वत्सककल्पः

श्लोक 1-2

अथातो वत्सककल्पं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-6

अथ वत्सकनामानि भेदं स्त्रीपुंसयोस्तथा|
कल्पं चास्य प्रवक्ष्यामि विस्तरेण यथातथम्||३||

वत्सकः कुटजः शक्रो वृक्षको गिरिमल्लिका|
बीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गकाः||४||

बृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान् भवेत्|
श्यामा चारुणपुष्पा स्त्री फलवृन्तैस्तथाऽणुभिः ||५||

रक्तपित्तकफघ्नस्तु सुकुमारेष्वनत्ययः|
हृद्रोगज्वरवातासृग्वीसर्पादिषु शस्यते||६||

श्लोक 7-9

काले फलानि सङ्गृह्या तयोः शुष्काणि निक्षिपेत् |
तेषामन्तर्नखं मुष्टिं जर्जरीकृत्य भावयेत् ||७||

मधुकस्य कषायेण कोविदारादिभिस्तथा|
निशि स्थितं विमृद्यैतल्लवणक्षौद्रसंयुतम्||८||

पिबेत्तद्वमनं श्रेष्ठं पित्तश्लेष्मनिबर्हणम्|९|

श्लोक 9-10

अष्टाहं पयसाऽऽर्केण तेषां चूर्णानि भावयेत्||९||

जीवकस्य कषायेण ततः पाणितलं पिबेत्|
फलजीमूतकेक्ष्वाकुजीवन्तीनां पृथक् तथा||१०||

सर्षपाणां मधूकानां लवणस्याथवाऽम्बुना|११|

श्लोक 11

कृशरेणाथवा युक्तं विदध्याद्वमनं भिषक्||११||

श्लोक 12

तत्र श्लोकः-
कषायैर्नव चूर्णैश्च पञ्चोक्ताः सलिलैस्त्रयः|
एकश्च कृशरायां स्याद्योगास्तेऽष्टादश स्मृताः ||१२||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
कल्पस्थाने वत्सककल्पो नाम पञ्चमोऽध्यायः||५||