अग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानम्

श्लोक 1

वाताद्याधिक्याज्जठरानलस्य चतुर्विधत्वम्

अथाग्निमान्द्याजीर्ण-विसूचिकालसक-विलम्बिकानिदानम् |
मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः |
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ||१||

श्लोक 2-4

विषमाद्यग्निभेदानां कार्यं, समाग्नि-मन्दाग्नि-विषमाग्नि-तीक्ष्णाग्निलक्षणानि च

विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान् |
करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ||२||

समा समाग्नेरशिता मात्रा सम्यग्विपच्यते |
स्वल्पाऽपि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ||३||

कदाचित् पच्यते सम्यक्कदाचिन्न विपच्यते |
मात्राऽतिमात्राऽप्यशिता सुखं यस्य विपच्यते |
तीक्ष्णाग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते ||४||

श्लोक 5-6

अजीर्णभेदाः

आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः |
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ||५||

(सु. सू. अ. ४६) |
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च |
वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ||६||

श्लोक 7-9

अजीर्णनिदानम्

अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च |
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||७||

ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन |
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ||८||

(सु. सू. अ. ४६) |
मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति |
चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः ||९||
(च. वि. अ. २) |

श्लोक 10-13

आमाजीर्ण-विदग्धाजीर्ण-विष्टब्धाजीर्ण-रसशेषाजीर्णलक्षणानि

तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः |
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्तते ||१०||

विदग्धे भ्रमतृण्मूर्छाः पित्ताच्च विविधा रुजः |
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते ||११||

विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः |
मलवाताप्रवृत्तिश्च स्तम्भो मोहाऽङ्गपीडनम् ||१२||

रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे |१३|

श्लोक 13

अजीर्णोपद्रवाः

मूर्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः |
उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ||१३||
(सु. सू. अ. ४६) |

श्लोक 14

अजीर्णकारणेष्वतिमात्रभोजनस्य विशेषकारणत्वम्

अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः |
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ||१४||

श्लोक 15

अजीर्णेभ्यो विसूच्यादिसम्भवः

अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् |
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ||१५||
(सु. उ. तं. अ. ५६) |

श्लोक 16-17

विसूचिकानिरुक्ति

सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः |
यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते ||१६||

न तां परिमिताहारा लभन्ते विदितागमाः |
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः ||१७||
(सु. उ. तं. अ. ५६) |

श्लोक 18

विसूचिकालक्षणम्

मूर्छाऽतिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः |
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ||१८||
(सु. उ. तं. अ. ५६) |

श्लोक 19-20

अलसकलक्षणम्

कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति |
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति ||१९||

वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि |
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु ||२०||
(सु. उ. तं. अ. ५६) |

श्लोक 21

विलम्बिकालक्षणम्

दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य |
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ||२१||
(सु. उ. तं. अ. ५६) |

श्लोक 22

अजीर्णजन्यस्यामस्य कार्यान्तरम्

यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः |
दोषेण येनावततं शरीरं तल्लक्षणैरामसमुद्भवैश्च ||२२||
(सु. उ. तं. अ. ५६) |

श्लोक 23

विसूच्यलसकयोरसाध्यलक्षणम्

यः श्यावदन्तौष्ठनखोऽल्पसञ्ज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः |
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ||२३||
(सु. उ. तं. अ. ५६) |

श्लोक 24-27

जीर्णाहारलक्षणं, विसूचिकाया उपद्रवाः, सामान्याजीर्णलक्षणं च

उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः |
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ||२४||

निद्रानाशोऽरतिः कम्पो मूत्राघातो विसञ्ज्ञता |
अमी ह्युपद्रवा घोरा विसूच्यां पञ्च दारुणाः ||२५||

प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम् |
तन्मूलो रोगसङ्घातस्तद्विनाशाद्विनश्यति ||२६||

ग्लानिगौरवविष्टम्भभ्रममारुतमूढताः |
विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् ||२७||

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदानेऽग्निमान्द्याजीर्णविसूचिका-लसकविलम्बिकानिदानं समाप्तम् ||६||