श्लोक 1-2
अथातः पूतनाप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3-4
कपोतवङ्काऽरलुको वरुणः पारिभद्रकः |
आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ||३||
वचा वयःस्था गोलोमी हरितालं मनःशिला |
कुष्ठं सर्जरसश्चैव तैलर्थे वर्ग इष्यते ||४||
श्लोक 5-7
हितं घृतं तुगाक्षीर्यां सिद्धं मधुरकेषु च |
कुष्ठतालीशखदिरचन्दनस्यन्दने तथा ||५||
देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बकः |
एला हरेणवश्चापि योज्या उद्धूपने सदा ||६||
गन्धनाकुलिकुम्भीके मज्जानो बदरस्य च |
कर्कटास्थि घृतं चापि धूपनं सर्षपैः सह ||७||
श्लोक 8
काकादनीं चित्रफलां बिम्बीं गुञ्जां च धारयेत् |
मत्स्यौदनं च कुर्वीत कृशरां पललं तथा |
शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत् ||८||
श्लोक 9-11
उच्छिष्टेनाभिषेकेण शिशोः स्नपनमिष्यते |
पूज्या च पूतना देवी बलिभिः सोपहारकैः ||९||
मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा |
शून्यागाराश्रिता देवी दारकं पातु पूतना ||१०||
दुर्दर्शना सुदुर्गन्धा कराला मेघकालिका |
भिन्नगाराश्रया देवी दारकं पातु पूतना ||११||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे (षष्ठोऽध्यायः,आदितः)द्वात्रिंशोऽध्यायः ||३२||