व्रणास्रावविज्ञानीयाध्यायः

श्लोक 1-2

अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

त्वङ्मांससिरास्नाय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि |
अत्र सर्वव्रणसन्निवेशः ||३||

श्लोक 4

तत्र, आद्यैकवस्तुसन्निवेशी त्वग्भेदी व्रणः सूपचरः, शेषाः स्वयमवदीर्यमाणा दुरुपचाराः ||४||

श्लोक 5

तत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः, शेषास्तु  विकृताकृतयो दुरुपक्रमा भवन्ति ||५||

श्लोक 6

सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभिषग्भिश्चोपक्रान्ताः;  अनात्मवतामज्ञैश्चोपक्रान्ताः प्रदुष्यन्ति, प्रवृद्धत्वाद्दोषाणाम् ||६||

श्लोक 7

तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽतिमृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः
नगन्धात्यर्थदाहपाकरागवेदनावानिति पित्तेन, शेषाः कफेन; उन्मार्गी  मुखात् मुखान्तरवान्, उत्सङ्गः कोटरः’ इति चक्रः;  कृष्णरक्तपीतशुक्लादीनां वर्णानामन्यतमवर्णो भैरवः  पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्णः  पूतिपूयास्राव्युन्मार्ग्युत्सङ्ग्यमनोज्ञदर्शनगन्धोऽत्यर्थं वेदनावान्  दाहपाकरागकण्डूशोफपिडकोपद्रुतोऽत्यर्थं दुष्टशोणितास्रावी  दीर्घकालानुबन्धी चेति दुष्टव्रणलिङ्गानि |
तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत ||७||

श्लोक 8

अत ऊर्ध्वं सर्वस्रावान् वक्ष्यामः-तत्र घृष्टासु छिन्नासु वा त्वक्षु स्फोटे भिन्ने विदारिते वा सलिलप्रकाशो  भवत्यास्रावः किञ्चिद्विस्रः पीतावभासश्च; मांसगतः सर्पिःप्रकाशः सान्द्रः श्वेतः पिच्छिलश्च; सिरागतः सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च  तोयनाडीभिरिव तोयागमनं पूयस्य, आस्रावश्चात्र तनुर्विच्छिन्नः  पिच्छिलोऽवलम्बी श्यावोऽवश्यायप्रतिमश्च; स्नायुगतः स्निग्धो घनः  सिङ्घाणकप्रतिमः सरक्तश्च; अस्थिगतोऽस्थन्यभिहते स्फुटिते भिन्ने  दोषावदारिते वा दोषभक्षितत्वादस्थि निःसारं शुक्तिधौतमिवाभाति ,  आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च; सन्धिगतः पीड्यमानो न  प्रवर्तते, आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च  स्रवति,  आस्रावश्चात्र पिच्छिलोऽवलम्बी सरुधिरोन्मथितश्च ;  कोष्ठगतोऽसृङ्मूत्रपुरीषपूयोदकानि स्रवति;  मर्मगतस्त्वगादिष्ववरुद्धत्वान्नोच्यते |
तत्र त्वगादिगतानामास्रावाणां यथाक्रमं  पारुष्यश्यावावश्यायदधिमस्तुक्षारोदकमांसधावनपुलाकोदकसन्निभत्वानि मारुताद्भवन्ति;  पित्ताद्गोमेदकगोमूत्रभस्मशङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि;  पित्तवद्रक्तादतिविस्रत्वं च;  कफान्नवनीतकासीसमज्जपिष्टतिलनालिकेरोदकवराहवसासन्निभत्वानि;  सन्निपातान्नालिकेरोदकैर्वारुकरसकाञ्जिकप्रसादारुकोदकप्रियङ्गुफ-लयकृन्मुद्गयूषसवर्णत्वानीति ||८||

श्लोक 9-10

श्लोकौ चात्र भवतः-
पक्वाशयादसाध्यस्तु पुलाकोदकसन्निभः |
क्षारोदकनिभः स्रावो वर्ज्यो रक्ताशयात्स्रवन् ||९||

आमाशयात् कलायाम्भोनिभश्च त्रिकसन्धिजः |
स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक् ||१०||

श्लोक 11

अत ऊर्ध्वं सर्वव्रणवेदना वक्ष्यामः-तोदनभेदनताडनच्छेदनायामनमन्थनविक्षेपणचुमुचुमायननिर्दहनाव-भञ्जनस्फोटन विदारणोत्पाटनकम्पनविविधशूलविश्लेषणविकिरणस्त-म्भनपूरणस्वप्नाकुञ्जनाङ्कु शिकाः सम्भवन्ति,  अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं  वातिकमिति विद्यात्; ओषचोषपरिदाहधूमायनानि यत्र  गात्रमङ्गारावकीर्णमिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसिक्तवच्चवेदनाविशेषास्तं पैत्तिकमिति विद्यात्; पित्तवद्रक्तसमुत्थं जानीयात्;  कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनत्वं स्तम्भः शैत्यं च यत्र तं  श्लैष्मिकमिति विद्यात्; यत्र सर्वासां वेदनानामुत्पत्तिस्तं  सान्निपातिकमिति विद्यात् ||११||

श्लोक 12

अत ऊर्ध्वं व्रणवर्णान् वक्ष्यामः-भस्मकपोतास्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजस्यः नीलः पीतो  हरितः श्यावः कृष्णो रक्तः पिङ्गलः कपिल इति रक्तपित्तसमुत्थयोः; श्वेतः  स्निग्धः पाण्डुरिति श्लेष्मजस्य; सर्ववर्णोपेतः सान्निपातिक इति ||१२||

श्लोक 13

भवति चात्र-
न केवलं व्रणेषूक्तो वेदनावर्णसङ्ग्रहः |
सर्वशोफविकारेषु व्रणवल्लक्षयेद्भिषक् ||१३||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने व्रणास्रावविज्ञानीयो नाम  द्वाविंशतितमोऽध्यायः ||२२||