श्लोक 1-2
अथातः कुष्ठनिदानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
सप्त द्रव्याणि कुष्ठानां प्रकृतिर्विकृतिमापन्नानि [१] भवन्ति।
तद्यथा- त्रयो दोषा वातपित्तश्लेष्माणः प्रकोपणविकृताः, दूष्याश्च शरीरधातवस्त्वमांसशोणितलसीकाश्चतुर्धा [२] दोषोपघातविकृता इति|
एतत् सप्तानां सप्तधातुकमेवङ्गतमाजननं कुष्ठानाम्, अतःप्रभवाण्यभिनिर्वर्तमानानि केवलं शरीरमुपतपन्ति ||३||
श्लोक 4
न च किञ्चिदस्ति कुष्ठमेकदोषप्रकोपनिमित्तम्, अस्ति तु खलु समानप्रकृतीनामपि कुष्ठानां दोषांशांशविकल्पानुबन्धस्थानविभागेन वेदनावर्णसंस्थानप्रभावनामचिकित्सितविशेषः।
स सप्तविधोऽष्टादशविधोऽपरिसङ्ख्येयविधो वा भवति । दोषा हि विकल्पनैर्विकल्प्यमाना विकल्पयन्ति विकारान्,
अन्यत्रासाध्यभावात् |
तेषां विकल्पविकारसङ्ख्यानेऽतिप्रसङ्गमभिसमीक्ष्य सप्तविधमेव कुष्ठविशेषमुपदेक्ष्यामः||४||
श्लोक 5
इह वातादिषु त्रिषु प्रकुपितेषु त्वगादींश्चतुरः प्रदूषयत्सु वातेऽधिकतरे कपालकुष्ठमभिनिर्वर्तते, पित्ते त्वौदुम्बरं, श्लेष्मणि मण्डलकुष्ठं, वातपित्तयोरृष्यजिह्वं, पित्तश्लेष्मणोः पुण्डरीकं, श्लेष्ममारुतयोः सिध्मकुष्ठं, सर्वदोषाभिवृद्धौ काकणकमभिनिर्वर्तते; एवमेष सप्तविधः कुष्ठविशेषो भवति |
स [१] चैष भूयस्तरतमतः प्रकृतौ विकल्प्यमानायां भूयसीं विकारविकल्पसङ्ख्यामापद्यते||५||
श्लोक 6
तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्यामः- शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासं,
मधुफाणितमत्स्यलकुचमूलककाकमाचीः सततमतिमात्रमजीर्णे च
समश्नतः, चिलिचिमं च पयसा, हायनकयवकचीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायामसन्तापानत्युपसेवमानस्य, भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतः, विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः, छर्दिं च प्रतिघ्नतः, स्नेहांश्चातिचरतः, त्रयो दोषाः युगपत् प्रकोपमापद्यन्ते; त्वगादयश्चत्वारः शैथिल्यमापद्यन्ते; तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठमानास्तानेव त्वगादीन् दूषयन्तः
कुष्ठान्यभिनिर्वर्तयन्ति||६||
श्लोक 7
तेषामिमानि पूर्वरूपाणि भवन्ति; तद्यथा- अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णता वैवर्ण्यं कण्डूर्निस्तोदः सुप्तता परिदाहः परिहर्षो लोमहर्षः खरत्वमूष्मायणं गौरवं श्वयथुर्वीसर्पागमनमभीक्ष्णं च काये कायच्छिद्रेषूपदेहः पक्वदग्धदष्टभग्नक्षतोपस्खलितेष्वतिमात्रं वेदना स्वल्पानामपि च व्रणानां दुष्टिरसंरोहणं चेति||७||
श्लोक 8
ततोऽनन्तरं कुष्ठान्यभिनिर्वर्तन्ते, तेषामिदं वेदनावर्णसंस्थानप्रभावनामविशेषविज्ञानं भवति; तद्यथा- रूक्षारुणपरुषाणि विषमविसृतानि खरपर्यन्तानि तनून्युद्वृत्तबहिस्तनूनि [१] सुप्तवत्सुप्तानि [२] हृषितलोमाचितानि
निस्तोदबहुलान्यल्पकण्डूदाहपूयलसीकान्याशुगतिसमुत्थाना
न्याशुभेदीनि जन्तुमन्ति कृष्णारुणकपालवर्णानि च कपालकुष्ठानीति विद्यात्(१); ताम्राणि ताम्रखररोमराजीभिरवनद्धानि बहलान बहुबहलपूयरक्तलसीकानि
कण्डूक्लेदकोथदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि
ससन्तापक्रिमीणि पक्वोदुम्बरफलवर्णान्यौदुम्बरकुष्ठानीति विद्यात्(२); स्निग्धानि गुरूण्युत्सेधवन्ति श्लक्ष्णस्थिरपीतपर्यन्तानि [३] शुक्लरक्तावभासानि शुक्लरोमराजीसन्तानानि बहुबहल शुक्लपिच्छिलस्रावीणि [४] बहुक्लेदकण्डूक्रिमीणि सक्तगतिसमुत्थानभेदीनि परिमण्डलानि मण्डलकुष्ठानि विद्यात्(३); परुषाण्यरुणवर्णानि बहिरन्तः श्यावानि
नीलपीतताम्रावभासान्याशुगतिसमुत्थानान्यल्पकण्डूक्लेदक्रि मीणि दाहभेदनिस्तोद(पाक) बहुला शूकोपहतोपमवेदनान्युत्सन्नमध्यानि तनुपर्यन्तानि कर्कशपिडकाचितानि दीर्घपरिमण्डलान्यृष्यजिह्वाकृतीनि ऋष्यजिह्वानीति विद्यात् (४); शुक्लरक्तावभासानि रक्तपर्यन्तानि रक्तराजीसिरासन्ततान्युत्सेधवन्ति बहुबहलरक्तपूयलसीकानि
कण्डूक्रिमिदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि
पुण्डरीकपलाशसङ्काशानि पुण्डरीकाणीति विद्यात् (५); परुषारुणानि [५] विशीर्णबहिस्तनून्यन्तःस्निग्धानि शुक्लरक्तावभासानि
बहून्यल्पवेदनान्यल्पकण्डूदाहपूयलसीकानि
लघुसमुत्थानान्यल्पभेदक्रिमीण्यलाबुपुष्पसङ्काशानि सिध्मकुष्ठानीति विद्यात् (६); काकणन्तिकावर्णान्यादौ पश्चात्तु सर्वकुष्ठलिङ्गसमन्वितानि पापीयसा [६] सर्वकुष्ठलिङ्गसम्भवेनानेकवर्णानि काकणानीति विद्यात् | तान्यसाध्यानि, साध्यानि पुनरितराणि||८||
श्लोक 9
तत्र यदसाध्यं तदसाध्यतां नातिवर्तते, साध्यं पुनः किञ्चित् साध्यतामतिवर्तते कदाचिदपचारात्।
साध्यानि हि षट् काकणकवर्ज्यान्यचिकित्स्यमानान्यपचारतो वा दोषैरभिष्यन्दमानान्यसाध्यतामुपयान्ति||९||
श्लोक 10-11
साध्यानामपि ह्युपेक्ष्यमाणानां त्वङ्गांसशोणितलसीकाकोथक्लेदसंस्वेदजाः
क्रिमयोऽभिमूर्च्छन्ति; ते भक्षयन्तस्त्वगादीन् दोषाः [१] पुनर्दूषयन्त इमानुपद्रवान् पृथक् पृथगुत्पादयन्ति तत्र वातः श्यावारुणवर्णं परुषतामपि च रौक्ष्यशूलशोषतोदवेपथुहर्षसङ्कोचायासस्तम्भसुप्तिभेदभङ्गान्, पित्तं दाहस्वेदक्लेदकोथस्रावपाकरागान्, श्लेष्मा त्वस्य श्वैत्यशैत्यकण्डूस्थैर्यगौरवोत्सेधोपस्नेहोपलेपान्, क्रिमयस्तु त्वगादींश्चतुरः सिराः स्नायूश्चास्थीन्यपि च तरुणान्याददते [२] ||१०||
अस्यां चैवावस्थायामुपद्रवाः कुष्ठिनं स्पृशन्ति; तद्यथा- प्रस्रवणमङ्गभेदः पतनान्यङ्गावयवानां तृष्णाज्वरातीसारदाहदौर्बल्यारोचकाविपाकाश्च, तथाविधमसाध्यं विद्यादिति ||११||
श्लोक 12-16
भवन्ति चात्र – साध्योऽयमिति यः पूर्वं नरो रोगमुपेक्षते। स किञ्चित्कालमासाद्य मृत एवावबुध्यते ||१२||
यस्तु प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा । भेषजं कुरुते सम्यक् स चिरं सुखमश्नुते||१३||
यथा ह्यल्पेन यत्नेन छिद्यते तरुणस्तरुः| स एवातिप्रवृद्धस्तु छिद्यतेऽतिप्रयत्नतः||१४||
एवमेव विकारोऽपि तरुणः साध्यते सुखम् | विवृद्धः साध्यते कृच्छ्रादसाध्यो वाऽपि जायते||१५||
तत्र श्लोकः- सङ्ख्या द्रव्याणि दोषाश्च हेतवः पूर्वलक्षणम्। रूपाण्युपद्रवाश्चोक्ताः कुष्ठानां कौष्ठिके पृथक् ||१६||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः||५||