युक्तसेनीयाध्यायः

श्लोक 1-2

अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-4

नृपतेर्युक्तसेनस्य परानभिजिगीषतः |
भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ||३||

विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः |
रक्षितव्यो विशेषेण विषादेव नराधिपः ||४||

श्लोक 5

पन्थानमुदकं छायां भक्तं यवसमिन्धनम् |
दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा ||५||

श्लोक 6

तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते |६|

श्लोक 6-7

एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते ||६||

तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः |७|

श्लोक 7-8

दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ||७||

रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ |८|

श्लोक 8-9

ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत ||८||

पुरोहितमते तस्माद्वर्तेत भिषगात्मवान् |९|

श्लोक 9-10

सङ्करः सर्ववर्णानां प्रणाशो धर्मकर्मणाम् ||९||

प्रजानामपि चोच्छित्तिर्नृपव्यसनहेतुतः |१०|

श्लोक 10-12

पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता ||१०||

आज्ञा त्यागः क्षमा धैर्यं विक्रमश्चाप्यमानुषः |
तस्माद्देवमिवाभीक्ष्णं वाङ्मनःकर्मभिः शुभैः ||११||

चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः |१२|

श्लोक 12-15

स्कन्धावारे च महति राजगेहादनन्तरम् ||१२||

भवेत्सन्निहितो वैद्यः सर्वोपकरणान्वितः |
तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् ||१३||

उपसर्पन्त्यमोहेन विषशल्यामयार्दिताः |
स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्वबहिष्कृतः ||१४||

वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः |१५|

श्लोक 15-17

वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः ||१५||

एते पादाश्चिकित्सायाः कर्मसाधनहेतवः |
गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् ||१६||

व्याधिमल्पेन कालेन महान्तमपि साधयेत् |१७|

श्लोक 17-18

वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः ||१७||

उद्गातृहोतृब्रह्माणो यथाऽध्वर्युं विनाऽध्वरे |१८|

श्लोक 18-19

वैद्यस्तु गुणवानेकस्तारयेदातुरां सदा ||१८||

प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि |१९|

श्लोक 19-21

तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयङ्कृती ||१९||

लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः |
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ||२०||

सत्यधर्मपरो यश्च स भिषक् पाद उच्यते |२१|

श्लोक 21-22

आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि ||२१||

आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते |२२|

श्लोक 22-23

प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् ||२२||

युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् |
दोषघ्नमग्लानिकरमविकारि विपर्यये |
समीक्ष्य दत्तं काले च भेषजं पाद उच्यते ||२३||

श्लोक 24

स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे |
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ||२४||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने युक्तसेनीयो नाम चतुस्त्रिंशत्तमोऽध्यायः  ||३४||