प्रमेहनिदानम्

श्लोक 1-2

अथातः प्रमेहनिदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

दिवास्वप्नाव्यायामालस्यप्रसक्तं शीतस्निग्धमधुरमेद्यद्रवान्नपानसेविनं  पुरुषं जानियात् प्रमेही भविष्यतीति ||३||

श्लोक 4

तस्य चैवम्प्रवृत्तस्यापरिपक्वा एव वातपित्तश्लेष्माणो यदा मेदसा  सहैकत्वमुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य  निर्भिद्यन्ते तदा प्रमेहाञ्जनयन्ति ||४||

श्लोक 5

तेषां तु पूर्वरूपाणि-हस्तपादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां  मधुरशुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च  श्वासस्तालुगलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च  नखानाम् ||५||

श्लोक 6

तत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहा भवन्ति ||६||

श्लोक 7

सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः ||७||

श्लोक 8

तत्र, कफादुदकेक्षुवालिकासुरासिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहा दश साध्याः, दोषदूष्याणां समक्रियत्वात्;  पित्तान्नीलहरिद्राम्लक्षारमञ्जिष्ठाशोणितमेहाः षड् याप्याः,  दोषदूष्याणां विषमक्तियत्वात्; वातात्  सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारोऽसाध्यतमाः, महात्ययिकत्वात् ||८||

श्लोक 9

तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहाञ्जनयति,  वातकफशोणितमेदोभिरन्वितं पित्तं पित्तप्रमेहान्,  कफपित्तवसामज्जमेदोभिरन्वितो वायुर्वातप्रमेहान् ||९||

श्लोक 10

तत्र, श्वेतमवेदनमुदकसदृशमुदकमेही मेहति;  इक्षुरसतुल्यमिक्षुवालिकामेही; सुरातुल्यं सुरामेही; सरुजं  सिकतानुविद्धं सिकतामेही; शनैः सकफं मृत्स्नं शनैर्मेही; विशदं  लवणतुल्यं लवणमेही; हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही; आविलं  सान्द्रं सान्द्रमेही; शुक्रतुल्यं शुक्रमेही; स्तोकं स्तोकं सफेनमच्छं  फेनमेही मेहति ||१०||

श्लोक 11

अत ऊर्ध्वं पित्तनिमित्तान् वक्ष्यामः-सफेनमच्छं नीलं नीलमेही मेहति;  सदाहं हरिद्राभं हरिद्रामेही; अम्लरसगन्धमम्लमेही; स्रुतक्षारप्रतिमं  क्षारमेही; मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही;शोणितप्रकाशं शोणितमेही  मेहति ||११||

श्लोक 12

अत ऊर्ध्वं वातनिमित्तान् वक्ष्यामः- सर्पिःप्रकाशं सर्पिर्मेही मेहति;  वसाप्रकाशं वसामेही; क्षौद्ररसवर्णं क्षौद्रमेही; मत्तमातङ्गवदनुप्रबन्धं  हस्तिमेही मेहति ||१२||

श्लोक 13

मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः  शैथिल्यारोचकाविपाकाः कफप्रसेकच्छर्दिनिद्राकासश्वासाश्चेति  श्लेष्मजानामुपद्रवाः;  वृषणयोरवदरणं बस्तिभेदो मेढ्रतोदो हृदि  शूलमम्लीकाज्वरातीसारारोचका वमथुः परिधूपनं दाहो मूर्च्छा  पिपासा निद्रानाशः पाण्डुरोगः पीतविण्मूत्रनेत्रत्वं चेति पैत्तिकानां;  हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीषत्वं चेति वातजानाम् |
एवमेते विंशति प्रमेहाः सोपद्रवा व्याख्याताः ||१३||

श्लोक 14

तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो  दश पिडका जायन्ते |
तद्यथा-शराविका, सर्षपिका, कच्छपिका, जालिनी, विनता, पुत्रिणी,  मसूरिका,अलजी, विदारिका, विद्रधिका चेति ||१४||

श्लोक 15-19

शरावमात्रा तद्रूपा निम्नमध्या शराविका |
गौरसर्षपसंस्थाना तत्प्रमाणा च सार्षपी ||१५||

सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः |
जालिनी तीव्रदाहा तु मांसजालसमावृता ||१६||

महती पिडका नीला पिडका विनता स्मृता |
महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्रिणी ||१७||

मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका |
रक्ता सिता स्फोटवती दारुणा त्वलजी भवेत् ||१८||

विदारीकन्दवद्वृत्ता कठिना च विदारिका |
विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका बुधैः ||१९||

श्लोक 20

ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः |२०|

श्लोक 20

गुदे हृदि शिरस्यंसे पृष्ठे मर्मणि चोत्थिताः |
सोपद्रवा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ||२०||

श्लोक 21

कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः |
अधः प्रक्रमते वायुस्तेनासाध्यास्तु वातजाः ||२१||

श्लोक 22

प्रमेहपूर्वरूपाणामाकृतिर्यत्र दृश्यते |
किञ्चिच्चाप्यधिकं मूत्रं तं प्रमेहिणमादिशेत् ||२२||

श्लोक 23

कृत्स्नान्यर्धानि वा यस्मिन् पूर्वरूपाणि मानवे |
प्रवृत्तमूत्रमत्यर्थं तं प्रमेहिणमादिरोत् ||२३||

श्लोक 24

पिडकापीडितं गाढमुपसृष्टमुपद्रवैः |
मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्तितः ||२४||

श्लोक 25

स चापि गमनात् स्थानं स्थानादासनमिच्छति |
आसनादृणुते शय्यां शयनात् स्वप्नमिच्छति ||२५||

श्लोक 26

यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण  शबलबभ्रुकपिलकपोतमेचकादीनां वर्णानामनेकेषामुत्पत्तिर्भवति,  एवमेव दोषधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण  प्रमेहाणां नानाकरणं भवति ||२६||

श्लोक 27

भवति चात्र-
सर्व एव प्रमेहास्तु कालेनाप्रतिकुर्वतः |
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि ||२७||

पुष्पिका

इति सुश्रुतसंहितायां निदानस्थाने प्रमेहनिदानं नाम षष्ठोऽध्यायः ||६||