शुक्रशोणितशुद्धिशारीरम्

श्लोक 1-2

अथातः शुक्रशोणितशुद्धिशारीरं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

वात-पित्त-श्लेष्म-कुणप -ग्रन्थि-पूतिपूय-क्षीण-मूत्रपुरीषरेतसः प्रजोत्पादने न समर्था भवन्ति ||३||

श्लोक 4

तेषु वातवर्णवेदनं वातेन, पित्तवर्णवेदनं पित्तेन, श्लेष्मवर्णवेदनं  श्लेष्मणा, कुणपगन्ध्यनल्पं च रक्तेन, ग्रन्थिभूतं श्लेष्मवाताभ्यां,  पूतिपूयनिभं पित्तश्लेष्मभ्यां, क्षीणं प्रागुक्तं पित्तमारुताभ्यां,  मूत्रपुरीषगन्धि सन्निपातेनेति |
तेषु कुणपग्रन्थिपूतिपूयक्षीणरेतसः कृच्छ्रसाध्याः,  मूत्रपुरीषरेतसस्त्वसाध्या इति ||४||

श्लोक 5

आर्तवमपि त्रिभिर्दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति; तदपि दोषवर्णवेदनादिभिर्विज्ञेयम् |
तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं , साध्यमन्यच्चेति  ||५||

श्लोक 6-11

भवन्ति चात्र-
तेष्वाद्याञ् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत् |
क्रियाविशेषैर्मतिमांस्तथा चोत्तरबस्तिभिः ||६||

पाययेत नरं सर्पिर्भिषक् कुणपरेतसि |
धातकीपुष्पखदिरदाडिमार्जुनसाधितम् ||७||

पाययेदथवा सर्पिः शालसारादिसाधितम् |
ग्रन्थिभूते शटीसिद्धं पालाशे वाऽपि भस्मनि ||८||

परूषकवटादिभ्यां पूयप्रख्ये च साधितम् |
प्रागुक्तं वक्ष्यते यच्च तत् कार्यं क्षीणरेतसि ||९||

विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः |
स्निग्धं वान्तं विरिक्तं च निरूढमनुवासितम् ||१०||

योजयेच्छुक्रदोषार्तं सम्यगुत्तरबस्तिना |११|

श्लोक 11-12

स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च ||११||

शुक्रमिच्छन्ति, केचित्तु तैलक्षौद्रनिभं तथा |१२|

श्लोक 12-16

विधिमुत्तरबस्त्यन्तं कुर्यादार्तवशुद्धये ||१२||

स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु |
कुर्यात्कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च ||१३||

ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च |
दुर्गन्धिपूयसङ्काशे मज्जतुल्ये तथाऽऽर्तवे ||१४||

पिबेद्भद्रश्रियः क्वाथं चन्दनक्वाथमेव च |
शुक्रदोषहराणां च यथास्वमवचारणम् ||१५||

योगानां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु |
अन्नं शालियवं मद्यं हितं मांसं च पित्तलम् ||१६||

श्लोक 17

शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमम् |
तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् ||१७||

श्लोक 18-21

तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि |
असृग्दरं विजानीयादतोऽन्यद्रक्तलक्षणात् ||१८||

असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः |
तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा ||१९||

दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः |
तरुण्या हितसेविन्यास्तमल्पोपद्रवं भिषक् ||२०||

रक्तपित्तविधानेन यथावत् समुपाचरेत् |२१|

श्लोक 21-23

दोषैरावृतमार्गत्वादार्तवं नश्यति स्त्रियाः ||२१||

तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः |
पाने मूत्रमुदश्विच्च दधि शुक्तं च भोजने ||२२||

क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम् |
तथाऽप्यत्र विधातव्यं विधानं नष्टरक्तवत् ||२३||

श्लोक 24

एवमदुष्टशुक्रः शुद्धार्तवा च ||२४||

श्लोक 25-30

ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी  दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनक-थनातिशब्दश्रवणावलेखनानिलायासान् परिहरेत् |
किं कारणं? दिवा स्वपन्त्याः स्वापशीलः, अञ्जनादन्धः,  रोदनाद्विकृतदृष्टिः, स्नानानुलेपनाद्दुःखशीलः , तैलाभ्यङ्गात् कुष्ठी,  नखापकर्तनात् कुनखी, प्रधावनाच्चञ्चलः,  हसनाच्छ्यावदन्तौष्ठतालुजिह्वः, प्रलापी चातिकथनात्,  अतिशब्दश्रवणाद्बधिरः, अवलेखनात् खलतिः, मारुतायाससेवनादुन्मत्तोगर्भो भवतीत्येवमेतान् परिहरेत् |
दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभोजिनीं हविष्यं, त्र्यहं च  भर्तुः संरक्षेत् |
ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासःसमलङ्कृतां  कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत् |
तत् कस्य हेतोः? ||२५||

पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना |
तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः ||२६||

ततो विधानं पुत्रीयमुपाध्यायः समाचरेत् |
कर्मान्ते च क्रमं ह्येतमारभेत विचक्षणः ||२७||

ततोऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां  शाल्योदनं भुक्त्वा मासं ब्रह्मचारिणीं तैलस्निग्धां  तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामभिरभिविश्वास्य ;  विकल्प्यैवं चतुर्थ्यां षष्ठ्यामष्टम्यां दशम्यां द्वादश्यां चोपेयादिति  पुत्रकामः ||२८||

एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च |
प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै ||२९||

अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च स्त्रीकामः;  त्रयोदशीप्रभृतयो निन्द्याः ||३०||

श्लोक 31

तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति, यश्च  तत्राधीयते गर्भः स प्रसवमानो विमुच्यते ; द्वितीयेऽप्येवं सूतिकागृहे वा; तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्वा भवति; चतुर्थे तु सम्पूर्णाङ्गो  दीर्घायुश्च भवति |
न च प्रवर्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति, यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रतिनिवर्तते नोर्ध्वं गच्छति तद्वदेतद्द्रष्टव्यम् |
तस्मान्नियमवतीं त्रिरात्रं परिहरेत् |
अतः परं मासादुपेयात् ||३१||

श्लोक 32

लब्धगर्भायाश्चैतेष्वहःसु लक्ष्मणावटशुङ्गसहदेवाविश्वदेवानामन्यतमां  क्षीरेणाभिषुत्य त्रींश्चतुरो वा बिन्दून् दद्याद्दक्षिणे नासापुटे पुत्रकामायै , नच तान्निष्ठीवेत् ||३२||

श्लोक 33

ध्रुवं चतुर्णां सान्निध्याद्गर्भः स्याद्विधिपूर्वकम् |
ऋतुक्षेत्राम्बुबीजानां सामग्र्यादङ्कुरो यथा ||३३||

श्लोक 34

एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः |
भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे हिताः ||३४||

श्लोक 35

तत्र तेजोधातुर्वर्णानां प्रभवः, स यदा गर्भोत्पत्तावब्धातुप्रायो भवति  तदा गर्भं गौरं करोति, पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गौरश्यामम् |
‘यादृग्वर्णमाहारमुपसेवते गर्भिणी तादृग्वर्णप्रसवा भवति’ इत्येके  भाषन्ते |
तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं शुक्लाक्षं, वातानुगतं विकृताक्षमिति  ||३५||

श्लोक 36

भवन्ति चात्र-
घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते |
विसर्पत्यार्तवं नार्यास्तथा पुंसां समागमे ||३६||

श्लोक 37

बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ |
यमावित्यभिधीयेते धर्मेतरपुरःसरौ ||३७||

श्लोक 38

पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत् |
स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ||३८||

श्लोक 39

यः पूतियोनौ जायेत स सौगन्धिकसञ्ज्ञितः |
स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ||३९||

श्लोक 40

स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते |
कुम्भीकः स तु विज्ञेयः… |४०|

श्लोक 40-41

…ईर्ष्यकं शृणु चापरम् ||४०||

दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते |
ईर्ष्यकः स तु विज्ञेयः,… |४१|

श्लोक 41-42

…षण्ढकं शृणु पञ्चमम् ||४१||

यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते |
ततः स्त्रीचेष्टिताकारो जायते षण्ढसञ्ज्ञितः ||४२||

श्लोक 43

ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि |
तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ||४३||

श्लोक 44

आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा |
सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसञ्ज्ञितः ||४४||

श्लोक 45

अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः |
हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत् ||४५||

श्लोक 46

आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ |
स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ||४६||

श्लोक 47

यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन |
मुञ्चतः शुक्रमन्योन्यमनस्थिस्तत्र जायते ||४७||

श्लोक 48-49

ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् |
आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि ||४८||

मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् |
कललं जायते तस्या वर्जितं पैतृकैर्गुणैः ||४९||

श्लोक 50

सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये |
गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृतो भृशम् ||५०||

श्लोक 51

गर्भो वातप्रकोपेण दौहृदे वाऽवमानिते |
भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिण एव वा ||५१||

श्लोक 52

मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः |
वातादीनां प्रकोपेण गर्भो वैकृतमाप्नुयात् ||५२||

श्लोक 53

मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च |
वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ||५३||

श्लोक 54

जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते |
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ||५४||

श्लोक 55

निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति |
मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसम्भवान् ||५५||

श्लोक 56

सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ |
तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः ||५६||

श्लोक 57

भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः |
भवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः ||५७||

श्लोक 58

कर्मणा चोदितो येन तदाप्नोति पुनर्भवे |
अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् ||५८||

पुष्पिका

इति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणितशुद्धिशारीरं नाम  द्वितीयोऽध्यायः ||२||