णानि लोहानां च समभागानि, ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात् ||३||
अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च |
श्रवणाद्दर्शनात् स्पर्शात् विषात् सम्प्रतिमुच्यते ||४||
एष क्षारागदो नाम शर्करास्वश्मरीषु च |
अर्शःसु वातगुल्मेषु कासशूलोदरेषु च ||५||
अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे |
शोफे सर्वसरे चापि देयः श्वासे च दारुणे ||६||
सदा सर्वविषार्तानां सर्वथैवोपयुज्यते |
एष तक्षकमुख्यानामपि दर्पाङ्कुशोऽगदः ||७||
श्लोक 8-11
विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः |
तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम् ||८||
दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे |
प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम् ||९||
सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम् |
सर्पिः कल्याणकं ह्येतद्ग्रहापस्मारनाशनम् ||१०||
पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत् |
शोषिणामल्पशुक्राणां वन्ध्यानां च प्रशस्यते ||११||
श्लोक 12-13
अपामार्गस्य बीजानि शिरीषस्य च माषकान् |
श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत् ||१२||
सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम् |
अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम् ||१३||
श्लोक 14-27
चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम् |
प्रपौण्डरीकं नलदं सरलं देवदारु च ||१४||
भद्रश्रियं यवफलां भार्गी नीलीं सुगन्धिकाम् |
कालेयकं पद्मकं च मधुकं नागरं जटाम् ||१५||
पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम् |
तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् ||१६||
तालीशपत्रं क्षुद्रैलां प्रियङ्गुं सकुटन्नटम् |
शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् ||१७||
कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम् |
सोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम् ||१८||
उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा |
श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च ||१९||
कुमुदोत्पलपद्मानि पुष्पं चापि तथाऽर्कजम् |
चम्पकाशोकसुमनस्तिल्वकप्रसवानि च ||२०||
पाटलीशाल्मलीशैलुशिरीषाणां तथैव च |
कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम् ||२१||
धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च |
गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् ||२२||
एतत् सम्भृत्य सम्भारं सूक्ष्मचूर्णानि कारयेत् |
गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत् ||२३||
भग्नस्कन्धं विवृताक्षं मृत्योर्दंष्ट्रान्तरं गतम् |
अनेनागदमुख्येन मनुष्यं पुनराहरेत् ||२४||
एषोऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः |
विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि ||२५||
महासुगन्धिनामाऽयं पञ्चाशीत्यङ्गसंयुतः |
राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा ||२६||
स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः |
भ्राजिष्णुतां च लभते शत्रुमध्यगतोऽपि सन् ||२७||
श्लोक 28
उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता |
मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते ||२८||
श्लोक 29-31
अन्नपानविधावुक्तमुपधार्य शुभाशुभम् |
शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत् ||२९||
फाणितं शिग्रुसौवीरमजीर्णाध्यशनं तथा |
वर्जयेच्च समासेन नवधान्यादिकं गणम् ||३०||
दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम् |
सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः ||३१||
श्लोक 32
प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्षं समसूत्रजिह्वम् |
प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ||३२||
पुष्पिका
इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकल्पो नाम षष्ठोऽध्यायः ||६||