व्रणालेपनबन्धविध्यध्यायः

श्लोक 1-3

अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

आलेप आद्य उपक्रमः , एष सर्वशोफानां सामान्यः प्रधानतमश्च, तं च  प्रतिरोगं वक्ष्यामः-ततो बन्धः प्रधानं, तेन शुद्धिर्व्रणरोपणमस्थिसन्धिस्थैर्यं च ||३||

श्लोक 4

तत्र प्रतिलोममालिम्पेत् |
प्रतिलोमे हि सम्यगौषधमवतिष्ठतेऽनुप्रविशति रोमकूपान् स्वेदवाहिभिश्च  सिरामुखैर्वीर्यं प्राप्नोति ||४||

श्लोक 5

न च शुष्यमाणमुपेक्षेत, अन्यत्र पीडयितव्यात् |
शुष्को ह्यपार्थको रुक्करश्च ||५||

श्लोक 6

स त्रिविधः- प्रलेपः, प्रदेह, आलेपश्च |
प्रलेपप्रदेहयोरन्तरं -तत्र प्रलेपः शीतस्तनुरविशोषी विशोषी वा; प्रदेहस्तूष्णः शीतो वा  बहलोऽबहुरविशोषी च; मध्यमोऽत्रालेपः |
तत्र, रक्तपित्तप्रसादकृदालेपः; प्रदेहो वातश्लेष्मप्रशमनः शोधनो रोपणः  शोफवेदनापहश्च; तस्योपयोगः क्षताक्षतेषु; यस्तु क्षतेषूपयुज्यते स भूयः  ‘कल्क’ इति सञ्ज्ञां लभते निरुद्धालेपनसञ्ज्ञः; तेनास्रावसन्निरोधो मृदुता  पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ||६||

श्लोक 7-10

अविदग्धेषु शोफेषु हितमालेपनं भवेत् |
यथास्वं दोषशमनं दाहकण्डूरुजापहम् ||७||

त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम् |
दाहप्रशमनं श्रेष्ठं रुजाकण्डूविनाशनम् ||८||

मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम् |
संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ||९||

(षड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके |
अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत्) ||१०||

श्लोक 11

तस्य प्रमाणं महिषार्द्रचर्मोत्सेधमुपदिशन्ति ||११||

श्लोक 12-15

न चालेपं रात्रौ प्रयुञ्जीत , मा  भूच्छैत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति ||१२||

प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा |
पित्तरक्ताभिघातोत्थे सविषे च विशेषतः ||१३||

न च पर्युषितं लेपं कदाचिदवचारयेत् |
उपर्युपरि लेपं च न कदाचित् प्रदापयेत् ||१४||

ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि |
न च तेनैव लेपेन प्रदेहं दापयेत् पुनः |
शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थकः ||१५||

श्लोक 16

अत ऊर्ध्वं व्रणबन्धनद्रव्याण्युपदेक्ष्यामः; तद्यथा-क्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कलालाबूशक-ललताविदलरज्जुतूलफलसन्तानिकालौहानीति ; तेषां व्याधिं कालं  चावेक्ष्योपयोगः; प्रकरणतश्चैषामादेशः ||१६||

श्लोक 17

तत्र कोशदामस्वस्तिकानुवेल्लितमु(प्र)तोलीमण्डलस्थगिकायमकखट्वा-चीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दश बन्धविशेषाः |
तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ||१७||

श्लोक 18

तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्, दाम सम्बाधेऽङ्गे,  सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेषु स्वस्तिकं, अनुवेल्लितं शाखासु,  ग्रीवामेढ्रयोः मु(प्र)तोलीं, वृत्तेऽङ्गे मण्डलम्, अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु  स्थगिकां, यमलव्रणयोर्यमकं, हनुशङ्खगण्डेषु खट्वाम्, अपाङ्गयोश्चीनं,  पृष्ठोदरोरःसु विबन्धं, मूर्धनि वितानं, चिबुकनासौष्ठांसबस्तिषु गोफणां,  जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति; यो वा यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं  तस्मिन् विदध्यात् ||१८||

श्लोक 19

यन्त्रणमूर्ध्वमधस्तिर्यक् च ||१९||

श्लोक 20

तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसङ्कुचितं  मृदु  पट्टं निवेश्य बध्नीयात् |
न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च ||२०||

श्लोक 21

न च विकेशिकौषधे अतिस्निग्धे अतिरूक्षे विषमे वा कुर्वीत;  यस्मादतिस्नेहात् क्लेदो, रौक्ष्याच्छेदो, दुर्न्यासाद्व्रणवर्त्मावघर्षणमिति ||२१||

श्लोक 22

तत्र व्रणायतनविशेषाद्बन्धविशेषस्त्रिविधो भवति- गाढः, समः, शिथिल इति ||२२||

श्लोक 23

पीडयन्नरुजो गाढः सोच्छ्वासः शिथिलः स्मृतः |
नैव गाढो न शिथिलः समो बन्धः प्रकीर्तितः ||२३||

श्लोक 24

तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिरःसु गाढः,  शाखावदनकर्णकण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोरःसु समः, अक्ष्णोः सन्धिषु च  शिथिल इति ||२४||

श्लोक 25

तत्र पैत्तिकं गाढस्थाने समं बध्नीयात्, समस्थाने शिथिलं, शिथिलस्थाने  नैव; एवं शोणितदुष्टं च; श्लैष्मिकं शिथिलस्थाने समं, समस्थाने गाढं,  गाढस्थाने गाढतरं; एवं वातदुष्टं च ||२५||

श्लोक 26

तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात्, रक्तोपद्रुतमप्येवं; श्लैष्मिकं  हेमन्तवसन्तयोस्त्र्यहात् , वातोपद्रुतमप्येवम् |
एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् ||२६||

श्लोक 27

तत्र, समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं  शोफवेदनाप्रादुर्भावश्च, गाढसमस्थानेषु शिथिलं बद्धे विकेशिकौषधपतनं  पट्टसञ्चाराद्व्रणवर्त्मावघर्षणमिति; गाढशिथिलस्थानेषु समं बद्धे च  गुणाभाव इति ||२७||

श्लोक 28

अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च ||२८||

श्लोक 29

अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैर-भिहन्यते व्रणः, विविधवेदनोपद्रुतश्च दुष्टतामुपैति, आलेपनादीनि चास्य  विशोषमुपयान्ति ||२९||

श्लोक 30-31

चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम् |
अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ||३०||

सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति |
सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रणः ||३१||

श्लोक 32

अबन्ध्याः पित्तरक्ताभिघातविषनिमित्ता यदा  शोफदाहपाकरागतोदवेदनाभिभूताः क्षाराग्निदग्धाः पाकात्  प्रकुथितप्रशीर्णमांसाश्च भवन्ति ||३२||

श्लोक 33-35

कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम् |
कर्णिकाश्चोन्दुरुविषे विषजुष्टाश्च ये व्रणाः ||३३||

मांसपाके न बध्यन्ते गुदपाके च दारुणे |
स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ||३४||

देशं दोषं च विज्ञाय व्रणं च व्रणकोविदः |
ऋतूंश्च परिसङ्ख्याय ततो बन्धान्निवेशयेत् ||३५||

श्लोक 36-45

ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता |
यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषतः ||३६||

घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम् |
विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ||३७||

प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च |
युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ||३८||

विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा |
यथाव्रणं विदित्वा तु योगं वैद्यः प्रयोजयेत् ||३९||

पित्तजे रक्तजे वाऽपि सकृदेव परिक्षिपेत् |
असकृत् कफजे वाऽपि वातजे च विचक्षणः ||४०||

तलेन प्रतिपीड्याथ स्रावयेदनुलोमतः |
सर्वांश्च बन्धान् गूढान्तान् सन्धींश्च विनिवेशयेत् ||४१||

ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधिः स्मृतः |
बुद्ध्योत्प्रेक्ष्याभियुक्तेन तथा चास्थिषु जानता ||४२||

उत्तिष्ठतो निषण्णस्य शयनं चाधिगच्छतः |
गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रणः ||४३||

ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणाः |
सन्ध्यस्थिकोष्ठलप्राप्ताश्च सिरास्नायुगतास्तथा ||४४||

तथाऽवगाढगम्भीराः सर्वतो विषमस्थिताः |
नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ||४५||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने व्रणालेपनबन्धविधिर्नामाष्टादशोऽध्यायः  ||१८||