शूलपरिणामशूलान्नद्रवशूलनिदानम्

श्लोक  1

शूलस्य सन्निकृष्टनिदानम्

अथ शूलपरिणामशूलान्नद्रवशूलनिदानम् |
दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् |
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ||१||

श्लोक  2-5

वातिकशूलस्य निदानादिपूर्वकं लक्षणम्

व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् |
कलायमुद्गाढकिकोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् ||२||

कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकात् |
विट्शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात् ||३||

वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पार्श्वपृष्ठत्रिकबस्तिदेशे |
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ||४||

मुहुर्मुहुश्चोपशमप्रकोपी विड्वातसंस्तम्भनतोदभेदैः |
संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च शमं प्रयाति ||५||

श्लोक  6-8

पैत्तिकशूलस्य निदानादिपूर्वकं लक्षणम्

क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः |
कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ||६||

ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम् |
तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्छाभ्रमचोषयुक्तम् ||७||

मध्यन्दिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च |
शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनश्च ||८||

श्लोक  9-10

श्लैष्मिकशूलस्य निदानादिपूर्वकं लक्षणम्

आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः |
अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम्  ||९||

हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः |
भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च  ||१०||

श्लोक 11

सान्निपातिकशूललक्षणम्

सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम् |
सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ||११||

श्लोक  12

आमशूललक्षणम्

आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः |
कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ||१२||

श्लोक  13-14

द्वन्द्वजशूललक्षणम्

द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् |
बस्तौ हृत्पार्श्वपृष्ठेषु स शूलः कफवातिकः |
कुक्षौ हृन्नाभिमध्येषु स शूलः कफपैत्तिकः ||१३||

दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः |१४|

श्लोक  14-15

शूलस्य साध्यासाध्यत्वम्

एकदोषोत्थितः साध्यः, कृच्छ्रसाध्यो द्विदोषजः ||१४||

सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः |१५|

श्लोक  15-17

परिणामशूलस्य निदानपूर्वकं लक्षणम्

स्वैर्निदानैः प्रकुपितो वायुः सन्निहितस्तदा ||१५||

कफपित्ते समावृत्य शूलकारी भवेद्बली |
भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् ||१६||

तस्य लक्षणमप्येतत् समासेनाभिधीयते |१७|

श्लोक  17-21

परिणामशूलस्य वातादिभेदेन लक्षणानि

आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः ||१७||

स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् |
तृष्णादाहारतिस्वेदं कट्वम्ललवणोत्तरम् ||१८||

शूलं शीतशमप्रायं पैत्तिकं लक्षयेद्बुधः |
छर्दिहृल्लाससम्मोहं स्वल्परुग्दीर्घसन्तति ||१९||

कटुतिक्तोपशान्तं च तच्च ज्ञेयं कफात्मकम् |
संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् ||२०||

त्रिदोषजमसाध्यं तु क्षीणमांसबलानलम् |२१|

श्लोक  21-22

अन्नद्रवशूललक्षणम्

जीर्णे जीर्यत्यजीर्णे वा यच्छूलमुपजायते ||२१||

पथ्यापथ्यप्रयोगेण भोजनभोजनन च |
न शमं याति नियमात् सोऽन्नद्रव उदाहृतः ||२२||

(अन्नद्रवाख्यशूलेषु न तावत् स्वास्थ्यमश्नुते |
वान्तमात्रे जरत्पित्तं शूलमाशु व्यपोहति) ||१||

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने  शूलपरिणामशूलान्नद्रवशूलनिदानं समाप्तम् ||२६||