शल्यापनयनीयाध्यायः

श्लोक 1-3

अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

शल्यं द्विविधमवबद्धमनवबद्धं च ||३||

श्लोक 4

तत्र समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून् वक्ष्यामः |
तद्यथा-स्वभावः, पाचनं, भेदनं, दारणं, पीडनं, प्रमार्जनं, निर्ध्मापनं, वमनं,  विरेचनं, प्रक्षालनं, प्रतिमर्शः, प्रवाहणम्, आचूषणम्, अयस्कान्तो,  हर्षश्चेति ||४||

श्लोक 5

तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः  पतति |
मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथात्तस्य  पूयशोणितवेगाद्गौरवाद्वा पतति |
पक्वमभिद्यमानं भेदयेद्दारयेद्वा |
भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणिभिर्वा |
अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्जयेत् |
आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत् |
अन्नशल्यानि वमनाङ्गुलिप्रतिमर्शप्रभृतिभिः |
विरेचनैः पक्वाशयगतानि |
व्रणदोषाशयगतानि प्रक्षालनैः |
वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तम् |
मारुतोदकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाणैर्वा |
अनुलोममनवबद्धमकर्णमनल्पव्रणमुखमयस्कान्तेन |
हृद्यवस्थितमनेककारणोत्पन्नं शोकशल्यं हर्षेणेति ||५||

श्लोक 6

सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू भवतः-प्रतिलोमोऽनुलोमश्च ||६||

श्लोक 7

तत्र प्रतिलोममर्वाचीनमानयेत् , अनुलोमं पराचीनम् ||७||

श्लोक 8

उत्तुण्डितं छित्त्वा निर्घातयेच्छेदनीयमुखम् ||८||

श्लोक 9

छेदनीयमुखान्यपि कुक्षिवक्षःकक्षावङ्क्षणपर्शुकान्तरपतितानि च  हस्तशक्यं यथामार्गेण हस्तेनैवापहर्तुं प्रयतेत ||९||

श्लोक 10

हस्तेनैवापहर्तुमशक्यं विशस्य शस्त्रेण यन्त्रेणापहरेत् ||१०||

श्लोक 11

भवति चात्र-
शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत् |
संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम् ||११||

श्लोक 12

ततः शल्यमुद्धृत्य निर्लोहितं व्रणं कृत्वा स्वेदार्हमग्निघृतप्रभृतिभिः  संस्वेद्यावदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वाऽऽचारिकमुपदिशेत् |
(सिरास्नायुविलग्नं शलाकादिभिर्विमोच्यापनयेत्; श्वयथुग्रस्तवारङ्गं  समवपीड्य श्वयथुं; दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा|) ||१२||

श्लोक 13

हृदयमभितो वर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्यापहरेद्यथामार्गं;  दुरुपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धरेत् ||१३||

श्लोक 14

अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य पादाभ्यां यन्त्रेणापहरेत्,  अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं  प्रविभुज्य धनुर्गुणैर्बद्ध्वैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्यवक्त्रकविके बध्नीयात्, अथैनं कशया ताडयेद्यथोन्नामयञ् शिरो वेगेन  शल्यमुद्धरति;  दृढां वा वृक्षशाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत्  ||१४||

श्लोक 15

अदेशोत्तुण्डितमष्ठीलाश्ममुद्गराणामन्यतमस्य प्रहारेण विचाल्य  यथामार्गमेव यन्त्रेण ||१५||

श्लोक 16

विमृदितकर्णानि कर्णवन्त्यनाबाधकरदेशोत्तुण्डितानि पुरस्तादेव ||१६||

श्लोक 17

जातुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्तां च शलाकां,  तयाऽवगृह्यशीताभिरद्भिः परिषिच्य स्थिरीभूतं शल्यमुद्धरेत् ||१७||

श्लोक 18

अजातुषं तु जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पेनेत्येके ||१८||

श्लोक 19

अस्थिशल्यमन्यद्वा तिर्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं  दृढैकदीर्घसूत्रबद्धं  द्रवभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च  वामयेत्, वमतश्च  शल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत्;  मृदुना वा दन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वाऽन्तः |
क्षतकण्ठाय च मधुसर्पिषी लेढुं प्रयच्छेत्त्रिफलाचूर्णं वा मधुशर्करामिश्रम्||१९||

श्लोक 20

उदकपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वामयेद्वा भस्मराशौ वा  निखनेदामुखात् ||२०||

श्लोक 21

ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबुद्धं स्कन्धे मुष्टिनाऽभिहन्यात्,  स्नेहं मद्यं पानीयं वा पाययेत् ||२१||

श्लोक 22

बाहुरज्जुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा  स्रोतो निरुणद्धि, लालास्रावं फेनागमनं सञ्ज्ञानाशं चापादयति;  तमभ्यज्य  संस्वेद्य शिरोविरेचनं तस्मै तीक्ष्णं विदध्याद्रसं च वातघ्नं  दद्यादिति ||२२||

श्लोक 23-26

भवन्ति चात्र-
शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान् |
तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् ||२३||

कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च |
आददीत भिषक् तस्मात्तानि युक्त्या समाहितः ||२४||

एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि |
मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् ||२५||

शोथपाकौ रुजश्चोग्राः कुर्याच्छल्यमनाहृतम् |
वैकल्यं मरणं चापि तस्माद्यत्नाद्विनिर्हरेत् ||२६||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने शल्यापनयनीयो नाम  सप्तविंशतितमोऽध्यायः ||२७||