मूत्रकृच्छ्रप्रतिषेधाध्यायः

श्लोक 1-2

अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

वातेन पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृदश्मरीभ्याम् |
तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ||३||

श्लोक 4

अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः |
फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति ||४||

श्लोक 5

हारिद्रमुष्णं रक्तं वा मुष्कमेहनबस्तिभिः |
अग्निना दह्यामानाभैः पित्तघातेन मेहति ||५||

श्लोक 6

स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः |
संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति ||६||

श्लोक 7

दाहशीतरुजाविष्टो नानावर्णं महुर्मुहुः |
ताम्यमानस्तु कृच्छ्रेण सान्निपातेन मेहति ||७||

श्लोक 8-10

मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च |
स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः ||८||

वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत् |
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ||९||

आध्मानं च सशूलं च मूत्रसङ्गं करोति हि |१०|

श्लोक 10

अश्मरीहेतुकः पूर्वं मूत्राघात उदाहृतः ||१०||

श्लोक 11-15

अश्मरी शर्करा चैव तुल्ये सम्भवलक्षणैः |
शर्कराया विशेषं तु शृणु कीर्तयतो मम ||११||

पच्यमानस्य पित्तेन भिद्यमानस्य वायुना |
श्लेषमणोऽवयवा भिन्नाः शर्करा इति सञ्ज्ञिताः ||१२||

हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः |
ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः ||१३||

मूत्रवेगनिरस्तासु तासु शाम्यति वेदना |
यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम् ||१४||

शर्करासम्भवस्यैतन्मूत्राघातस्य लक्षणम् |१५|

श्लोक 15

चिकित्सितमथैतेषामष्टानामपि वक्ष्यते ||१५||

श्लोक 16

अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत् |
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् ||१६||

श्लोक 17-19

श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम् |
बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् ||१७||

तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत् |
तैलं घृतं वा तत् पेयं तेन वाऽप्यनुवासनम् ||१८||

दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये |१९|

श्लोक 19-20

श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् ||१९||

पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम् |२०|

श्लोक 20-21

तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृ(शृ)तम् ||२०||

पीतं घृतं पित्तकृच्छ्रं नाशयेत क्षीरमेव वा |२१|

श्लोक 21

दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये ||२१||

श्लोक 22

एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु |
हितं विरेचनं चेक्षुक्षीरद्राक्षारसैर्युतम् ||२२||

श्लोक 23

सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम् |
तैलं तथा यवाग्वादि कफाघाते प्रशस्यते ||२३||

श्लोक 24

यथादोषोच्छ्र्यं कुर्यादेतानेव च सर्वजे |२४|

श्लोक 24-25

फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा ||२४||

सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम् |२५|

श्लोक 25

तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् ||२५||

श्लोक 26

मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया |
स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा ||२६||

श्लोक 27

ये त्वन्ये तु तथा कृच्छ्रे तयो प्रोक्तः क्रियाविधिः ||२७||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे  मूत्रकृच्छ्रप्रतिषेधो नाम (एकविंशतितमोऽध्यायः, आदितः)  एकोनषष्ठतमोऽध्यायः ||५९||