वमनविरेचनव्यापत्सिद्धिः

श्लोक 1-2

अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः|
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

अथ शोधनयोः सम्यग्विधिमूर्ध्वानुलोमयोः|
असम्यक्कृतयोश्चैव दोषान् वक्ष्यामि सौषधान्||३||

श्लोक 4

अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः|
तदन्तरे प्रावृडाद्यास्तेषां साधारणास्त्रयः||४||

श्लोक 5-6

प्रावृट् शुचिनभौ ज्ञेयौ शरदूर्जसहौ पुनः|
तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति||५||

एतानृतून् विकल्प्यैवं दद्यात् संशोधनं भिषक्|
स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु||६||

श्लोक 7

कर्मणां वमनादीनामन्तरेष्वन्तरेषु च|
स्नेहस्वेदौ प्रयुञ्जीत स्नेहं चान्ते प्रयोजयेत्||७||

श्लोक 8

विसर्पपिडकाशोफकामलापाण्डुरोगिणः |
अभिघातविषार्तांश्च नातिस्निग्धान् विरेचयेत्||८||

श्लोक 9

नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्|
स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्||९||

श्लोक 10

स्नेहस्वेदोपपन्नेन जीर्णे मात्रावदौषधम्|
एकाग्रमनसा पीतं सम्यग्योगाय कल्पते||१०||

श्लोक 11-13

स्निग्धात् पात्राद्यथा तोयमयत्नेन प्रणुद्यते|
कफादयः प्रणुद्यन्ते स्निग्धाद्देहात्तथौषधैः||११||

आर्द्रं काष्ठं यथा वह्निर्विष्यन्दयति सर्वतः|
तथा स्निग्धस्य वै दोषान् स्वेदो विष्यन्दयेत् स्थिरान्||१२||

क्लिष्टं वासो यथोत्क्लेश्य मलः संशोध्यतेऽम्भसा|
स्नेहस्वेदैस्तथोत्क्लेश्य शोध्यते शोधनैर्मलः ||१३||

श्लोक 14

अजीर्णे वर्धते ग्लानिर्विबन्धश्चापि जायते|
पीतं संशोधनं चैव विपरीतं प्रवर्तते||१४||

श्लोक 15-16

अल्पमात्रं महावेगं बहुदोषहरं सुखम्|
लघुपाकं सुखास्वादं प्रीणनं व्याधिनाशनम्||१५||

अविकारि च व्यापत्तौ नातिग्लानिकरं च यत्|
गन्धवर्णरसोपेतं विद्यान्मात्रावदौषधम्||१६||

श्लोक 17

विधूय मानसान् दोषान् कामादीनशुभोदयान् |
एकाग्रमनसा पीतं सम्यग्योगाय कल्पते||१७||

श्लोक 18-19

नरः श्वो वमनं पाता भुञ्जीत कफवर्धनम्|
सुजरं द्रवभूयिष्ठं, लघ्वशीतं विरेचनम्||१८||

उत्क्लिष्टाल्पकफत्वेन क्षिप्रं दोषाः स्रवन्ति हि|१९|

श्लोक 19-20

पीतौषधस्य तु भिषक् शुद्धिलिङ्गानि लक्षयेत्||१९||

ऊर्ध्वं कफानुगे पित्ते विट्पित्तेऽनुकफे त्वधः|
हृतदोषं वदेत् कार्श्यदौर्बल्ये चेत् सलाघवे||२०||

श्लोक 21-22

वामयेत्तु ततः शेषमौषधं न त्वलाघवे|
स्तैमित्येऽनिलसङ्गे च निरुद्गारेऽपि वामयेत्||२१||

आलाघवात्तनुत्वाच्च कफस्यापत् परं भवेत्|२२|

श्लोक 22-23

वमिते वर्धते वह्निः शमं दोषा व्रजन्ति हि||२२||

वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यलक्षयन्|
तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम्||२३||

श्लोक 24

संशोधनाभ्यां शुद्धस्य हृतदोषस्य देहिनः|
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्||२४||

श्लोक 25

कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके|
तर्पणादिक्रमं कुर्यात् पेयाऽभिष्यन्दयेद्धि तान्||२५||

श्लोक 26-27

अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णोर्जो मनस्विता|
लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृतिः||२६||

क्लमो दाहोऽङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा|
अरतिर्बलहानिश्च सावशेषौषधाकृतिः||२७||

श्लोक 28

अकालेऽल्पातिमात्रं च पुराणं न च भावितम्|
असम्यक्संस्कृतं चैव व्यापद्येतौषधं द्रुतम्||२८||

श्लोक 29-30

आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रहः|
जीवादानं सविभ्रंशः स्तम्भः सोपद्रवः क्लमः||२९||

अयोगादतियोगाच्च दशैता व्यापदो मताः|
प्रेष्यभैषज्यवैद्यानां वैगुण्यादातुरस्य च||३०||

श्लोक 31-34

योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्तनम्|
अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्तनम्||३१||

श्लेष्मोत्क्लिष्टेन दुर्गन्धमहृद्यमति वा बहु|
विरेचनमजीर्णे च पीतमूर्ध्वं प्रवर्तते||३२||

क्षुधार्तमृदुकोष्ठाभ्यां स्वल्पोत्क्लिष्टकफेन वा|
तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम्||३३||

प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नशः|
अयोगसञ्ज्ञे, कृच्छ्रेण याति दोषो नवाऽल्पशः||३४||

श्लोक 35-36

पीतौषधो न शुद्धश्चेज्जीर्णे तस्मिन् पुनः पिबेत्|
औषधं न त्वजीर्णेऽन्यद्भयं स्यादतियोगतः||३५||

कोष्ठस्य गुरुतां ज्ञात्वा लघुत्वं बलमेव च|
अयोगे मृदु वा दद्यादौषधं तीक्ष्णमेव वा||३६||

श्लोक 37

वमनं न तु दुश्छर्दं दुष्कोष्ठं न विरेचनम्|
पाययेतौषधं भूयो हन्यात् पीतं पुनर्हि तौ||३७||

श्लोक 38-39

अस्निग्धास्विन्नदेहस्य रूक्षस्यानवमौषधम्|
दोषानुत्क्लिश्य निर्हर्तुमशक्तं जनयेद्गदान्||३८||

विभ्रंशं श्वयथुं हिक्कां तमसो दर्शनं भृशम् |
पिण्डिकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम्||३९||

श्लोक 40-44

स्निग्धस्विन्नस्य चात्यल्पं दीप्ताग्नेर्जीर्णमौषधम्|
शीतैर्वा स्तब्धमामे वा दोषानुत्क्लिश्य नाहरेत्||४०||

तानेव जनयेद्रोगानयोगः सर्व एव सः|
विज्ञाय मतिमांस्तत्र यथोक्तां कारयेत् क्रियाम्||४१||

तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः|
पाययेत पुनर्जीर्णे समूत्रैर्वा निरूहयेत्||४२||

निरूढं च रसैर्धान्वैर्भोजयित्वाऽनुवासयेत्|
फलमागधिकादारुसिद्धतैलेन मात्रया||४३||

स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत्|
न चातितीक्ष्णेन ततो ह्यतियोगस्तु जायते||४४||

श्लोक 45-51

अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्|
हृत्वाऽऽशु विट्पित्तकफान् धातून्विस्रावयेद्द्रवान्||४५||

बलस्वरक्षयं दाहं कण्ठशोषं भ्रमं तृषाम्|
कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत्||४६||

वमने तु विरेकः स्याद्विरेके वमनं पुनः |
परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तत्||४७||

कषायमधुरैः शीतैरन्नपानौषधैस्तथा|
रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि||४८||

अञ्जनं चन्दनोशीरमज्जासृक्शर्करोदकम्|
लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||४९||

शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम्|
वर्चःसाङ्ग्राहिकैः सिद्धं क्षीरं भोज्यं च दापयेत्||५०||

जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते|
मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा||५१||

श्लोक 52-56

वमनस्यातियोगे तु शीताम्बुपरिषेचितः|
पिबेत् कफहरैर्मन्थं सघृतक्षौद्रशर्करम्||५२||

सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयोः|
समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्||५३||

वमतोऽन्तःप्रविष्टायां जिह्वायां कवलग्रहाः|
स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिताः||५४||

फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः|
निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्||५५||

वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम्|
यवागूं तनुकां दद्यात् स्नेहस्वेदौ च बुद्धिमान्||५६||

श्लोक 57

वमितश्च विरिक्तश्च मन्दाग्निश्च विलङ्घितः|
अग्निप्राणविवृद्ध्यर्थं क्रमं पेयादिकं भजेत् ||५७||

श्लोक 58-60

बहुदोषस्य रूक्षस्य हीनाग्नेरल्पमौषधम्|
सोदावर्तस्य चोत्क्लिश्य दोषान्मार्गान्निरुध्य च||५८||

भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्|
श्वासविण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम्||५९||

अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्|
उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते||६०||

श्लोक 61-63

स्निग्धेन गुरुकोष्ठेन सामे बलवदौषधम्|
क्षामेण मृदुकोष्ठेन श्रान्तेनाल्पबलेन वा||६१||

पीतं गत्वा गुदं साममाशु दोषं निरस्य च|
तीव्रशूलां सपिच्छास्रां करोति परिकर्तिकाम्||६२||

लङ्घनं पाचनं सामे रूक्षोष्णं लघुभोजनम्|
बृंहणीयो विधिः सर्वः क्षामस्य मधुरस्तथा||६३||

श्लोक 64-67

आमे जीर्णेऽनुबन्धश्चेत् क्षाराम्लं लघु शस्यते|
पुष्पकासीसमिश्रं वा क्षारेण लवणेन वा||६४||

सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति|
दध्यम्लं भोजने पाने संयुक्तं दाडिमत्वचा||६५||

देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत्|
अश्वत्थोदुम्बरप्लक्षकदम्बैर्वा शृतं पयः||६६||

कषायमधुरं शीतं पिच्छाबस्तिमथापि वा|
यष्टीमधुकसिद्धं वा स्नेहबस्तिं प्रदापयेत्||६७||

श्लोक 67-70

अल्पं तु बहुदोषस्य दोषमुत्क्लिश्य भेषजम्|
अल्पाल्पं स्रावयेत् कण्डूं शोफं कुष्ठानि गौरवम्||६८||

कुर्याच्चाग्निबलोत्क्लेशस्तैमित्यारुचिपाण्डुताः|
परिस्रावः स, तं दोषं शमयेद्वामयेदपि||६९||

स्नेहितं वा पुनस्तीक्ष्णं पाययेत् विरेचनम्|
शुद्धे चूर्णासवारिष्टान् संस्कृतांश्च प्रदापयेत्||७०||

श्लोक 71-75

पीतौषधस्य वेगानां निग्रहान्मारुतादयः|
कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम्||७१||

स हिक्काकासपार्श्वार्तिदैन्यलालाक्षिविभ्रमैः|
जिह्वां खादति निःसञ्ज्ञो दन्तान् किटिकिटापयन्||७२||

न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्|
मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम्||७३||

पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत्|
कायाग्निं च बलं चास्य क्रमेणोत्थापयेत्ततः ||७४||

पवनेनातिवमतो हृदयं यस्य पीड्यते|
तस्मै स्निग्धाम्ललवणं दद्यात् पित्तकफेऽन्यथा||७५||

श्लोक 76-77

पीतौषधस्य वेगानां निग्रहेण कफेन वा|
रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः||७६||

स्तम्भवेपथुनिस्तोदसादोद्वेष्टनमन्थनैः|
तत्र वातहरं सर्वं स्नेहस्वेदादि कारयेत् ||७७||

श्लोक 78-84

अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम्|
दोषान् हृत्वा विनिर्मथ्य जीवं हरति शोणितम्||७८||

तेनान्नं मिश्रितं दद्याद्वायसाय शुनेऽपि वा|
भुङ्क्ते तच्चेद्वदेज्जीवं न भुङ्क्ते पित्तमादिशेत्||७९||

शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा|
प्रक्षालितं विवर्णं स्यात् पित्ते शुद्धं तु शोणिते||८०||

तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात् क्रियाम्|
तस्य पित्तहरीं सर्वामतियोगे च या हिता ||८१||

मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्|
पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति ||८२||

तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत्|
श्यामाकाश्मर्यबदरीदूर्वोशीरैः शृतं पयः||८३||

घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत्|
पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्||८४||

श्लोक 85-87

गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्|
साम गान्धर्वशब्दांश्च सञ्ज्ञानाशेऽस्य कारयेत्||८५||

यदा विरेचनं पीतं विडन्तमवतिष्ठते|
वमनं भेषजान्तं वा दोषानुत्क्लिश्य नावहेत्||८६||

तदा कुर्वन्ति कण्ड्वादीन् दोषाः प्रकुपिता गदान्|
स विभ्रंशो मतस्तत्र स्याद्यथाव्याधि भेषजम्||८७||

श्लोक 88-89

पीतं स्निग्धेन सस्नेहं तद्दोषैर्मार्दवाद्वृतम्|
न वाहयति दोषांस्तु स्वस्थानात् स्तम्भयेच्च्युतान्||८८||

वातसङ्गगुदस्तम्भशूलैः क्षरति चाल्पशः|
तीक्ष्णं बस्तिं विरेकं वा सोऽर्हो लङ्घितपाचितः||८९||

श्लोक 90-91

रूक्षं विरेचनं पीतं रूक्षेणाल्पबलेन वा|
मारुतं कोपयित्वाऽऽशु कुर्याद्धोरानुपद्रवान्||९०||

स्तम्भशूलानि घोराणि सर्वगात्रेषु मुह्यतः|
स्नेहस्वेदादिकस्तत्र कार्यो वातहरो विधिः||९१||

श्लोक 92-93

स्निग्धस्य मृदुकोष्ठस्य मृदूत्क्लिश्यौषधं कफम्|
पित्तं वातं च संरुध्य सतन्द्रागौरवं क्लमम्||९२||

दौर्बल्यं चाङ्गसादं च कुर्यादाशु तदुल्लिखेत्|
लङ्घनं पाचनं चात्र स्निग्धं तीक्ष्णं च शोधनम्||९३||

श्लोक 94-95

तत्र श्लोकौ-
इत्येता व्यापदः प्रोक्ताः सरूपाः सचिकित्सिताः|
वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम् ||९४||

एता विज्ञाय मतिमानवस्थाश्चैव तत्त्वतः|
दद्यात् संशोधनं सम्यगारोग्यार्थी नृणां सदा||९५||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
सिद्धिस्थाने वमनविरेचनव्यापत्सिद्धिर्नाम षष्ठोऽध्यायः||६||