श्लोक 1-2
अथातो भग्नानां निदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
पतनपीडनप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषैरने-कविधमस्थ्नां भङ्गमुपदिशन्ति ||३||
श्लोक 4
तत्र भङ्ग(ग्न)जातमनेकविधमनुसार्यमाणं द्विविधमेवोपपद्यते सन्धिमुक्तं,काण्डभग्नं च |
तत्र षड्विधं सन्धिमुक्तं, द्वादशविधं काण्डभग्नं भवति ||४||
श्लोक 5
तत्र सन्धिमुक्तम्-उत्पिष्टं, विश्लिष्टं, विवर्तितम्, अवक्षिप्तम्, अतिक्षिप्तं, तिर्यक्क्षिप्तमिति षड्विधम् ||५||
श्लोक 6
तत्र प्रसारणाकुञ्चनविवर्तनाक्षेपणाशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम् ||६||
श्लोक 7
वैशेषिकं तूत्पिष्टे सन्धावुभयतः शोफो वेदनाप्रादुर्भावो विशेषतश्च नानाप्रकारा वेदना रात्रौ प्रादुर्भवन्ति; विश्लिष्टेऽल्पः शोफो वेदनासातत्यं सन्धिविक्रिया च; विवर्तिते तु सन्धिपार्श्वापगमनाद्विषमाङ्गता वेदना च; अवक्षिप्ते सन्धिविश्लेषस्तीव्ररुजत्वं च; अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरतिक्रान्तता वेदना च; तिर्यक्क्षिप्ते त्वेकास्थिपार्श्वापगमनमत्यर्थं वेदना चेति ||७||
श्लोक 8
काण्डभग्नमत ऊर्ध्वं वक्ष्यामः-कर्कटकम्, अश्वकर्णं, चूर्णितं, पिच्चितम्, अस्थिच्छल्लितं, काण्डभग्नं, मज्जानुगतम्, अतिपातितं, वक्रं, छिन्नं, पाटितं, स्फुटितमिति द्वादशविधम् ||८||
श्लोक 9
श्वयथुबाहुल्यं स्पन्दनविवर्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता विविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ इति समासेन काण्डभग्नलक्षणमुक्तम् ||९||
श्लोक 10
विशेषस्तु सम्मूढमुभयतोऽस्थि मध्ये भ(ल)ग्नं ग्रन्थिरिवोन्नतं कर्कटकम्, अश्वकर्णवदुद्गतमश्वकर्णकं, स्पृश्यमानं शब्दवच्चूर्णितमवगच्छेत्, पिच्चितंपृथुतां गतमनल्पशोफं , पार्श्वयोरस्थि हीनोद्गतमस्थिच्छलितं, वेल्लते प्रकम्पमानं काण्डभग्नम्, अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यतीति मज्जानुगतम्, अस्थि निःशेषतश्छिन्नमतिपातितम्, आभुग्नमविमुक्तास्थि वक्रम्, अन्यतरपार्श्वावशिष्टं छिन्नं, पाटितमणुबहुविदारितं वेदनावच्च, शूकपूर्णमिवाध्मातं विपुलं विस्फुटितं स्फुटितमिति ||१०||
श्लोक 11
तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि, कृशवृद्धबालानां क्षतक्षीणकुष्ठिश्वासिनां सन्ध्युपगतं चेति ||११||
श्लोक 12-15
भवन्ति चात्र-
भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम् |
जघनं प्रति पिष्टं च वर्जयेत्तच्चिकित्सकः ||१२||
असंश्लिष्टं कपालं तु ललाटे चूर्णितं च यत् |
भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत् ||१३||
आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा |
सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् ||१४||
सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् |१५|
श्लोक 15-16
मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्तिताः ||१५||
तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजानता |१६|
श्लोक 16-17
तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु ||१६||
कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च ||१७||
पुष्पिका
इति सुश्रुतसंहितायां निदानस्थाने भग्ननिदानं नाम पञ्चदशोऽध्यायः ||१५||