मूढगर्भनिदानम्

श्लोक 1-2

अथातो मूढगर्भनिदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडनधावनाभिघात-विषमशयनासनोपवासवेगाभिघातातिरूक्ष-कटुतिक्तभोजनशोकातिक्षारसेवनातिसारवमनविरेचनप्रेङ्खोलना-जीर्णगर्भशातनप्रभृतिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः, फलमिव  वृन्तबन्धनादभिघातविशेषैः; स विमुक्तबन्धनो गर्भाशयमतिक्रम्य  यकृत्प्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसङ्क्षोभमापादयति, तस्या  जठरसङ्क्षोभाद्वायुरपानो मूढः  पार्श्वबस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गानामन्यतममापद्य गर्भं  च्यावयति तरुणं
शोणितस्रावेण; तमेव  कदाचिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तमनिरस्यमानं  विगुणापानसम्मोहितं गर्भं मूढगर्भमित्याचक्षते ||३||

श्लोक 4

ततः कीलः प्रतिखुरो बीजकः परिघ इति |
तत्र, ऊर्ध्वबाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव स कीलः; निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः; यो निर्गच्छत्येकशिरोभुजः स बीजकः; यस्तु परिघ इव योनिमुखमावृत्य तिष्ठति स परिघः; इति  चतुर्विधो भवतीत्येके भाषन्ते |
तत्तु न सम्यक्; कस्मात्? स यदा  विगुणानिलप्रपीडितोऽपत्यपथमनेकधा प्रपद्यते तदा सङ्ख्या  हीयते ||४||

श्लोक 5

तत्र, कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते;  कश्चिदाभुग्नैकसक्थिरेकेन; कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन  तिर्यगागतः; कश्चिदुरःपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते;  अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना; कश्चिदाभुग्नशिरा बाहुद्वयेन; कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः; कश्चिदेकेन सक्थ्ना योनिमुखं  प्रतिपद्यतेऽपरेण पायुम्; इत्यष्टविधा मूढगर्भगतिरुद्दिष्टा समासेन ||५||

श्लोक 6

तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ, शेषानपि विपरीतेन्द्रियार्थाक्षेपकयो-निभ्रंशसंवरणमक्कल्लश्वासकासभ्रमनिपीडितान् परिहरेत् ||६||

श्लोक 7-8

भवन्ति चात्र-
कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम् |
प्रपद्यते स्वभावेन नान्यथा पतितुं ध्रुवम् ||७||

एवं कालप्रकर्षेण मुक्तो नाडीनिबन्धनात् |
गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते ||८||

श्लोक 9

कृमिवाताभिघातैस्तु तदेवोपद्रुतं फलम् |
पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः ||९||

श्लोक 10

आचतुर्थात्ततो मासात् प्रस्रवेद्गर्भविच्युतिः |
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ||१०||

श्लोक 11

प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा |
नीलोद्धतसिरा हन्ति सा गर्भं स च तां तथा ||११||

श्लोक 12-13

गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता |
भवत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ ||१२||

मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः |
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ||१३||

श्लोक 14

बस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि |
तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक् ||१४||

पुष्पिका

इति सुश्रुतसंहितायां निदानस्थाने मूढगर्भनिदानं नामाष्टमोऽध्यायः  ||८||