स्नेहोपयौगिकचिकित्सितम्

श्लोक 1-2

अथातः स्नेहोपयौगिकचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

स्नेहसारोऽयं पुरुषः, प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्च भवन्ति |
स्नेहो हि पानानुवासनमस्तिष्कशिरोबस्त्युत्तरबस्तिनस्यकर्णपूरण-गात्राभ्यङ्गभोजनेषूपयोज्यः ||३||

श्लोक 4

तत्र द्वियोनिश्चतुर्विकल्पोऽभिहितः स्नेहः स्नेहगुणाश्च |
तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं, स्थावरेभ्यस्तिलतैलं प्रधानमिति ||४||

श्लोक 5

अत ऊर्ध्वं यथाप्रयोजनं यथाप्रधानं च स्थावरस्नेहानुपदेक्ष्यामः-तत्र  तिल्वकैरण्डकोशाम्रदन्तीद्रवन्तीसप्तलाशङ्खिनीपलाशविषाणि-कागवाक्षीकम्पिल्लकशम्पाकनीलिनीस्नेहा विरेचयन्ति,  जीमूतककुटजकृतवेधनेक्ष्वाकुधामार्गवमदनस्नेहा वामयन्ति,  विडङ्गखरमञ्जरीमधुशिग्रुसूर्यवल्लीपीलुसिद्धार्थकज्योतिष्मतीस्नेहाः  शिरो विरेचयन्ति,  करञ्जपूतीककृतमालमातुलुङ्गेङ्गुदीकिराततिक्तकस्नेहा  दुष्टव्रणेषूपयुज्यन्ते, तुवरककपित्थकम्पिल्लकभल्लातकपटोलस्नेहा  महाव्याधिषु, त्रपुसैर्वारुककर्कारुकतुम्बीकूष्माण्डस्नेहा मूत्रसङ्गेषु,  कपोतवङ्कावल्गुजहरीतकीस्नेहाः शर्कराश्मरीषु,  कुसुम्भसर्षपातसीपिचुमर्दातिमुक्तकभाण्डीकटुतुम्बीकटभीस्नेहाः  प्रमेहेषु,  तालनारिकेलपनसमोचप्रियालबिल्वमधूकश्लेष्मातकाम्रातकफलस्नेहाः पित्तसंसृष्टे वायौ, बिभीतकभल्लातकपिण्डीतकस्नेहाः कृष्णीकरणे,  श्रवणकङ्गुकटुण्टुकस्नेहाः पाण्डूकरणे,  सरलपीतदारुशिंशपागुरुसारस्नेहा दद्रुकुष्ठकिटिभेषु, सर्व एव स्नेहा  वातमुपघ्नन्ति, तैलगुणाश्च समासेन व्याख्याताः ||५||

श्लोक 6

अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः |
तत्र केचिदाहुः-त्वक्पत्रफलमूलादीनां भागस्तच्चतुर्गुणं जलं  चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहप्रसृतेषु  षट्सु चतुर्गुणं द्रवमावाप्य चतुरश्चाक्षसमान् भेषजपिण्डानित्येष  स्नेहपाककल्पः |
एतत्तु न सम्यक्; कस्मात्? आगमासिद्धत्वात् ||६||

श्लोक 7

पलकुडवादीनामतो मानं तु व्याख्यास्यामः-तत्र द्वादश धान्यमाषा  मध्यमाः सुवर्णमाषकः, ते षोडश सुवर्णम्; अथवामध्यमनिष्पावा  एकोनविंशतिर्धरणं, तान्यर्धतृतीयानि कर्षः; ततश्चोर्ध्वं  चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते,  तुला पुनः पलशतं, ताः पुनर्विंशतिर्भारः; शुष्काणामिदं मानम्,  आर्द्रद्रवाणां च द्विगुणमिति ||७||

श्लोक 8

तत्रान्यतमपरिमाणसम्मितानां यथायोगं  त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन  वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष कषायपाककल्पः |
स्नेहाच्चतुर्गुणो द्रवः, स्नेहचतुर्थांशो भेषजकल्कः, तदैकध्यं संसृज्य  विपचेदित्येष स्नेहपाककल्पः |
अथवा तत्रोदकद्रोणे त्वक्पत्रफलमूलादीनां तुलामावाप्य चतुर्भागावशिष्टंनिष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहकुडवे भेषजपलं पिष्टं  कल्कं चतुर्गुणं द्रवमावाप्य विपचेदित्येष स्नेहपाककल्पः ||८||

श्लोक 9-10

भवतश्चात्र-
स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम् |
तत्रायं विधिरास्थेयो निर्दिष्टे तद्वदेव तु ||९||

अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतम् |
कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत् ||१०||

श्लोक 11

अत ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः |
स तु त्रिविधः; तद्यथा- मृदुः, मध्यमः, खर इति |
तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति, मधूच्छिष्टमिव  विशदमविलेपि यत्र भेषजं स मध्यमः, कृष्णमवसन्नमीषद्विशदं  चिक्कणं च यत्र भेषजं स खर इति; अत ऊर्ध्वं दग्धस्नेहो भवति, तं पुनः साधु साधयेत् |
तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्यङ्गयोर्मध्यमः, बस्तिकर्णपूरणयोस्तु खर इति ||११||

श्लोक 12-13

भवतश्चात्र-
शब्दस्योपरमे प्राप्ते फेनस्योपशमे तथा |
गन्धवर्णरसादीनां सम्पत्तौ सिद्धिमादिशेत् ||१२||

घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक् |
फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ||१३||

श्लोक 14

अत ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामः- अथ खलु लघुकोष्ठायातुराय  कृतमङ्गलस्वस्तिवाचनायोदयगिरिशिखरसंस्थिते  प्रतप्तकनकनिकरपीतलोहिते सवितरि यथाबलं तैलस्य घृतस्य वा  मात्रां पातुं प्रयच्छेत् |
पीतमात्रे चोष्णोदकेनोपस्पृश्य सोपानत्को यथासुखं विहरेत् ||१४||

श्लोक 15-18

रूक्षक्षतविषार्तानां वातपित्तविकारिणाम् |
हीनमेधास्मृतीनां च सर्पिःपानं प्रशस्यते ||१५||

कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः |
पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनश्च ये ||१६||

व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः |
महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः ||१७||

क्रूराशयाः क्लेशसहा वातार्ता दीप्तवह्नयः |
मज्जानमाप्नुयुः सर्वे सर्पिर्वा स्वौषधान्वितम् ||१८||

श्लोक 19

केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् |
देयं बहुकफे चापि व्योषक्षारसमायुतम् ||१९||

श्लोक 20

दोषाणामल्पभूयस्त्वं संसर्गं समवेक्ष्य च |
युञ्ज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः ||२०||

श्लोक 21

स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले |
अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम् ||२१||

श्लोक 22

शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि |
वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा ||२२||

श्लोक 23

वातपित्ताधिकस्योष्णे तृण्मूर्च्छोन्मादकारकः |
शीते वातकफार्तस्य गौरवारुचिशूलकृत् ||२३||

श्लोक 24-25

स्नेहपीतस्य चेत्तृष्णा पिबेदुष्णोदकं नरः |
एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत् ||२४||

दिह्याच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत् |२५|

श्लोक 25-30

या मात्रा परिजीर्येत चतुर्भागगतेऽहनि ||२५||

सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता |
या मात्रा परिजीर्येत तथाऽर्धदिवसे गते ||२६||

सा वृष्या बृंहणी या च मध्यदोषे च पूजिता |
या मात्रा परिजीर्येत चतुर्भागावशेषिते ||२७||

स्नेहनीया च सा मात्रा बहुदोषे च पूजिता |
या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि ||२८||

ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत् अहोरात्रादसन्दुष्टा या मात्रा परीजीर्यति ||२९||

सा तु कुष्ठविषोन्मादग्रहापस्मारनाशिनी |३०|

श्लोक 30-33

यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः ||३०||

पीतो ह्यतिबहुः स्नेहो जनयेत् प्राणसंशयम् |
मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति ||३१||

विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत् |
ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने |
जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत् ||३२||

तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा |
स्युः पच्यमाने तृड्दाहभ्रमसादारतिक्लमाः ||३३||

श्लोक 34-35

परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम् |
यवागूं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम् ||३४||

देयौ यूषरसौ वाऽपि सुगन्धी स्नेहवर्जितौ |
कृतौ वाऽत्यल्पसर्पिष्कौ विलेपी वा विधीयते ||३५||

श्लोक 36

पिबेत्त्र्यहं चतुरहं पञ्चाहं षडहं तथा |
सप्तरात्रात् परं स्नेहः सात्म्यीभवति सेवितः ||३६||

श्लोक 37

सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा |
तृष्णार्तमुष्णकाले च सह भक्तेन पाययेत् ||३७||

श्लोक 38-44

पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः |
पीतमैकध्यमेतद्धि सद्यःस्नेहनमुच्यते ||३८||

भृष्टा मांसरसे स्निग्धा यवागूः सूपकल्पिता |
प्रक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते ||३९||

सर्पिष्मती पयःसिद्धा यवागूः स्वल्पतण्डुला |
सुखोष्णा सेव्यमाना तु सद्यःस्नेहनमुच्यते ||४०||

पिप्पल्यो लवणं सर्पिस्तिलपिष्टं वराहजा |
वसा च पीतमैकध्यं सद्यःस्नेहनमुच्यते ||४१||

शर्कराचूर्णसंसृष्टे दोहनस्थे घृते तु गाम् |
दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यःस्नेहनमुच्यते ||४२||

यवकोलकुलत्थानां क्वाथो मागधिकान्वितः |
पयो दधि सुरा चेति घृतमप्यष्टमं भवेत् ||४३||

सिद्धमेतैर्घृतं पीतं सद्यःस्नेहनमुत्तमम् |
राज्ञे राजसमेभ्यो वा देयमेतद्धृतोत्तमम् ||४४||

श्लोक 45

बलहीनेषु वृद्धेषु मृद्वग्निस्त्रीहतात्मसु |
अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः ||४५||

श्लोक 46-51

विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी |
दुर्बलोऽरोचकी स्थूलो मूर्च्छार्तो मदपीडितः ||४६||

छर्द्यर्दितः पिपासार्तः श्रान्तः पानक्लमान्वितः |
दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ||४७||

अकाले दुर्दिने चैव न च स्नेहं पिबेन्नरः |
अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ||४८||

स्नेहपानाद्भवन्त्येषां नॄणां नानाविधा गदाः |
गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः ||४९||

गर्भाशयेऽवशेषाः स्यू रक्तक्लेदमलास्ततः |
स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च ||५०||

दशरात्रात्ततः स्नेहं यथावदवचारयेत् |५१|

श्लोक 51-52

पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते ||५१||

उरो विदहते वायुः कोष्ठादुपरि धावति |
दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः ||५२||

श्लोक 53

सुस्निग्धा त्वग्विट्शैथिल्यं दीप्तोऽग्निर्मृदुगात्रता |
ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहदर्शनम् |
सम्यक्स्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव च ||५३||

श्लोक 54

भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका |
पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लक्षणम् ||५४||

श्लोक 55

रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम् |
श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ||५५||

श्लोक 56

दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः |
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी रुषो भवेत्तु ||५६||

श्लोक 57

स्नेहो हितो दुर्बलवह्निदेहसन्धुक्षणे व्याधिनिपीडितस्य |
बलान्वितौ भोजनदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ ||५७||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगिकचिकित्सितं नामैकत्रिंशत्तमोऽध्यायः ||३१||