योनिव्यापच्चिकित्सितम्

श्लोक 1-2

अथातो योनिव्यापच्चिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-8

दिव्यतीर्थौषधिमतश्चित्रधातुशिलावतः|
पुण्ये हिमवतः पार्श्वे सुरसिद्धर्षिसेविते||३||

विहरन्तं तपोयोगात्तत्त्वज्ञानार्थदर्शिनम्|
पुनर्वसुं जितात्मानमग्निवेशोऽनु पृष्टवान्||४||

भगवन्! यदपत्यानां मूलं नार्यः परं नृणाम्|
तद्विघातो गदैश्चासां क्रियते योनिमाश्रितैः||५||

तस्मात्तेषां समुत्पत्तिमुत्पन्नानां च लक्षणम्|
सौषधं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया||६||

इति शिष्येण पृष्टस्तु प्रोवाचर्षिवरोऽत्रिजः|
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसङ्ग्रहे||७||

मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च|
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्||८||

श्लोक 9-15

वातलाहारचेष्टाया वातलायाः समीरणः|
विवृद्धो योनिमाश्रित्य योनेस्तोदं सवेदनम्||९||

स्तम्भं पिपीलिकासृप्तिमिव कर्कशतां तथा|
करोति सुप्तिमायासं वातजांश्चापरान् गदान्||१०||

सा स्यात् सशब्दरुक्फेनतनुरूक्षार्तवाऽनिलात्|
व्यापत्कट्वम्ललवणक्षाराद्यैः पित्तजा भवेत्||११||

दाहपाकज्वरोष्णार्ता नीलपीतासितार्तवा|
भृशोष्णकुणपस्रावा योनिः स्यात्पित्तदूषिता||१२||

कफोऽभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रियाः|
स कुर्यात् पिच्छिलां शीतां कण्डुग्रस्ताल्पवेदनाम्||१३||

पाण्डुवर्णां तथा पाण्डुपिच्छिलार्तववाहिनीम्|
समश्नन्त्या रसान् सर्वान्दूषयित्वा त्रयो मलाः||१४||

योनिगर्भाशयस्थाः स्वैर्योनिं युञ्जन्ति लक्षणैः|
सा भवेद्दाहशूलार्ता श्वेतपिच्छिलवाहिनी||१५||

श्लोक 16-17

रक्तपित्तकरैर्नार्या रक्तं पित्तेन दूषितम्|
अतिप्रवर्तते योन्यां लब्धे गर्भेऽपि सासृजा ||१६||

योनिगर्भाशयस्थं चेत् पित्तं सन्दूषयेदसृक्|
साऽरजस्का मता कार्श्यवैवर्ण्यजननी भृशम्||१७||

श्लोक 18

योन्यामधावनात् कण्डूं जाताः कुर्वन्ति जन्तवः|
सा स्यादचरणा कण्ड्वा तयाऽतिनरकाङ्क्षिणी||१८||

श्लोक 19

पवनोऽतिव्यवायेन शोफसुप्तिरुजः स्त्रियाः|
करोति कुपितो योनौ सा चातिचरणा मता||१९||

श्लोक 20

मैथुनादतिबालायाः पृष्ठकट्यूरुवङ्क्षणम्|
रुजन् दूषयते योनिं वायुः प्राक्चरणा हि सा||२०||

श्लोक 21-22

गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात्|
वायुः क्रुद्धः कफं योनिमुपनीय प्रदूषयेत्||२१||

पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम्|
कफवातामयव्याप्ता सा स्याद्योनिरुपप्लुता||२२||

श्लोक 23-24

पित्तलाया नृसंवासे क्षवथूद्गारधारणात्|
पित्तसम्मूर्च्छितो वायुर्योनिं दूषयति स्त्रियाः||२३||

शूना स्पर्शाक्षमा सार्तिर्नीलपीतमसृक् स्रवेत्|
श्रोणिवङ्क्षणपृष्ठार्तिज्वरार्तायाः परिप्लुता||२४||

श्लोक 25-26

वेगोदावर्तनाद्योनिमुदावर्तयतेऽनिलः|
सा रुगार्ता रजः कृच्छ्रेणोदावृत्तं विमुञ्चति||२५||

आर्तवे सा विमुक्ते तु तत्क्षणं लभते सुखम्|
रजसो गमनादूर्ध्वं ज्ञेयोदावर्तिनी बुधैः||२६||

श्लोक 27-28

अकाले वाहमानाया गर्भेण पिहितोऽनिलः|
कर्णिकां जनयेद्योनौ श्लेष्मरक्तेन मूर्च्छितः||२७||

रक्तमार्गावरोधिन्या सा तया कर्णिनी मता|२८|

श्लोक 28-29

रौक्ष्याद्वायुर्यदा गर्भं जातं जातं विनाशयेत्||२८||

दुष्टशोणितजं नार्याः पुत्रघ्नी नाम सा मता|२९|

श्लोक 29-31

व्यवायमतितृप्ताया भजन्त्यास्त्वन्नपीडितः||२९||

वायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थितः|
वक्रयत्याननं योन्याः साऽस्थिमांसानिलार्तिभिः||३०||

भृशार्तिर्मैथुनाशक्ता योनिरन्तर्मुखी मता|३१|

श्लोक 31-32

गर्भस्थायाः स्त्रिया रौक्ष्याद्वायुर्योनिं प्रदूषयन्||३१||

मातृदोषादणुद्वारां कुर्यात् सूचीमुखी तु सा|३२|

श्लोक 32-33

व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिलः||३२||

कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च|३३|

श्लोक 33-34

षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम्||३३||

सरुजं नीरुजं वाऽपि या स्रवेत् सा तु वामिनी|३४|

श्लोक 34-35

बीजदोषात्तु गर्भस्थमारुतोपहताशया||३४||

नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा|३५|

श्लोक 35-37

विषमं दुःखशय्यायां मैथुनात् कुपितोऽनिलः||३५||

गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः|
असंवृतमुखी सार्ती रूक्षफेनास्रवाहिनी||३६||

मांसोत्सन्ना महायोनिः पर्ववङ्क्षणशूलिनी|३७|

श्लोक 37-39

इत्येतैर्लक्षणैः प्रोक्ता विंशतिर्योनिजा गदाः||३७||

न शुक्रं धारयत्येभिर्दोषैर्योनिरुपद्रुता|
तस्माद्गर्भं न गृह्णाति स्त्री गच्छत्यामयान् बहून्||३८||

गुल्मार्शःप्रदरादींश्च वाताद्यैश्चातिपीडनम्|३९|

श्लोक 39-41

आसां षोडश यास्त्वन्त्या आद्ये द्वे पित्तदोषजे||३९||

परिप्लुता वामिनी च वातपित्तात्मिके मते|
कर्णिन्युपप्लुते वातकफाच्छेषास्तु वातजाः||४०||

देहं वातादयस्तासां स्वैर्लिङ्गैः पीडयन्ति हि|४१|

श्लोक 41-49

स्नेहनस्वेदबस्त्यादि वातजास्वनिलापहम्||४१||

कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च|
श्लेष्मजासु च रूक्षोष्णं कर्म कुर्याद्विचक्षणः||४२||

सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्|
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्पुनः||४३||

पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुनः|
प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत्||४४||

योनिः स्थानापवृत्ता हि शल्यभूता मता स्त्रियाः|
सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभिः||४५||

मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्|
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते||४६||

वातव्याधिहरं कर्म वातार्तानां सदा हितम्|
औदकानूपजैर्मांसैः क्षीरैः सतिलतण्डुलैः||४७||

सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत्|
अक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः||४८||

स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसैः|४९|

श्लोक 49-62

बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत्||४९||

स्थिरापयस्याजीवन्तीवीरर्षभकजीवकैः|
श्रावणीपिप्पलीमुद्गपीलुमाषाख्यपर्णिभिः||५०||

शर्कराक्षीरकाकोलीकाकनासाभिरेव च|
पिष्टैश्चतुर्गुणक्षीरे सिद्धं पेयं यथाबलम्||५१||

वातपित्तकृतान् रोगान् हत्वा गर्भं दधाति तत्|
काश्मर्यत्रिफलाद्राक्षाकासमर्दपरूषकैः||५२||

पुनर्नवाद्विरजनीकाकनासासहचरैः|
शतावर्या गुडूच्याश्च प्रस्थमक्षसमैर्घृतात्||५३||

साधितं योनिवातघ्नं गर्भदं परमं पिबेत्|
पिप्पलीकुञ्चिकाजाजीवृषकं सैन्धवं वचाम्||५४||

यवक्षाराजमोदे च शर्करां चित्रकं तथा|
पिष्ट्वा सर्पिषि भृष्टानि पाययेत् प्रसन्नया||५५||

योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये|
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम्||५६||

पिबेत् सलवणैर्मद्यैः पिप्पलीकुञ्चिके तथा|
रास्नाश्वदंष्ट्रावृषकैः पिबेच्छूले शृतं पयः||५७||

गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचयेत्|
सैन्धवं तगरं कुष्ठं बृहती देवदारु च||५८||

समांशैः साधितं कल्कैस्तैलं धार्यं रुजापहम्|
गुडूचीमालतीरास्नाबलामधुकचित्रकैः||५९||

निदिग्धिकादेवदारुयूथिकाभिश्च कार्षिकैः|
तैलप्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत्||६०||

वातार्तायाः पिचुं दद्याद्योनौ च प्रणयेत्ततः|
वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः||६१||

(उष्णाः स्निग्धाः प्रकर्तव्यास्तैलानि स्नेहनानि च )|
हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत्|
पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा||६२||

श्लोक 63-70

पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः|
शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च||६३||

(पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा )|
शतावरीमूलतुलाश्चतस्रः सम्प्रपीडयेत्||६४||

रसेन क्षीरतुल्येन पचेत्तेन घृताढकम्|
जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः||६५||

पिष्टैः प्रियालैश्चाक्षांशैर्द्वियष्टिमधुकैर्भिषक्|
सिद्धे शीते च मधुनः पिप्पल्याश्च पलाष्टकम्||६६||

सितादशपलोन्मिश्राल्लिह्यात् पाणितलं ततः|
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत्||६७||

क्षतं क्षयं रक्तपित्तं कासं श्वासं हलीमकम्|
कामलां वातरक्तं च वीसर्पं हृच्छिरोग्रहम्||६८||

उन्मादारत्यपस्मारान् वातपित्तात्मकाञ्जयेत्|
इति बृहच्छतावरीघृतम्|
एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम्||६९||

गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम्|७०|

श्लोक 70-73

योन्यां श्लेष्मप्रदुष्टायां वर्तिः संशोधनी हिता||७०||

वाराहे बहुशः पित्ते भावितैर्लक्तकैः कृता|
भावितं पयसाऽर्कस्य यवचूर्णं ससैन्धवम्||७१||

वर्तिः कृता मुहुर्धार्या ततः सेच्या सुखाम्बुना|
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः||७२||

वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी|७३|

श्लोक 73-84

उदुम्बरशलाटूनां द्रोणमब्द्रोणसंयुतम्||७३||

सपञ्चवल्ककुलकमालतीनिम्बपल्लवम् |
निशां स्थाप्य जले तस्मिंस्तैलप्रस्थं विपाचयेत्||७४||

लाक्षाधवपलाशत्वङ्निर्यासैः शाल्मलेन च|
पिष्टैः सिद्धस्य तैलस्य पिचुं योनौ निधापयेत्||७५||

सशर्करैः कषायैश्च शीतैः कुर्वीत सेचनम्|
पिच्छिला विवृता कालदुष्टा योनिश्च दारुणा||७६||

सप्ताहाच्छुध्यति क्षिप्रमपत्यं चापि विन्दति|
उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात्||७७||

तैलं क्वाथेन तस्यैव सिद्धं धार्यं च पूर्ववत्|
धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः||७८||

जम्ब्वाम्रमध्यकासीसलोध्रकट्फलतिन्दुकैः|
सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः||७९||

अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्|
तैलप्रस्थं पिचुं दद्याद्योनौ च प्रणयेत्ततः||८०||

कटीपृष्ठत्रिकाभ्यङ्गं स्नेहबस्तिं च दापयेत्|
पिच्छिला स्राविणी योनिर्विप्लुतोपप्लुता तथा||८१||

उत्ताना चोन्नता शूना सिध्येत् सस्फोटशूलिनी|
करीरधवनिम्बार्कवेणुकोशाम्रजाम्बवैः||८२||

जिङ्गिनीवृषमूलानां क्वाथैर्मार्द्वीकसीधुभिः|
सशुक्तैर्धावनं मिश्रैर्योन्यास्रावविनाशनम्||८३||

कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः|८४|

श्लोक 84-86

पिप्पल्ययोरजःपथ्याप्रयोगा मधुना हिताः||८४||

श्लेष्मलायां कटुप्रायाः समूत्रा बस्तयो हिताः|
पित्ते समधुरक्षीरा वाते तैलाम्लसंयुताः||८५||

सन्निपातसमुत्थायाः कर्म साधारणं हितम्|८६|

श्लोक 86-90

रक्तयोन्यामसृग्वर्णैरनुबन्धं समीक्ष्य च||८६||

ततः कुर्याद्यथादोषं रक्तस्थापनमौषधम्|
तिलचूर्णं दधि घृतं फाणितं शौकरी वसा||८७||

क्षौद्रेण संयुतं पेयं वातासृग्दरनाशनम्|
वराहस्य रसो मेद्यः सकौलत्थोऽनिलाधिके||८८||

शर्कराक्षौद्रयष्ट्याह्वनागरैर्वा युतं दधि|
पयस्योत्पलशालूकबिसकालीयकाम्बुदम्||८९||

सपयःशर्कराक्षौद्रं पैत्तिकेऽसृग्दरे पिबेत्|९०|

श्लोक 90-96

पाठा जम्ब्वाम्रयोर्मध्यं शिलोद्भेदं रसाञ्जनम्||९०||

अम्बष्ठा शाल्मलीश्लेषं समङ्गां वत्सकत्वचम्|
बाह्लीकातिविषे बिल्वं मुस्तं लोध्रं सगैरिकम्||९१||

कट्वङ्गं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम्|
कट्फलं वत्सकानन्ताधातकीमधुकार्जुनम्||९२||

पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत्|
तानि क्षौद्रेण संयोज्य पिबेत्तण्डुलवारिणा||९३||

अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते|
दोषागन्तुकृता ये च बालानां तांश्च नाशयेत्||९४||

योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम्|
स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत्||९५||

चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्|९६|
इति पुष्यानुगचूर्णम्|

श्लोक 96-100

तण्डुलीयकमूलं तु सक्षौद्रं तण्डुलाम्बुना||९६||

रसाञ्जनं च लाक्षां च छागेन पयसा पिबेत्|
पत्रकल्कौ घृते भृष्टौ राजादनकपित्थयोः||९७||

पित्तानिलहरौ, पैत्ते सर्वथैवास्रपित्तजित्|
मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु||९८||

मद्यैर्निम्बगुडूच्यौ वा कफजेऽसृग्दरे पिबेत्|
विरेचनं महातिक्तं पैत्तिकेऽसृग्दरे पिबेत्||९९||

हितं गर्भपरिस्रावे यच्चोक्तं तच्च कारयेत्|१००|

श्लोक 100-116

काश्मर्यकुटजक्वाथसिद्धमुत्तरबस्तिना||१००||

रक्तयोन्यरजस्कानां पुत्रघ्न्याश्च हितं घृतम्|
मृगाजाविवराहासृग्दध्यम्लफलसर्पिषा ||१०१||

अरजस्का पिबेत् सिद्धं जीवनीयैः पयोऽपि वा|
कर्णिन्यचरणाशुष्कयोनिप्राक्चरणासु च||१०२||

कफवाते च दातव्यं तैलमुत्तरबस्तिना|
गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिःसप्तभावितम्||१०३||

मधुना किण्वचूर्णं वा दद्यादचरणापहम्|
स्रोतसां शोधनं कण्डूक्लेदशोफहरं च तत्||१०४||

वातघ्नैः शतपाकैश्च तैलैः प्रागतिचारिणी|
आस्थाप्या चानुवास्या च स्वेद्या चानिलसूदनैः||१०५||

स्नेहद्रव्यैस्तथाऽऽहारैरुपनाहैश्च युक्तितः|
शताह्वायवगोधूमकिण्वकुष्ठप्रियङ्गुभिः||१०६||

बलाखुपर्णिकाश्र्याह्वैः संयावो धारणः स्मृतः|
वामिन्युपप्लुतानां च स्नेहस्वेदादिकः क्रमः||१०७||

कार्यस्ततः स्नेहपिचुस्ततः सन्तर्पणं भवेत्|
शल्लकीजिङ्गिनीजम्बूधवत्वक्पञ्चवल्कलैः||१०८||

कषायैः साधितः स्नेहपिचुः स्याद्विप्लुतापहः|
कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः||१०९||

बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम्|
त्रैवृतं स्नेहनं स्वेदो ग्राम्यानूपौदका रसाः||११०||

दशमूलपयोबस्तिश्चोदावर्तानिलार्तिषु|
त्रैवृतेनानुवास्या च बस्तिश्चोत्तरसञ्ज्ञितः||१११||

एतदेव महायोन्यां स्रस्तायां च विधीयते|
वसा ऋक्षवराहाणां घृतं च मधुरैः शृतम्||११२||

पूरयित्वा महायोनिं बध्नीयात् क्षौमलक्तकैः|
प्रस्रस्तां सर्पिषाऽभ्यज्य क्षीरस्विन्नां प्रवेश्य च||११३||

बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः|
यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत्||११४||

सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः|
नहि वातादृते योनिर्नारीणां सम्प्रदुष्यति||११५||

शमयित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्|११६|

श्लोक 116-126

रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत्||११६||

जलेनामलकीबीजं कल्कं वा ससितामधुम्|
मधुनाऽऽमलकाच्चूर्णं रसं वा लेहयेच्च ताम्||११७||

न्यग्रोधत्वक्कषायेण लोध्रकल्कं तथा पिबेत्|
आस्रावे क्षौमपट्टं वा भावितं तेन धारयेत्||११८||

प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्|
योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा||११९||

धार्या मधुयुता वर्तिः कषायाणां च सर्वशः|
स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः||१२०||

सरलागुग्गुलुयवैः सतैलकटुमत्स्यकैः|
कासीसं त्रिफला काङ्क्षी समङ्गाऽऽम्रास्थि धातकी||१२१||

पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः|
पलाशसर्जजम्बूत्वक्समङ्गामोचधातकीः||१२२||

सपिच्छिलापरिक्लिन्नास्तम्भनः कल्क इष्यते|
स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम्||१२३||

धारयेद्वेशवारं वा पायसं कृशरां तथा|
दुर्गन्धानां कषायः स्यात्तौवरः कल्क एव वा||१२४||

चूर्णं वा सर्वगन्धानां पूतिगन्धापकर्षणम्|
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः||१२५||

अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति|१२६|

श्लोक 126-127

पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्||१२६||

परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्|१२७|

श्लोक 127-132

भवन्ति चात्र-
सलिङ्गा व्यापदो योनेः सनिदानचिकित्सिताः||१२७||

उक्ता विस्तरतः सम्यङ्मुनिना तत्त्वदर्शिना|
पुनरेवाग्निवेशस्तु पप्रच्छ भिषजां वरम्||१२८||

आत्रेयमुपसङ्गम्य शुक्रदोषास्त्वयाऽनघ!|
रोगाध्याये समुद्दिष्टा ह्यष्टौ पुंसामशेषतः||१२९||

तेषां हेतुं भिषक्श्रेष्ठ! दुष्टादुष्टस्य चाकृतिम्|
चिकित्सितं च कार्त्स्न्येन क्लैब्यं यच्च चतुर्विधम्||१३०||

उपद्रवेषु योनीनां प्रदरो यश्च कीर्तितः|
तेषां निदानं लिङ्गं च चिकित्सां चैव तत्त्वतः||१३१||

समासव्यासभेदेन प्रब्रूहि भिषजांवर!|
तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः||१३२||

श्लोक 133-139

बीजं यस्माद्व्यवाये तु हर्षयोनिसमुत्थितम्|
शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु||१३३||

यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम्|
न विरोहति सन्दुष्टं तथा शुक्रं शरीरिणाम्||१३४||

अतिव्यवायाद्व्यायामादसात्म्यानां च सेवनात्|
अकाले वाऽप्ययोनौ वा मैथुनं न च गच्छतः||१३५||

रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात्|
नारीणामरसज्ञानां गमनाज्जरया तथा||१३६||

चिन्ताशोकादविस्रम्भाच्छस्त्रक्षाराग्निविभ्रमात्|
भयात्क्रोधादभीचाराद्व्याधिभिः कर्शितस्य च||१३७||

वेगाघातात् क्षताच्चापि धातूनां सम्प्रदूषणात्|
दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः||१३८||

शुक्रं सन्दूषयन्त्याशु …|१३९|

श्लोक 139-146

… तद्वक्ष्यामि विभागशः|
फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम्||१३९||

अन्यधातूपसंसृष्टमवसादि तथाऽष्टमम्|
फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात्||१४०||

भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते|
सनीलमथवा पीतमत्युष्णं पूतिगन्धि च||१४१||

दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम्|
श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम्||१४२||

स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि|
शुक्रं प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम्||१४३||

वेगसन्धारणाच्छुक्रं वायुना विहतं पथि|
कृच्छ्रेण याति ग्रथितमवसादि तथाऽऽष्टमम्||१४४||

इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः|
स्निग्धं घनं पिच्छिलं च मधुरं चाविदाहि च||१४५||

रेतः शुद्धं विजानीयाच्छ्वेतं स्फटिकसन्निभम्|१४६|

श्लोक 146-153

वाजीकरणयोगैस्तैरुपयोगसुखैर्हितैः||१४६||

रक्तपित्तहरैर्योगैर्योनिव्यापदिकैस्तथा|
दुष्टं यदा भवेच्छुक्रं तदा तत् समुपाचरेत्||१४७||

घृतं च जीवनीयं यच्च्यवनप्राश एव च|
गिरिजस्य प्रयोगश्च रेतोदोषानपोहति||१४८||

वातान्विते हिताः शुक्रे निरूहाः सानुवासनाः|
अभयामलकीयं च पैत्ते शस्तं रसायनम् ||१४९||

मागध्यमृतलोहानां त्रिफलाया रसायनम्|
कफोत्थितं शुक्रदोषं हन्याद्भल्लातकस्य च||१५०||

यदन्यधातुसंसृष्टं शुक्रं तद्वीक्ष्य युक्तितः|
यथादोषं प्रयुञ्जीत दोषधातुभिषग्जितम्||१५१||

सर्पिः पयो रसाः शालिर्यवगोधूमषष्टिकाः|
प्रशस्ताः शुक्रदोषेषु बस्तिकर्म विशेषतः||१५२||

इत्यष्टशुक्रदोषाणां मुनिनोक्तं चिकित्सितम्|१५३|

श्लोक 153-154

रेतोदोषोद्भवं क्लैब्यं यस्माच्छुद्ध्यैव सिध्यति||१५३||

ततो वक्ष्यामि ते सम्यगग्निवेश! यथातथम्|१५४|

श्लोक 154-157

बीजध्वजोपघाताभ्यां जरया शुक्रसङ्क्षयात्||१५४||

क्लैब्यं सम्पद्यते तस्य शृणु सामान्यलक्षणम्|
सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम्||१५५||

न याति लिङ्गशैथिल्यात् कदाचिद्याति वा यदि|
श्वासार्तः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः||१५६||

म्लानशिश्नश्च निर्बीजः स्यादेतत् क्लैब्यलक्षणम्|
सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते||१५७||

श्लोक 158-161

शीतरूक्षाल्पसङ्क्लिष्टविरुद्धाजीर्णभोजनात् |
शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात्||१५८||

अभिचारादविस्रम्भाद्रसादीनां च सङ्क्षयात्|
वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात्||१५९||

नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः|
बीजोपघाताद्भवति पाण्डुवर्णः सुदुर्बलः||१६०||

अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः|
हृत्पाण्डुरोगतमककामलाश्रमपीडितः||१६१||

छर्द्यतीसारशूलार्तः कासज्वरनिपीडितः|
बीजोपघातजं क्लैब्यं …|१६३|

श्लोक 162-176

… ध्वजभङ्गकृतं शृणु||१६२||

अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात्|
अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात्||१६३||

दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात्|
कन्यानां चैव गमनादयोनिगमनादपि||१६४||

दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम्|
दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् ||१६५||

ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षितः|
चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः||१६६||

अधावनाद्वा मेढ्रस्य शस्त्रदन्तनखक्षतात्|
काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात्||१६७||

रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते|
(भवन्ति यानि रूपाणि तस्य वक्ष्याम्यतः परम्)|
श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते||१६८||

स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि|
मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि||१६९||

पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः|
वलयीकुरुते चापि कठिनश्च परिग्रहः||१७०||

ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते|
रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम्||१७१||

अग्निनेव च दग्धस्य तीव्रो दाहः सवेदनः|
बस्तौ वृषणयोर्वाऽपि सीवन्यां वङ्क्षणेषु च||१७२||

कदाचित्पिच्छिलो वाऽपि पाण्डुः स्रावश्च जायते|
श्वयथुर्जायते मन्दः स्तिमितोऽल्पपरिस्रवः||१७३||

चिराच्च पाकं व्रजति शीघ्रं वाऽथ प्रमुच्यते|
जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च||१७४||

विशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च|
ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम्||१७५||

एतं पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते|१७६|

श्लोक 176-181

क्लैब्यं जरासम्भवं हि प्रवक्ष्याम्यथ तच्छृणु||१७६||

जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते|
अतिप्रवयसां शुक्रं प्रायशः क्षीयते नृणाम्||१७७||

रसादीनां सङ्क्षयाच्च तथैवावृष्यसेवनात्|
बलवीर्येन्द्रियाणां च क्रमेणैव परिक्षयात्||१७८||

परिक्षयादायुषश्चाप्यनाहाराच्छ्रमात् क्लमात्|
जरासम्भवजं क्लैब्यमित्येतैर्हेतुभिर्नृणाम्||१७९||

जायते तेन सोऽत्यर्थं क्षीणधातुः सुदुर्बलः|
विवर्णो दुर्बलो दीनः क्षिप्रं व्याधिमथाश्नुते||१८०||

एतज्जरासम्भवं हि …|१८१|

श्लोक 181-191

… चतुर्थं क्षयजं शृणु|
अतीव चिन्तनाच्चैव शोकात्क्रोधाद्भयात्तथा||१८१||

ईर्ष्योत्कण्ठामदोद्वेगान् सदा विशति यो नरः|
कृशो वा सेवते रूक्षमन्नपानं तथौषधम्||१८२||

दुर्बलप्रकृतिश्चैव निराहारो भवेद्यदि|
असात्म्यभोजनाच्चापि हृदये यो व्यवस्थितः||१८३||

रसः प्रधानधातुर्हि क्षीयेताशु ततो नृणाम्|
रक्तादयश्च क्षीयन्ते धातवस्तस्य देहिनः||१८४||

शुक्रावसानास्तेभ्योऽपि शुक्रं धाम परं मतम्|
चेतसो वाऽतिहर्षेण व्यवायं सेवतेऽति यः||१८५||

तस्याशु क्षीयते शुक्रं ततः प्राप्नोति सङ्क्षयम्|
घोरं व्याधिमवाप्नोति मरणं वा स गच्छति||१८६||

शुक्रं तस्माद्विशेषेण रक्ष्यमारोग्यमिच्छता|
एवं निदानलिङ्गाभ्यामुक्तं क्लैब्यं चतुर्विधम्||१८७||

केचित् क्लैब्ये त्वसाध्ये द्वे ध्वजभङ्गक्षयोद्भवे|
वदन्ति शेफसश्छेदाद्वृषणोत्पाटनेन च||१८८||

मातापित्रोर्बीजदोषादशुभैश्चाकृतात्मनः|
गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाःसिराः||१८९||

शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपहन्यते|
तत्र सम्पूर्णसर्वाङ्गः स भवत्यपुमान् पुमान्||१९०||

एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात्|१९१|

श्लोक 191-195

चिकित्सितमतस्तूर्ध्वं समासव्यासतः शृणु||१९१||

शुक्रदोषेषु निर्दिष्टं भेषजं यन्मयाऽनघ!|
क्लैब्योपशान्तये कुर्यात् क्षीणक्षतहितं च यत्||१९२||

बस्तयः क्षीरसर्पींषि वृष्ययोगाश्च ये मताः|
रसायनप्रयोगाश्च सर्वानेतान् प्रयोजयेत्||१९३||

समीक्ष्य देहदोषाग्निबलं भेषजकालवित्|
व्यवायहेतुजे क्लैब्ये तथा धातुविपर्ययात् ||१९४||

दैवव्यपाश्रयं चैव भेषजं चाभिचारजे |
समासेनैतदुद्दिष्टं भेषजं क्लैब्यशान्तये||१९५||

श्लोक 196-204

विस्तरेण प्रवक्ष्यामि क्लैब्यानां भेषजं पुनः|
सुस्विन्नस्निग्धगात्रस्य स्नेहयुक्तं विरेचनम्||१९६||

अन्नाशनं ततः कुर्यादथवाऽऽस्थापनं पुनः|
प्रदद्यान्मतिमान् वैद्यस्ततस्तमनुवासयेत्||१९७||

पलाशैरण्डमुस्ताद्यैः पश्चादास्थापयेत्ततः|
वाजीकरणयोगाश्च पूर्वं ये समुदाहृताः||१९८||

भिषजा ते प्रयोज्याः स्युः क्लैब्ये बीजोपघातजे|
ध्वजभङ्गकृतं क्लैब्यं ज्ञात्वा तस्याचरेत् क्रियाम्||१९९||

प्रदेहान् परिषेकांश्च कुर्याद्वा रक्तमोक्षणम्|
स्नेहपानं च कुर्वीत सस्नेहं च विरेचनम्||२००||

अनुवासं ततः कुर्यादथवाऽऽस्थापनं पुनः|
व्रणवच्च क्रियाः सर्वास्तत्र कुर्याद्विचक्षणः||२०१||

जरासम्भवजे क्लैब्ये क्षयजे चैव कारयेत्|
स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम्||२०२||

क्षीरसर्पिर्वृष्ययोगा बस्तयश्चैव यापनाः|
रसायनप्रयोगाश्च तयोर्भेषजमुच्यते||२०३||

विस्तरेणैतदुद्दिष्टं क्लैब्यानां भेषजं मया|२०४|

श्लोक 204-224

यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम्||२०४||

याऽत्यर्थं सेवते नारी लवणाम्लगुरूणि च|
कटून्यथ विदाहीनि स्निग्धानि पिशितानि च||२०५||

ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि |
शुक्तमस्तुसुरादीनि भजन्त्याः कुपितोऽनिलः||२०६||

रक्तं प्रमाणमुत्क्रम्य गर्भाशयगताः सिराः|
रजोवहाः समाश्रित्य रक्तमादाय तद्रजः||२०७||

यस्माद्विवर्धयत्याशु रसभावाद्विमानता |
तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदाः||२०८||

रजः प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृतः|
सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च||२०९||

चतुर्विधं व्यासतस्तु वाताद्यैः सन्निपाततः|
अतःपरं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम्||२१०||

रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत्|
कुपितः प्रदरं कुर्याल्लक्षणं तस्य मे शृणु||२११||

फेनिलं तनु रूक्षं च श्यावं चारुणमेव च|
किंशुकोदकसङ्काशं सरुजं वाऽथ नीरुजम्||२१२||

कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुतः|
कुरुते वेदनां तीव्रामेतद्वातात्मकं विदुः||२१३||

अम्लोष्णलवणक्षारैः पित्तं प्रकुपितं यदा|
पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गतः शृणु||२१४||

सनीलमथवा पीतमत्युष्णमसितं तथा|
नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत्||२१५||

दाहरागतृषामोहज्वरभ्रमसमायुतम्|
असृग्दरं पैत्तिकं स्याच्छ्लैष्मिकं तु प्रवक्ष्यते||२१६||

गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपितः कफः|
प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु||२१७||

पिच्छिलं पाण्डुवर्णं च गुरु स्निग्धं च शीतलम्|
स्रवत्यसृक् श्लेष्मलं च घनं मन्दरुजाकरम्||२१८||

छर्द्यरोचकहृल्लासश्वासकाससमन्वितम्|
(वक्ष्यते क्षीरदोषाणां सामान्यमिह कारणम्||२१९||

यत्तदेव त्रिदोषस्य कारणं प्रदरस्य तु)|
त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम्||२२०||

नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता|
सर्वहेतुसमाचारादतिवृद्धस्तदाऽनिलः||२२१||

रक्तमार्गेण सृजति प्रत्यनीकबलं कफम्|
दुर्गन्धं पिच्छिलं पीतं विदग्धं पित्ततेजसा||२२२||

वसां मेदश्च यावद्धि समुपादाय वेगवान्|
सृजत्यपत्यमार्गेण सर्पिर्मज्जवसोपमम्||२२३||

शश्वत् स्रवत्यथास्रावं तृष्णादाहज्वरान्विताम्|
क्षीणरक्तां दुर्बलां स तामसाध्यां विवर्जयेत्||२२४||

श्लोक 225-228

मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च|
नैवातिबहु नात्यल्पमार्तवं शुद्धमादिशेत्||२२५||

गुञ्जाफलसवर्णं च पद्मालक्तकसन्निभम् |
इन्द्रगोपकसङ्काशमार्तवं शुद्धमादिशेत्||२२६||

योनीनां वातलाद्यानां यदुक्तमिह भेषजम्|
चतुर्णां प्रदराणां च तत् सर्वं कारयेद्भिषक्||२२७||

रक्तातिसारिणां यच्च तथा शोणितपित्तिनाम्|
रक्तार्शसां च यत् प्रोक्तं भेषजं तच्च कारयेत्||२२८||

श्लोक 229-231

धात्रीस्तनस्तन्यसम्पदुक्ता विस्तरतः पुरा|
स्तन्यसञ्जननं चैव स्तन्यस्य च विशोधनम्||२२९||

वातादिदुष्टे लिङ्गं च क्षीणस्य च चिकित्सितम्|
तत्सर्वमुक्तं ये त्वष्टौ क्षीरदोषाः प्रकीर्तिताः||२३०||

वातादिष्वेव तान् विद्याच्छास्त्रचक्षुर्भिषक्तमः|
त्रिविधास्तु यतः शिष्यास्ततो वक्ष्यामि विस्तरम्||२३१||

श्लोक 232-282

अजीर्णासात्म्यविषमविरुद्धात्यर्थभोजनात्|
लवणाम्लकटुक्षारप्रक्लिन्नानां च सेवनात्||२३२||

मनःशरीरसन्तापादस्वप्नान्निशि चिन्तनात्|
प्राप्तवेगप्रतीघातादप्राप्तोदीरणेन च||२३३||

परमान्नं गुडकृतं कृशरां दधि मन्दकम् |
अभिष्यन्दीनि मांसानि ग्राम्यानूपौदकानि च||२३४||

भुक्त्वा भुक्त्वा दिवास्वप्नान्मद्यस्यातिनिषेवणात्|
अनायासादभीघातात् क्रोधाच्चातङ्ककर्शनैः||२३५||

दोषाः क्षीरवहाः प्राप्य सिराः स्तन्यं प्रदूष्य च|
कुर्युरष्टविधं भूयो दोषतस्तन्निबोध मे||२३६||

वैरस्यं फेनसङ्घातो रौक्ष्यं चेत्यनिलात्मके|
पित्ताद्वैवर्ण्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम्||२३७||

कफाद्भवति रूक्षाद्यैरनिलः स्वैः प्रकोपणैः|
क्रुद्धः क्षीराशयं प्राप्य रसं स्तन्यस्य दूषयेत्||२३८||

विरसं वातसंसृष्टं कृशीभवति तत् पिबन्|
न चास्य स्वदते क्षीरं कृच्छ्रेण च विवर्धते||२३९||

तथैव वायुः कुपितः स्तन्यमन्तर्विलोडयन्|
करोति फेनसङ्घातं तत्तु कृच्छ्रात् प्रवर्तते||२४०||

तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुतः|
वातिकं शीर्षरोगं वा पीनसं वाऽधिगच्छति||२४१||

पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः|
रूक्षं तत् पिबतो रौक्ष्याद्बलह्रासः प्रजायते||२४२||

पित्तमुष्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम्|
करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम्||२४३||

विवर्णगात्रः स्विन्नः स्यात्तृष्णालुर्भिन्नविट् शिशुः|
नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम्||२४४||

पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति|
पाण्ड्वामयस्तत्पिबतः कामला च भवेच्छिशोः||२४५||

क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियाः|
स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु||२४६||

छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः|
नित्योपदिग्धैः स्रोतोभिर्निद्राक्लमसमन्वितः ||२४७||

श्वासकासपरीतस्तु प्रसेकतमकान्वितः|
अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा||२४८||

लालालुः शूनवक्त्राक्षिर्जडः स्यात्तत् पिबञ्छिशुः|
कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम्||२४९||

करोति गुरु तत् पीत्वा बालो हृद्रोगमृच्छति|
अन्यांश्च विविधात्रोगान्कुर्यात्क्षीरसमाश्रितान्||२५०||

क्षीरे वातादिभिर्दुष्टे सम्भवन्ति तदात्मकाः|
तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम्||२५१||

संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत्|
वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपैः||२५२||

कल्कैर्निम्बपटोलानां क्वाथैः सलवणैर्वमेत्|
सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः||२५३||

दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत्|
त्रिवृतामभयां वाऽपि त्रिफलारससंयुताम्||२५४||

पाययेन्मधुसंयुक्तामभयां वाऽपि केवलाम्|
(पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्त्रवित् )||२५५||

सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुनः|
ततो दोषावशेषघ्नैरन्नपानैरुपाचरेत् ||२५६||

शालयः षष्टिका वा स्युः श्यामाका भोजने हिताः|
प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा||२५७||

वंशवेत्रकलायाश्च शाकार्थे स्नेहसंस्कृताः|
मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत्||२५८||

निम्बवेत्राग्रकुलकवार्ताकामलकैः शृतान्|
सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान्||२५९||

शशान् कपिञ्जलानेणान् संस्कृतांश्च प्रदापयेत्|
शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम्||२६०||

पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम्|
अमृतासप्तपर्णत्वक्क्वाथं चैव सनागरम्||२६१||

किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत्|
त्रीनेतान्स्तन्यशुद्ध्यर्थमिति सामान्यभेषजम्||२६२||

कीर्तितं स्तन्यदोषाणां पृथगन्यं निबोधत|
पाययेद्विरसक्षीरां द्राक्षामधुकसारिवाः||२६३||

श्लक्ष्णपिष्टां पयस्यां च समालोड्य सुखाम्बुना|
पञ्चकोलकुलत्थैश्च पिष्टैरालेपयेत् स्तनौ||२६४||

शुष्कौ प्रक्षाल्य निर्दुह्यात्तथा स्तन्यं विशुध्यति|
फेनसङ्घातवत्क्षीरं यस्यास्तां पाययेत् स्त्रियम्||२६५||

पाठानागरशार्ङ्गेष्टामूर्वाः पिष्ट्वा सुखाम्बुना|
अञ्जनं नागरं [दारु बिल्वमूलं प्रियङ्गवः||२६६||

स्तनयोः पूर्ववत् कार्यं लेपनं क्षीरशोधनम्|
किराततिक्तकं शुण्ठीं सामृतां क्वाथयेद्भिषक्||२६७||

तं क्वाथं पाययेद्धात्रीं स्तन्यदोषनिबर्हणम्|
स्तनौ चालेपयेत् पिष्टैर्यवगोधूमसर्षपैः||२६८||

षड्विरेकाश्रितीयोक्तैरौषधैः स्तन्यशोधनैः|
रूक्षक्षीरा पिबेत् क्षीरं तैर्वा सिद्धं घृतं पिबेत्||२६९||

पूर्ववज्जीवकाद्यं च पञ्चमूलं प्रलेपनम्|
स्तनयोः संविधातव्यं सुखोष्णं स्तन्यशोधनम्||२७०||

यष्टीमधुकमृद्वीकापयस्यासिन्धुवारिकाः|
शीताम्बुना पिबेत्कल्कं क्षीरवैवर्ण्यनाशनम्||२७१||

द्राक्षामधुककल्केन स्तनौ चास्याः प्रलेपयेत्|
प्रक्षाल्य वारिणा चैव निर्दुह्यात्तौ पुनः पुनः||२७२||

विषाणिकाजशृङ्ग्यौ च त्रिफलां रजनीं वचाम्|
पिबेच्छीताम्बुना पिष्ट्वा क्षीरदौर्गन्ध्यनाशिनीम्||२७३||

लिह्याद्वाऽप्यभयाचूर्णं सव्योषं माक्षिकप्लुतम्|
क्षीरदौर्गन्ध्यनाशार्थं धात्री पथ्याशिनी तथा||२७४||

सारिवोशीरमञ्जिष्ठाश्लेष्मातककुचन्दनैः|
पत्राम्बुचन्दनोशीरैः स्तनौ चास्याः प्रलेपयेत्||२७५||

स्निग्धक्षीरा दारुमुस्तपाठाः पिष्ट्वा सुखाम्बुना|
पीत्वा ससैन्धवाः क्षिप्रं क्षीरशुद्धिमवाप्नुयात्||२७६||

पाययेत् पिच्छिलक्षीरां शार्ङ्गेष्टामभयां वचाम्|
मुस्तनागरपाठाश्च पीताः स्तन्यविशोधनाः||२७७||

तक्रारिष्टं पिबेच्चापि यदुक्तं गुदजापहम्|
विदारीबिल्वमधुकैः स्तनौ चास्याः प्रलेपयेत्||२७८||

त्रायमाणामृतानिम्बपटोलत्रिफलाशृतम्|
गुरुक्षीरा पिबेदाशु स्तन्यदोषविशुद्धये||२७९||

पिबेद्वा पिप्पलीमूलचव्यचित्रकनागरम्|
बलानागरशार्ङ्गेष्टामूर्वाभिर्लेपयेत् स्तनौ||२८०||

पृश्निपर्णीपयस्याभ्यां स्तनौ चास्याः प्रलेपयेत्|
अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः||२८१||

निर्दिष्टाः क्षीरदोषोत्थास्तथोक्ताः केचिदामयाः|२८२|

श्लोक 282-287

दोषदूष्यमलाश्चैव महतां व्याधयश्च ये||२८२||

त एव सर्वे बालानां मात्रा त्वल्पतरा मता|
निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम्||२८३||

वाक्चेष्टयोरसामर्थ्यं वीक्ष्य बालेषु शास्त्रवित्|
भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत्||२८४||

मधुराणि कषायाणि क्षीरवन्ति मृदूनि च|
प्रयोजयेद्भिषग्बाले मतिमानप्रमादतः||२८५||

अत्यर्थस्निग्धरूक्षोष्णमम्लं कटुविपाकि च|
गुरु चौषधपानान्नमेतद्बालेषु गर्हितम्||२८६||

समासात् सर्वरोगाणामेतद्बालेषु भेषजम्|
निर्दिष्टं शास्त्रविद्वैद्यः प्रविविच्य प्रयोजयेत्||२८७||

श्लोक 288

भवन्ति चात्र-
इति सर्वविकाराणामुक्तमेतच्चिकित्सितम्|
स्थानमेतद्धि तन्त्रस्य रहस्यं परमुत्तमम् ||२८८||

श्लोक 289-290

अस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च|
नासाद्यन्तेऽग्निवेशस्य तन्त्रे चरकसंस्कृते||२८९||

तानेतान् कापिलबलिः शेषान् दृढबलोऽकरोत्|
तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम्||२९०||

श्लोक 291

रोगा येऽप्यत्र नोद्दिष्टा बहुत्वान्नामरूपतः|
तेषामप्येतदेव स्याद्दोषादीन् वीक्ष्य भेषजम्||२९१||

श्लोक 292

दोषदूष्यनिदानानां विपरीतं हितं ध्रुवम्|
उक्तानुक्तान् गदान् सर्वान् सम्यग्युक्तं नियच्छति||२९२||

श्लोक 293

देशकालप्रमाणानां सात्म्यासात्म्यस्य चैव हि|
सम्यग्योगोऽन्यथा ह्येषां पथ्यमप्यन्यथा भवेत्||२९३||

श्लोक 294-295

आस्यादामाशयस्थान् हि रोगान् नस्तःशिरोगतान्|
गुदात् पक्वाशयस्थांश्च हन्त्याशु दत्तमौषधम्||२९४||

शरीरावयवोत्थेषु विसर्पपिडकादिषु|
यथादेशं प्रदेहादि शमनं स्याद्विशेषतः||२९५||

श्लोक 296-312

दिनातुरौषधव्याधिजीर्णलिङ्गर्त्ववेक्षणम् |
कालं विद्याद्दिनावेक्षः पूर्वाह्णे वमनं यथा||२९६||

रोग्यवेक्षो यथा प्रातर्निरन्नो बलवान् पिबेत्|
भेषजं लघुपथ्यान्नैर्युक्तमद्यात्तु दुर्बलः||२९७||

भैषज्यकालो भुक्तादौ मध्ये पश्चान्मुहुर्मुहुः|
सामुद्गं भक्तसंयुक्तं ग्रासग्रासान्तरे दश||२९८||

अपाने विगुणे पूर्वं, समाने मध्यभोजनम्|
व्याने [] तु प्रातरशितमुदाने भोजनोत्तरम्||२९९||

वायौ प्राणे प्रदुष्टे तु ग्रासग्रासान्तरिष्यते|
श्वासकासपिपासासु त्ववचार्यं मुहुर्मुहुः||३००||

सामुद्गं हिक्किने देयं लघुनाऽन्नेन संयुतम्|
सम्भोज्यं त्वौषधं भोज्यैर्विचित्रैररुचौ हितम्||३०१||

ज्वरे पेयाः कषायाश्च क्षीरं सर्पिर्विरेचनम्|
षडहे षडहे देयं कालं वीक्ष्यामयस्य च||३०२||

क्षुद्वेगमोक्षौ लघुता विशुद्धिर्जीर्णलक्षणम्|
तदा भेषजमादेयं स्याद्धि दोषवदन्यथा||३०३||

चयादयश्च दोषाणां वर्ज्यं सेव्यं च यत्र यत्|
ऋताववेक्ष्यं यत् कर्म पूर्वं सर्वमुदाहृतम्||३०४||

(उपक्रमाणां करणं प्रतिषेधे च कारणम्|
व्याख्यातमबलानां सविकल्पानामवेक्षणे||३०५||

मुहुर्मुहुश्च रोगाणामवस्थामातुरस्य च|
अवेक्षमाणस्तु भिषक् चिकित्सायां न मुह्यति)||३०६||

इत्येवं षड्विधं कालमनवेक्ष्य भिषग्जितम्|
प्रयुक्तमहिताय स्यात् सस्यस्याकालवर्षवत्||३०७||

व्याधीनामृत्वहोरात्रवयसां भोजनस्य च|
विशेषो भिद्यते यस्तु कालावेक्षः स उच्यते||३०८||

वसन्ते श्लेष्मजा रोगाः शरत्काले तु पित्तजाः|
वर्षासु वातिकाश्चैव प्रायः प्रादुर्भवन्ति हि||३०९||

निशान्ते दिवसान्ते च वर्षान्ते वातजा गदाः|
प्रातः क्षपादौ कफजास्तयोर्मध्ये तु पित्तजाः||३१०||

वयोन्तमध्यप्रथमे वातपित्तकफामयाः|
बलवन्तो भवन्त्येव स्वभावाद्वयसो नृणाम्||३११||

जीर्णान्ते वातजा रोगा जीर्यमाणे तु पित्तजाः|
श्लेष्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम्||३१२||

श्लोक 313-314

नाल्पं हन्त्यौषधं व्याधिं यथाऽऽपोऽल्पा महानलम्|
दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा||३१३||

सम्प्रधार्य बलं तस्मादामयस्यौषधस्य च|
नैवातिबहु नात्यल्पं भैषज्यमवचारयेत्||३१४||

श्लोक 315-320

औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च|
अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम्||३१५||

बाह्लीकाः पह्लवाश्चीनाः शूलीका यवनाः शकाः|
मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः||३१६||

मत्स्यसात्म्यास्तथा प्राच्याः क्षीरसात्म्याश्च सैन्धवाः|
अश्मकावन्तिकानां तु तैलाम्लं सात्म्यमुच्यते||३१७||

कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम्|
सात्म्यं दक्षिणतः पेया मन्थश्चोत्तरपश्चिमे ||३१८||

मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः|
तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत्||३१९||

सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि|३२०|

श्लोक 320-321

योगैरेव चिकित्सन् हि देशाद्यज्ञोऽपराध्यति||३२०||

वयोबलशरीरादिभेदा हि बहवो मताः |३२१|

श्लोक 321-326

तथाऽन्तःसन्धिमार्गाणां दोषाणां गूढचारिणाम्||३२१||

भवेत् कदाचित् कार्याऽपि विरुद्धाभिमता क्रिया|
पित्तमन्तर्गतं गूढं स्वेदसेकोपनाहनैः||३२२||

नीयते बहिरुष्णैर्हि तथोष्णं शमयन्ति ते|
बाह्यैश्च शीतैः सेकाद्यैरूष्माऽन्तर्याति पीडितः||३२३||

सोऽन्तर्गूढं कफं हन्ति शीतं शीतैस्तथा जयेत्|
श्लक्ष्णपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत्||३२४||

त्वग्गतस्योष्मणो रोधाच्छीतकृच्चान्यथाऽगुरोः|
छर्दिघ्नी मक्षिकाविष्ठा मक्षिकैव तु वामयेत्||३२५||

द्रव्येषु स्विन्नजग्धेषु चैव तेष्वेव विक्रिया|३२६|

श्लोक 326-327

तस्माद्दोषौषधादीनि परीक्ष्य दश तत्त्वतः||३२६||

कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलम्|३२७|

श्लोक 327-329

निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनायाति हेतुना||३२७||

क्षीणे मार्गीकृते देहे शेषः सूक्ष्म इवानलः|
तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना||३२८||

सिद्ध्यर्थं प्राक्प्रयुक्तस्य सिद्धस्याप्यौषधस्य तु|३२९|

श्लोक 329-331

काठिन्यादूनभावाद्वा दोषोऽन्तः कुपितो महान्||३२९||

पथ्यैर्मृद्वल्पतां नीतो मृदुदोषकरो भवेत्|
पथ्यमप्यश्नतस्तस्माद्यो व्याधिरुपजायते||३३०||

ज्ञात्वैवं वृद्धिमभ्यासमथवा तस्य कारयेत्|३३१|

श्लोक 331-334

सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्||३३१||

कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः|
मनसोऽर्थानुकूल्याद्धि तुष्टिरूर्जा रुचिर्बलम्||३३२||

सुखोपभोगता च स्याद्व्याधेश्चातो बलक्षयः|
लौल्याद्दोषक्षयाद्व्याधेर्वैधर्म्याच्चापि या रुचिः||३३३||

तासु पथ्योपचारः स्याद्योगेनाद्यं विकल्पयेत्|३३४|

श्लोक 334-341

तत्र श्लोकाः-
विंशतिर्व्यापदो योनेर्निदानं लिङ्गमेव च||३३४||

चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया|
शुक्रदोषास्तथा चाष्टौ निदानाकृतिभेषजैः||३३५||

क्लैब्यान्युक्तानि चत्वारि चत्वारः प्रदरास्तथा|
तेषां निदानं लिङ्गं च भैषज्यं चैव कीर्तितम्||३३६||

क्षीरदोषास्तथा चाष्टौ हेतुलिङ्गभिषग्जितैः|
रेतसो रजसश्चैव कीर्तितं शुद्धिलक्षणम्||३३७||

उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव च|
देशादिगुणशंसा च कालः षङ्विध एव च||३३८||

देशे देशे च यत् सात्म्यं यथा वैद्योऽपराध्यति|
चिकित्सा चापि निर्दिष्टा दोषाणां गूढचारिणाम्||३३९||

यो हि सम्यङ्न जानाति शास्त्रं शास्त्रार्थमेव च|
न कुर्यात् स क्रियां चित्रमचक्षुरिव चित्रकृत्||३४०||

अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते|
चिकित्सितमिदं स्थानं षष्ठं परिसमापितम्||३४१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने योनिव्यापच्चिकित्सितं नाम त्रिंशोऽध्यायः||३०||
इति चरकसंहितायां षष्ठं चिकित्सितस्थानं सम्पूर्णम्|