प्रभाषणीयाध्यायः

श्लोक 1-2

अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-4

अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य चन्दनभार इव केवलं  परिश्रमकरं भवति ||३||

भवति चात्र-
यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य |
एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ||४||

श्लोक 5

तस्मात् सविंशमध्यायशतमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च;  कस्मात्? सूक्ष्मा हि द्रव्यरसगुणवीर्यविपाकदोषधातुमलाशयमर्मसिरास्ना-युसन्ध्यस्थिगर्भसम्भवद्रव्यसमूहविभागास्तथा  प्रनष्टशल्योद्धरणव्रणविनिश्चयभग्नविकल्पाः साध्ययाप्यप्रत्याख्येयता च  विकाराणामेवमादयश्चान्ये विशेषाः सहस्रशो ये विचिन्त्यमाना  विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः,  तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च ||५||

श्लोक 6

अन्यशास्त्रोपपन्नानां चार्थानामिहोपनीतानामर्थवशात्तेषां तद्विद्येभ्य एव
व्याख्यानमनुश्रोतव्यं, कस्मात्? न ह्येकस्मिन् शास्त्रे शक्यः  सर्वशास्त्राणामवरोधः कर्तुम् ||६||

श्लोक 7

भवन्ति चात्र-
एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् |
तस्माद्बहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः ||७||

श्लोक 8

शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् |
यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ||८||

श्लोक 9

औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् |
शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ||९||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयो नाम चतुर्थोऽध्यायः ||४||