महावातव्याधिचिकित्सितम्

श्लोक 1-3

अथातो महावातव्याधिचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते; तत्तु न सम्यक्,  तद्धि कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति, तस्मान्न द्विविधम्  ||३||

श्लोक 4

तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाध्यशनशीलस्य  प्रदुष्टं शोणितं मार्गमावृत्य वातेन सहैकीभूतं युगपद्वातरक्तनिमित्तां  वेदनां जनयतीति वातरक्तम् |
तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद्देहं व्याप्नोति |
तस्य पूर्वरूपाणितोददाहकण्डूशोफस्तम्भत्वक्पारुष्यसिरास्नायुध-मनीस्पन्दनसक्थिदौर्बल्यानि श्यावारुणमण्डलोत्पत्तिश्चाकस्मात्  पाणिपादतलाङ्गुलिगुल्फमणिबन्धप्रभृतिषु,  तत्राप्रतिकारिणोऽपचारिणश्च रोगो व्यक्ततरः, तस्य लक्षणमुक्तं;  तत्राप्रतिकारिणो वैकल्यं भवति ||४||

श्लोक 5

भवति चात्र-
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् |
स्थूलानां सुखिनां चापि वातरक्तं प्रकुप्यति ||५||

श्लोक 6

तत्र प्राणमांसक्षयपिपासाज्वरमूर्च्छाश्वासकासस्तम्भारोचकाविपाक-विसरणसङ्कोचनैरनुपद्रुतं बलवन्तमात्मवन्तमुपकरणवन्तं चोपक्रमेत्  ||६||

श्लोक 7

तत्र, आदावेव बहुवातरूक्षम्लानाङ्गादृते  मार्गावरणाद्दुष्टशोणितमसकृदल्पाल्पमवसिञ्चेद्वातकोपभयात् |
ततो वमनादिभिरुपक्रमैरुपपाद्य प्रतिसंसृष्टभक्तं वातप्रबले  पुराणघृतं पाययेत् |
अजाक्षीरं वाऽर्धतैलं मधुकाक्षययुक्तं, शृगालविन्नासिद्धं वा  शर्करामधुमधुरं, शुण्ठीशृङ्गाटककशेरुकसिद्धं वा,  श्यामारास्नासुषवीशृगालविन्नापीलुशतावरीश्वदंष्ट्राद्विपञ्चमूलीसिद्धं वा |
द्विपञ्चमूलीक्वाथाष्टगुणसिद्धेन पयसा म धुकमेषशृङ्गीश्वदंष्ट्रासरलभद्रदारुवचासुरभिकल्कप्रतीवापं तैलं  पाचयित्वा पानादिषूपयुञ्जीत,  शतावरीमयूरककिणिह्यजमोदामधुकक्षीरविदारीबलातिबलातृणप-ञ्चमूलीक्वाथसिद्धं वा काकोल्यादिप्रतिवापं, बलातैलं शतपाकं वेति |
वातहरमूलसिद्धेन च पयसा परिषेचनमम्लैर्वा कुर्वीत |
यवमधुकैरण्डतिलवर्षाभूभिर्वा प्रदेहः कार्यः |
तत्र चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु प्रत्येकशः  काकोलीक्षीरकाकोलीजीवकर्षभकबलातिबलाबिसमृणालशृगालविन्नामेषशृङ्गी-प्रियालशर्कराकशेरुकसुरभिवचाकल्कमिश्रेषूपनाहार्थं  सर्पिस्तैलवसामज्जदुग्धसिद्धाः पञ्च पायसा व्याख्याताः,  स्नैहिकफलसारोत्कारिका वा, चूर्णितेषु यवगोधूमतिलमुद्वमाषेषु  मत्स्यपिशितवेशवारो वा, बिल्वपेशिकातगरदेवदारुसरलारास्नाहरे-णुकुष्ठशतपुष्पैलासुरादधिमस्तुयुक्त उपनाहः,  मातुलुङ्गाम्लसैन्धवघृतमिश्रं मधुशिग्रुमूलमालेपस्तिलकल्को वेति  वातप्रबले ||७||

श्लोक 8

पित्तप्रबले द्राक्षारेवतकट्फलपयस्यामधुकचन्दनकाश्मर्यकषायं  शर्करामधुमधुरं पाययेत्,  शतावरीमधुकपटोलत्रिफलाकटुरोहिणीकषायं , गुडूचीकषायं वा,  पित्तज्वरहरं वा चन्दनादिकषायं शर्करामधुमधुरं,  मधुरतिक्तकषायसिद्धं वा सर्पिः;  बिसमृणालभद्रश्रियपद्मककषायेणार्धक्षीरेण परिषेकः,  क्षीरेक्षुरसैर्मधुकशर्करातण्डुलोदकैर्वा द्राक्षेक्षुकषायमिश्रैर्वा  मस्तुमद्यधान्याम्लैः; जीवनीयसिद्धेन वा सर्पिषाऽभ्यङ्गः,  शतधौतघृतेन वा, काकोल्यादिकल्ककषायविपक्वेन वा सर्पिषा;  शालिषष्टिकनलवञ्जुलतालीसशृङ्गाटकगलोड्यगौरीगैरिकशैवलप-द्मकपद्मपत्रप्रभृतिभिर्धान्याम्लपिष्टैः प्रदेहो घृतमिश्रः, वातप्रबलेऽप्येष  सुखोष्णः प्रदेहः कार्यः ||८||

श्लोक 9

रक्तप्रबलेऽप्येवं, बहुशश्च शोणितमवसेचयेत्, शीततमाश्च प्रदेहाः कार्या इति ||९||

श्लोक 10

श्लेष्मप्रबले त्वामलकहरिद्राकषायं मधुमधुरं पाययेत्, त्रिफलाकषायं  वा ; मधुकशृङ्गवेरहरीतकीतिक्तरोहिणीकल्कं वा सक्षौद्रं,  मूत्रतोययोरन्यतरेण गुडहरीतकीं वा भक्षयेत्;  तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिःक्वाथैश्च परिषेकः,  आरग्वधादिकषायैर्वोष्णैः;  मस्तुमूत्रसुराशुक्तमधुकसारिवापद्मकसिद्धं वा घृतमभ्यङ्गः;  तिलसर्षपातसीयवचूर्णानि श्लेष्मातककपित्थमधुशिग्रुमिश्राणि  क्षारमूत्रपिष्टानि प्रदेहः; श्वेतसर्षपकल्कः, तिलाश्वगन्धाकल्कः,  प्रियालसेलुकपित्थकल्कः, मधुशिग्रुपुनर्नवाकल्कः,  व्योषतिक्तापृथक्पर्णीबृहतीकल्क इत्येतेषां पञ्च प्रदेहाः सुखोष्णाः  क्षारोदकपिष्टाः, शालिपर्णी पृश्निपर्णी बृहत्यौ वा क्षीरपिष्टास्तर्पणमिश्राः  ||१०||

श्लोक 11

संसर्गे सन्निपाते च क्रियापथमुक्तं मिश्रं कुर्यात् ||११||

श्लोक 12-13

सर्वेषु च गुडहरीतकीमासेवेत; पिप्पलीर्वा क्षीरपिष्टा वारिपिष्टा वा  पञ्चाभिवृद्ध्या दशाभिवृद्ध्या वा पिबेत् क्षीरौदनाहारो दशरात्रं,  भूयश्चापकर्षयेत्, एवं यावत् पञ्च दश वेति; तदेतत् पिप्पलीवर्धमानकं  वातशोणितविषमज्वरारोचकपाण्डुरोगप्लीहोदरार्शःकासश्वासशोफ-शोषाग्निसादहृद्रोगोदराण्यपहन्ति; जीवनीयप्रतीवापं सर्पिः पयसा  पाचयित्वाऽभ्यज्यात्; सहासहदेवाचन्दनमूर्वामुस्ताप्रियालशतावरी-कशेरुपद्मकमधुकशतपुष्पाविदारीकुष्ठानि क्षीरपिष्टः प्रदेहो  घृतमण्डयुक्तः, सैरेयकाटरूषकबलातिबलाजीवन्तीसुषवीकल्को वा च्छागक्षीरपिष्टः, गोक्षीरपिष्टः काश्मर्यमधुकतर्पणकल्को वा;  मधूच्छिष्टमञ्जिष्ठासर्जरससारिवाक्षीरसिद्धं पिण्डतैलमभ्यङ्गः; सर्वेषु च  पुराणघृतमामलकरसविपक्वं वा पानार्थे; जीवनीयसिद्धं परिषेकार्थे,  काकोल्यादिक्वाथकल्कसिद्धं वा; सुषवीक्वाथकल्कसिद्धं वा,  कारवेल्लकक्वाथमात्रसिद्धं वा; बलातैलं वा  परिषेकावगाहबस्तिभोजनेषु; शालिषष्टिकयवगोधूमान्नमनवं भुञ्जीत  पयसा जाङ्गलरसेन वा मुद्गयूषेण वाऽनम्लेन; शोणितमोक्षं चाभीक्ष्णं  कुर्वीत; उच्छ्रितदोषे च वमनविरेचनास्थापनानुवासनकर्म कर्तव्यम्  ||१२||

(पटोलत्रिफलाभीरुगुडूचीकटुकाकृतम् |
क्वाथं पीत्वा जयत्याशु वातशोणितजां रुजम् ) ||१३||

श्लोक 14

भवन्ति चात्र-
एवमाद्यैः क्रियायोगैरचिरोत्पतितं सुखम् |
वातासृक् साध्यते वैद्यैर्याप्यते तु चिरोत्थितम् ||१४||

श्लोक 15-16

उपनाहपरीषेकप्रदेहाभ्यञ्जनानि च |
शरणान्यप्रवातानि मनोज्ञानि महान्ति च ||१५||

मृदुगण्डोपधानानि शयनानि सुखानि च |
वातरक्ते प्रशस्यन्ते मृदुसंवाहनानि च ||१६||

श्लोक 17

व्यायामं मैथुनं कोपमुष्णाम्ललवणाशनम् |
दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत् ||१७||

श्लोक 18

अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापि-नमखट्वापातिनमबहिरायामिनं चोपक्रमेत् |
तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवपीडनेन तीक्ष्णेनोपक्रमेत  शिरःशुद्ध्यर्थं; अनन्तरं विदारिगन्धादिक्वाथमांसरसक्षीरदधिपक्वं  सर्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो  भद्रदार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं  पञ्चवर्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्र्य  सर्पिस्तैलवसामज्जभिः सह विपचेन्मधुरकप्रतीवापं,  तदेतत्त्रैवृतमपतानकिनां  परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु विदध्यात्; यथोक्तैश्च स्वेदविधानैः स्वेदयेत्, बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे  निदध्यादामुखात्, तप्तायां वा रथकारचुल्ल्यां तप्तायां वा शिलायां  सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कृशरावेशवारपायसैर्वा स्वेदयेत् |
मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशङ्खिनीस्वरससिद्धं  तैलमपतानकिनां परिषेकादिषूपयोज्यम् |
अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति;  तैलसर्पिर्वसाक्षौद्राणि वा |
एतच्छुद्धवातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्तव्यम् |
वेगान्तरेषु चावपीडं दद्यात्;  ताम्रचूडकर्कटकृष्णमत्स्यशिशुमारवराहवसाश्चासेवेत, क्षीराणि वा  वातहरसिद्धानि, यवकोलकुलत्थमूलकदधिघृततैलसिद्धा वा यवागूः;  स्नेहविरेचनास्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत ;  वातव्याधिचिकित्सितं चावेक्षेत; रक्षाकर्म च कुर्यादिति ||१८||

श्लोक 19

पक्षाघातोपद्रुतमम्लानगात्रं सरुजमात्मवन्तमुपकरणवन्तं चोपक्रमेत् |
तत्र प्रागेव स्नेहस्वेदोपपन्नं मृदुना शोधनेन संशोध्यानुवास्यास्थाप्य च  यथाकालमाक्षेपकविधानेनोपचरेत्; वैशेषिकश्चात्र मस्तिष्क्यः  शिरोबस्तिः , अणुतैलमभ्यङ्गार्थे, साल्वणमुपनाहार्थे,  बलातैलमनुवासनार्थे; एवमतन्द्रितस्त्रींश्चतुरो वा मासान्  क्रियापथमुपसेवेत ||१९||

श्लोक 20

मन्यास्तम्भेऽप्येतदेव विधानं, विशेषतो वातश्लेष्महरैर्नस्यै  रूक्षस्वेदैश्चोपचरेत् ||२०||

श्लोक 21

अपतन्त्रकातुरं नापतर्पयेत्, वमनानुवासनास्थापनानि न निषेवेत,  वातश्लेष्मोपरुद्धोच्छ्वासं तीक्ष्णैः प्रध्मापनैर्मोक्षयेत्,  तुम्बुरुपुष्कराह्वहिङ्ग्वम्लवेतसपथ्यालवणत्रयं यवक्वाथेन पातुं प्रयच्छेत्,पथ्याशतार्धे सौवर्चलद्विपले चतुर्गुणे पयसि सर्पिः प्रस्थं सिद्धं;  वातश्लेष्मापनुच्च कर्म कुर्यात् ||२१||

श्लोक 22

अर्दितातुरं बलवन्तमात्मवन्तमुपकरणवन्तं च  वातव्याधिविधानेनोपचरेत्, वैशेषिकैश्च  मस्तिष्क्यशिरोबस्तिनस्यधूमोपनाहस्नेहनाडीस्वेदादिभिः; ततः सतृणं  महापञ्चमूलं काकोल्यादिं विदारिगन्धादिमौदकानूपमांसं  तथैवौदककन्दांश्चाहृत्य द्विगुणोदके क्षीरद्रोणे निःक्वाथ्य  क्षीरावशिष्टमवतार्य परिस्राव्य तैलप्रस्थेनोन्मिश्र्य पुनरग्नावधिश्रयेत्,  ततस्तैलं क्षीरानुगतमवतार्य शीतीभूतमभिमथ्नीयात्, तत्र यः स्नेह उ त्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं विपचेत्, एतत्  क्षीरतैलमर्दितातुराणां पानाभ्यङ्गादिषूपयोज्यं, तैलहीनं वा  क्षीरसर्पिरक्षितर्पणमिति ||२२||

श्लोक 23

गृध्रसीविश्वाचीक्रोष्टुकशिरःखञ्जपङ्गुलवातकण्टकपाददाहपादह-र्षावबाहुकबाधिर्यधमनीगतवातरोगेषु यथोक्तं यथोद्देशं च सिराव्यधं  कुर्यात्, अन्यत्रावबाहुकात्; वातव्याधिचिकित्सितं चावेक्षेत ||२३||

श्लोक 24

कर्णशूले तु शृङ्गवेररसं तैलमधुसंसृष्टं सैन्धवोपहितं सुखोष्णं कर्णे दद्यात्, अजामूत्रमधुतैलानि वा, मातुलुङ्गदाडिमतिन्तिडीकस्वरसमूत्रसिद्धं  तैलं, शुक्तसुरातक्रमूत्रलवणसिद्धं वा; नाडीस्वेदैश्च स्वेदयेत्,  वातव्याधिचिकित्सां चावेक्षेत; भूयश्चोत्तरे वक्ष्यामः ||२४||

श्लोक 25

तूनीप्रतून्योः स्नेहलवणमुष्णोदकेन पाययेत्, पिप्पल्यादिचूर्णं वा,  हिङ्गुयवक्षारप्रगाढं वा सर्पिः, बस्तिभिश्चैनमुपक्रमेत् ||२५||

श्लोक 26

आध्माने त्वपतर्पणपाणिताप(दीपनचूर्ण ) फलवर्तिक्रियापाचनीयदीपनीयबस्तिभिरुपाचरेत्; लङ्घनानन्तरं  चान्नकाले धान्यकजीरकादिदीपनसिद्धान्यन्नानि |
प्रत्याध्माने छर्दनापतर्पणदीपनानि कुर्यात् ||२६||

श्लोक 27

अष्ठीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्रधिवत् क्रियाविभाग इति ||२७||

श्लोक 28

हिङ्गुत्रिकटुवचाजमोदाधान्याजगन्धादाडिमतिन्तिडीकपाठाचित्रकयवक्षारसैन्धवविडसौर्वचल-स्वर्जिकापिप्पलीमूलाम्लवेतसशटीपुष्करमूलहपुषाचव्याजाजीपथ्या-श्चूर्णयित्वा मातुलुङ्गाम्लेन बहुशः परिभाव्याक्षमात्रा गुटिकाः कारयेत्, ततः प्रातरेकैकां वातविकारी भक्षयेत्, एष योगः  कासश्वासगुल्मोदरारोचकहृद्रोगाध्मानपार्श्वोदरबस्तिशूलानाहमूत्र-कृच्छ्रप्लीहार्शस्तूनीप्रतूनीरपहन्ति ||२८||

श्लोक 29

भवन्ति चात्र-
केवलो दोषयुक्तो वा धातुभिर्वाऽऽवृतोऽनिलः |
विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः ||२९||

श्लोक 30

रुजावन्तं घनं शीतं शोफं मेदोयुतोऽनिलः |
करोति यस्य तं वैद्यः शोथवत् समुपाचरेत् ||३०||

श्लोक 31-33

कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते |
तदाऽङ्गमर्दस्तैमित्य रोमहर्षरुजाज्वरैः ||३१||

निद्रया चार्दितौ स्तब्धौ शीतलावप्रचेतनौ |
गुरुकावस्थिरावूरू न स्वाविव च मन्यते ||३२||

तमूरुस्तम्भमित्याहुराढ्यवातमथापरे |३३|

श्लोक 33-36

स्नेहवर्जं पिबेत्तत्र चूर्णं षड्धरणं नरः ||३३||

हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम् |
लिह्याद्वा त्रैफलं चूर्णं क्षौद्रेण कटुकान्वितम् ||३४||

मूत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वाऽपि शिलाजतु |
ततो हन्ति कफाक्रान्तं समेदस्कं प्रभञ्जनम् ||३५||

हृद्रोगमरुचिं गुल्मं तथाऽभ्यन्तरविद्रधिम् |३६|

श्लोक 36-37

सक्षारमूत्रस्वेदांश्च रूक्षाण्युत्सादनानि च ||३६||

कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः |३७|

श्लोक 37-38

भोज्याः पुराणश्यामाककोद्रवोद्दालशालयः ||३७||

शुष्कमूलकयूषेण पटोलस्य रसेन वा |
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः ||३८||

श्लोक 39

यदा स्यातां परिक्षीणे भूयिष्ठे कफमेदसी |
तदा स्नेहादिकं कर्म पुनरत्रावचारयेत् ||३९||

श्लोक 40-45

सुगन्धिः सुलघुः सूक्ष्मस्तीक्ष्णोष्णः कटुको रसे |
कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः ||४०||

स नवो बृंहणो वृष्यः पुराणस्त्वपकर्षणः |
तैक्ष्ण्यौष्ण्यात्कफवातघ्नः सरत्वान्मलपित्तनुत् ||४१||

सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपनः |
तं प्रातस्त्रिफलादार्वीपटोलकुशवारिभिः ||४२||

पिबेदावाप्य वा मूत्रैः क्षारैरुष्णोदकेन वा |
जीर्णे यूषरसैः क्षीरैर्भुञ्जानो हन्ति मासतः ||४३||

गुल्मं मेहमुदावर्तमुदरं सभगन्दरम् |
कृमिकण्ड्वरुचिश्वित्राण्यर्बुदं ग्रन्थिमेव च ||४४||

नाड्याढ्यवातश्वयथून् कुष्ठदुष्टव्रणांश्च सः |
कोष्ठसन्ध्यस्थिगं वायुं वृक्षमिन्द्राशनिर्यथा ||४५||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने महावातव्याधिचिकित्सितं नाम  पञ्चमोऽध्यायः ||५||