शीतपूतनाप्रतिषेधाध्यायः

श्लोक 1-2

अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-7

कपित्थं सुवहां बिम्बीं तथा बिल्वं प्रचीबलम् |
नन्दीं भल्लातकं चापि परिषेके प्रयोजयेत् ||३||

बस्तमूत्रं गवां मूत्रं मुस्तं च सुरदारु च |
कुष्ठं च सर्वगन्धांश्च तैलार्थमवचारयेत् ||४||

रोहिणीसर्जखदिरपलाशककुभत्वचः |
निष्क्वाथ्य तस्मिन्निष्क्वाथे सक्षीरं विपचेद्घृतम् ||५||

गृध्रोलूकपुरीषाणि बस्तगन्धामहेस्त्वचः |
निम्बपत्राणि मधुकं धूपनार्थं प्रयोजयेत् ||६||

धारयेदपि लम्बां च गुञ्जां काकादनीं तथा |७|

श्लोक 7-8

नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम् ||७||

देव्यै देयश्चोपहारो वारुणी रुधिरं तथा |
जलाशयान्ते बालस्य स्नपनं चोपदिश्यते ||८||

श्लोक 9

मुद्गौदनाशना देवी सुराशोणितपायिनी |
जलाशयालया देवी पातु त्वां शीतपूतना ||९||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शीतपूतनाप्रतिषेधो
नाम(अष्टमोऽध्यायः, आदितः) चतुस्त्रिंशोऽध्यायः ||३४||