श्लोक 1-2
अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः |
त्रिषष्ट्या रसाभेदानां तत्प्रयोजनमुच्यते ||३||
श्लोक 4
अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा |
रसभेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत् ||४||
श्लोक 5
एकैकेनानुगमनं भागशो यदुदीरितम् |
दोषाणां , तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत् ||५||
श्लोक 6-8
यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः |
पञ्चानुक्रमते योगानम्लश्चतुर एव तु ||६||
त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम् |
तिक्तः कषायमन्वेति ते द्विका दश पञ्च च ||७||
तद्यथा- मधुराम्लः(१), मधुरलवणः(२), मधुरकटुकः(३), मधुरतिक्तः(४), मधुरकषायः(५), एतेपञ्चानुक्रान्ता मधुरेण; अम्ललवणः(१), अम्लकटुकः(२), अम्लतिक्तः(३), अम्लकषायः(४), एते चत्वारोऽनुक्रान्ता अम्लेन; लवणकटुकः(१), लवणतिक्तः(२), लवणकषायः(३), एते त्रयोऽनुक्रान्ता लवणेन; कटुतिक्तः(१), कटुकषायः(२), द्वावेतावनुक्रान्तौ कटुकेन; तिक्तकषायः(१) एक एवानुक्रान्तस्तिक्तेन; एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः ||८|
श्लोक 9-10
त्रिकान् वक्ष्यामः-
आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति |
षडम्लो लवणस्तस्मादर्धमेकं तथा कटुः ||९||
तद्यथा-मधुराम्ललवणः(१), मधुराम्लकटुकः(२), मधुराम्लतिक्तः(३), मधुराम्लकषायः(४), मधुरलवणकटुकः(५), मधुरलवणतिक्ताः(६), मधुरलवणकषायः(७), मधुरकटुकतिक्तः(८), मधुरकटुकषायः(९), मधुरतिक्तकषायः(१०), एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुकः(१), अम्ललवणतिक्तः(२), अम्ललवणकषायः(३), अम्लकटुतिक्तः(४), अम्लकटुकषायः(५), अम्लतिक्तकषायः(६), एवमेषां षण्णामादावम्लः प्रयुज्यते; लवणकटुतिक्तः(१), लवणकटुकषायः(२), लवणतिक्तकषायः(३), एवमेषां त्रयाणामादौ लवणः प्रयुज्यते; कटुतिक्तकषायः(१), एवमेकस्यादौ कटुकः प्रयुज्यते; एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः ||१०||
श्लोक 11-12
चतुष्कान् वक्ष्यामः |
चतुष्करससंयोगान्मधुरो दश गच्छति |
चतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु ||११||
मधुराम्ललवणकटुकः(१), मधुराम्ललवणतिक्तः(२), मधुराम्ललवणकषायः(३), मधुराम्लकटुकतिक्तः(४), मधुराम्लकटुकषायः(५), मधुराम्लतिक्तकषायः(६), मधुरलवणकटुकतिक्तः(७), मधुरलवणकटुकषायः(८), मधुरलवणतिक्तकषायः(९), मधुरकटुतिक्तकषायः(१०), एवमेषां दशानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तः(१), अम्ललवणकटुकषायः(२), अम्ललवणतिक्तकषायः(३), अम्लकटुतिक्तकषायः(४), एवमेषां चतुर्णामादावम्लः; लवणकटुतिक्तकषायः(१), एवमेकस्यादौ लवणः; एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः ||१२||
श्लोक 13-14
पञ्चकान् वक्ष्यामः |
पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति ||१३||
मधुराम्ललवणकटुतिक्तः(१), मधुराम्ललवणकटुकषायः(२), मधुराम्ललवणतिक्तकषायः(३), मधुराम्लकटुतिक्तकषायः(४), मधुरलवणकटुतिक्तकषायः(५), एवमेषां पञ्चानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तकषायः(१), एवमेकस्यादावम्लः; एवमेते षट् पञ्चकसंयोगा व्याख्याताः ||१४||
श्लोक 15
षट्कमेकं वक्ष्यामः; एकस्तु षट्कसंयोगः-मधुराम्ललवणकटुतिक्तकषायः; एष एक एव षट्संयोगः ||१५||
श्लोक 16
एकैकश्च षड्रसा भवन्ति-मधुरः(१), अम्लः(२), लवणः(३), कटुकः(४), तिक्तः(५), कषायः(६), इति ||१६||
श्लोक 17
भवन्ति चात्र-
एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः |
दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः ||१७||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो
नाम (प्रथमः, आदितः) त्रिषष्टितमोऽध्यायः ||६३||