श्लोक 1-2
अथातः शूकदोषनिदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते |
तद्यथा सर्षपिका, अष्ठीलिका, ग्रथितं, कुम्भीका, अलजी, मृदितं, सम्मूढपिडका, अवमन्थः, पुष्करिका, स्पर्शहानिः, उत्तमा, शतपोनकः, त्वक्पाकः, शोणितार्बुदं, मांसार्बुदं, मांसपाकः, विद्रधिः, तिलकालकश्चेति ||३||
श्लोक 4
गौरसर्षपतुल्या तु शूकदुर्भग्नहेतुका |
पिडका कफरक्ताभ्यां ज्ञेया सर्षपिका बुधैः ||४||
श्लोक 5
कठिना विषमैरन्तैर्मारुतस्य प्रकोपतः |
शूकैस्तु विषसम्भुग्नैः पिडकाऽष्ठीलिका भवेत् ||५||
श्लोक 6
शूकैर्यत् पूरितं शश्वद्ग्रथितं तत् कफोत्थितम् |६|
श्लोक 6
कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा ||६||
श्लोक 7
अलजीलक्षणैर्युक्तामलजीं च वितर्कयेत् |
मृदितं पीडितं यत्तु संरब्धं वायुकोपतः ||७||
श्लोक 8
पाणिभ्यां भृशसम्मूढे सम्मूढपिडका भवेत् |८|
श्लोक 8-9
दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः ||८||
सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् |९|
श्लोक 9-10
पित्तशोणितसम्भूता पिडका पिडकाचिता ||९||
पद्मपुष्करसंस्थाना ज्ञेया पुष्करिकेति सा |१०|
श्लोक 10
जनयेत् स्पर्शहानिं तु शोणितं शूकदूषितम् ||१०||
श्लोक 11
मुद्गमाषोपमा रक्ता पिडका रक्तपित्तजा |
उत्तमैषा तु विज्ञेया शूकाजीर्णनिमित्तजा ||११||
श्लोक 12
छिद्रैरणुमुखैर्वस्तु चितं यस्य समन्ततः |
वातशोणितजो व्याधिर्विज्ञेयः शतपोनकः ||१२||
श्लोक 13
पित्तरक्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहवान् |१३|
श्लोक 13
कृष्णौः स्फोटैः सरक्तैश्च पिडकाभिश्च पीडितम् |
यस्य वस्तु रुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् ||१३||
श्लोक 14
मांसदोषेण जानीयादर्बुदं मांससम्भवम् |१४|
श्लोक 14-15
शीर्यन्ते यस्य मांसानि यत्र सर्वाश्च वेदनाः ||१४||
विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक् |१५|
श्लोक 15
विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत् ||१५||
श्लोक 16-17
कृष्णानि चित्राण्यथवा शूकानि सविषाणि च |
पातितानि पचन्त्याशु मेढ्रं निरवशेषतः ||१६||
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः |
सन्निपातसमुत्थानं तं विद्यात्तिलकालकम् ||१७||
श्लोक 18
तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः |
विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः ||१८||
पुष्पिका
इति सुश्रुतसंहितायां निदानस्थाने शूकदोषनिदानं नाम चतुर्दशोऽध्यायः ||१४||