भेद्यरोगप्रतिषेधाध्यायः

श्लोक 1-2

अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-4

स्वेदयित्वा बिसग्रन्थिं छिद्राण्यस्य निराशयम् |
पक्वं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ||३||

कासीसमागधीपुष्पनेपाल्येलायुतेन तु |
ततः क्षौद्रघृतं दत्त्वा सम्यग्बन्धमथाचरेत् ||४||

श्लोक 5-6

रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च |
प्रतिसारणमेकैकं भिन्ने लगण इष्यते ||५||

महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः |६|

श्लोक 6-7

स्विन्नां भिन्नां विनिष्पीड्य भिषगञ्जननामिकाम् ||६||

शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत् |७|

श्लोक 7-8

रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् ||७||

प्रतिसार्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः |८|

श्लोक 8-9

सम्यक्स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् ||८||

त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया |९|

श्लोक 9-10

भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः ||९||

लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि |१०|

श्लोक 10-11

संस्नेह्य पत्रभङ्गैश्च स्वेदयित्वा यथासुखम् ||१०||

आपाकाद्विधिनोक्तेन पञ्चमेद्यानुपाचरेत् |
सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम् |
सम्पक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम् ||११||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो  नाम चतुर्दशोऽध्यायः ||१४||