द्रव्यविशेषविज्ञानीयाध्यायः

श्लोक 1-2

अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

तत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्रव्याभिनिर्वृत्तिः,  उत्कर्षस्त्वभिव्यञ्जको भवति-इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ||३||

श्लोक 4(1)

तत्र स्थूलसान्द्रमन्दस्थिरगुरुकठिनं गन्धबहुलमीषत्कषायं प्रायशो  मधुरमिति पार्थिवं; तत् स्थैर्यबलगौरवसङ्घातोपचयकरं  विशेषतश्चाधोगतिस्वभावमिति(१) |४|

श्लोक 4(2)

शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्रमृदुपिच्छिलं  रसबहुलमीषत्कषायाम्ललवणं मधुररसप्रायमाप्यं; तत्  स्नेहनह्लादनक्लेदनबन्धनविष्यन्दनकरमिति;(२) |४|

श्लोक 4(3)

उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुलमीषदम्ललवणं  कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसं;  तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति;(३) |४|

श्लोक 4(4)

सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं विशेषतः  कषायमिति वायवीयं; तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति;(४)  |४|

श्लोक 4(5)

श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयं;  तन्मार्दवशौषिर्यलाघवकरमिति(५) ||४||

श्लोक 5

अनेन निदर्शनेन नानौषधीभूतं जगति किञ्चिद्द्रव्यमस्तीति कृत्वा तं तं  युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्यगुणयुक्तानि द्रव्याणि कार्मुकाणि  भवन्ति |
तानि यदा कुर्वन्ति स कालः, यत् कुर्वन्ति तत् कर्म, येन कुर्वन्ति तद्वीर्यं,  यत्र कुर्वन्ति तदधिकरणं, यथा कुर्वन्ति स उपायः, यन्निष्पादयन्ति तत्  फलमिति ||५||

श्लोक 6-9

तत्र, विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि, पृथिव्यापो गुर्व्यः, तानि  गुरुत्वादधो गच्छन्ति, तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात् ;  वमनद्रव्याण्यग्निवायुगुणभूयिष्ठानि, अग्निवायु हि लघू, लघुत्वाच्च  तान्यूर्ध्वमुत्तिष्ठन्ति, तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम्;  उभयगुणभूयिष्ठमुभयतोभागम्; आकाशगुणभूयिष्ठं संशमनं;  साङ्ग्राहिकमनिलगुणभूयिष्ठम्, अनिलस्य शोषणात्मकत्वात्;  दीपनमग्निगुणभूयिष्ठं, तत्समानत्वात्; लेखनमनिलानलगुणभूयिष्ठं; बृंहणं  पृथिव्यम्बुगुणभूयिष्ठम्; एवमौषधकर्माण्यनुमानात् साधयेत् ||६||

भवन्ति चात्र-
भूतेजोवारिजैर्द्रव्यैः शमं याति समीरणः |
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ||७||

खतेजोऽनिलजैः श्लेष्मा शममेति शरीरिणाम् |
वियत्पवनजाताभ्यां वृद्धिमभ्येति मारुतः ||८||

आग्नेयमेव यद्द्रव्यं तेन पित्तमुदीर्यते |
वसुधाजलजाताभ्यां बलासः परिवर्धते ||९||

श्लोक 10

एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये विनिश्चितम् |
द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् ||१०||

श्लोक 11

तत्र य इमे गुणा वीर्यसञ्ज्ञकाः  शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ,  शीतपिच्छिलावम्बुगुणभूयिष्ठौ , पृथिव्यम्बुगुणभूयिष्ठः स्नेहः,  तोयाकाशगुणभूयिष्ठं मृदुत्वं, वायुगुणभूयिष्ठं रौक्ष्यं,  क्षितिसमीरणगुणभूयिष्ठं वैशद्यं; विपाकावुक्तगुणौ |
तत्र, उष्णस्निग्धौ वातघ्नौ, शीतमृदुपिच्छिलाः पित्तघ्नाः, तीक्ष्णरूक्षविशदाः  श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः, लघुपाकः श्लेष्मघ्नः |
तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः, पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां,  स्निग्धरूक्षौ चक्षुषा, तीक्ष्णो मुखे दुःखोत्पादनात् |
गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च, लघुर्बद्धविण्मूत्रतया  मारुतकोपेन च |
तत्र तुल्यगुणेषु भूतेषु रसवैशेष्यमुपलक्षयेत् |
तद्यथा- मधुरो गुरुश्च पार्थिवः, मधुरः स्निग्धश्चाप्य इति ||११||

श्लोक 12

भवति चात्र-
गुणा य उक्ता द्रव्येषु शरीरेष्वपि ते तथा |
स्थानवृद्धिक्षयास्तस्माद्देहिनां द्रव्यहेतुकाः ||१२||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यविशेषविज्ञानीयो  नामैकचत्वारिंशत्तमोऽध्यायः ||४१||