अग्रोपहरणीयाध्यायः

श्लोक 1-2

अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

त्रिविधं कर्म- पूर्वकर्म, प्रधानकर्म, पश्चात्कर्मेति; तद्व्याधिं प्रत्युपदेक्ष्यामः ||३||

श्लोक 4

अस्य तु शास्त्रस्य शस्त्रकर्मप्राधान्याच्छस्त्रकर्मैव तावत्  पूर्वमुपदेक्ष्यामस्तत्सम्भारांश्च ||४||

श्लोक 5

तच्च शस्त्रकर्माऽष्टविधं; तद्यथा-छेद्यं, भेद्यं, लेख्यं, वेध्यम्, एष्यम्, आहार्यं, विस्राव्यं, सीव्यमिति ||५||

श्लोक 6

अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोपकल्पयितव्यानि भवन्ति,  तद्यथा-यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्बवौष्ठपिचुप्रोतसूत्रपत्रपट्टम-धुघृतवसापयस्तैल-तर्पणकषायालेपनकल्कव्यजनशीतोष्णोदककटाहादीनि, परिकर्मिणश्च  स्निग्धाः स्थिरा बलवन्तः ||६||

श्लोक 7

ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान्  भिषजश्चार्चयित्वा, कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं  प्राङ्मुखमातुरमुपवेश्य , यन्त्रयित्वा , प्रत्यङ्मुखो वैद्यो  मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन्, अनुलोमं शस्त्रं  निदध्यादापूयदर्शनात् , सकृदेवापहरेच्छस्त्रमाशु च; महत्स्वपि च पाकेषु  द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ||७||

श्लोक 8

तत्रायतो विशालः समः सुविभक्तो निराश्रय इति व्रणगुणाः ||८||

श्लोक 9

भवतश्चात्र-
आयतश्च विशालश्च सुविभक्तो निराश्रयः |
प्राप्तकालकृतश्चापि व्रणः कर्मणि शस्यते ||९||

श्लोक 10

शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथु |
असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते ||१०||

श्लोक 11-12

एकेन वा व्रणेनाशुध्यमाने नाऽन्तरा बुद्ध्याऽवेक्ष्यापरान् व्रणान् कुर्यात्  ||११||

भवति चात्र-
यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च |
तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति ||१२||

श्लोक 13-15

तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तिर्यक् छेद  उक्तः ||१३||

(चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् |
अर्धचन्द्राकृतींश्चापि गुदे मेढ्रे च बुद्धिमान्) ||१४||

अन्यथा तु सिरास्नायुच्छेदनम्, अतिमात्रं वेदना, चिराद्व्रणसंरोहो, मांसकन्दीप्रादुर्भावश्चेति ||१५||

श्लोक 16

मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ||१६||

श्लोक 17

ततः शस्त्रमवचार्य,शीताभिरद्भिरातुरमाश्वास्य, समन्तात् परिपीड्याङ्गुल्या,व्रणमभिमृद्य(ज्य), प्रक्षाल्य कषायेण प्रोतेनोदकमादाय ,तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात्; ततः  कल्केनाच्छाद्य, घनां कवलिकां दत्त्वा, वस्त्रपट्टेन बध्नीयात्;  वेदनारक्षोघ्नैर्धूपैर्धूपयेत्, रक्षोघ्नैश्च मन्त्रै रक्षां कुर्वीत ||१७||

श्लोक 18

ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रविमिश्रैराज्ययु-क्तैर्धूपयेत् |
आज्यशेषेण चास्य प्राणान् समालभेत ||१८||

श्लोक 19-33

उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म कुर्यात्; तद्वक्ष्यामः- ||१९||

कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च |
रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् ||२०||

नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः |
अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ||२१||

पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः |
दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ||२२||

पान्तु त्वां मुनयो ब्राह्मया दिव्या राजर्षयस्तथा |
पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः ||२३||

अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च |
सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु ||२४||

उदानं विद्युतः पान्तु समानं स्तनयित्नवः |
बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ||२५||

कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रोऽभिरक्षतु |
प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ||२६||

चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः |
नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ||२७||

रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा |
आकाशं खानि ते पान्तु देहं तव वसुन्धरा ||२८||

वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् |
पौरुषं पुरुषश्रेष्ठो ब्रह्माऽऽत्मानं ध्रुवो भ्रुवौ ||२९||

एता देहे विशेषेण तव नित्या हि देवताः |
एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ||३०||

स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् |
(स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ) |
स्वस्त्यग्निश्चौव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ||३१||

पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव |
ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ||३२||

इति स्वाहा |
एतैर्वेदात्मकैर्मन्त्रैः कृत्याव्याधिविनाशनैः |
मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ||३३||

श्लोक 34

ततः कृतरक्षमातुरमागारं प्रवेश्य, आचारिकमादिशेत् ||३४||

श्लोक 35

ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्रपट्टेन; न चैनं  त्वरमाणोऽपरेद्युर्मोक्षयेत् ||३५||

श्लोक 36

द्वितीयदिवसपरिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति, तीव्ररुजश्च  भवति ||३६||

श्लोक 37

अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचारान्  विदध्यात् ||३७||

श्लोक 38

न चैनं त्वरमाणः सान्तर्दोषं रोपयेत्; स ह्यल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गं  कृत्वा भूयोऽपि विकरोति ||३८||

श्लोक 39

भवन्ति चात्र-
तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् |
रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् |
हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसम्भवात् ||३९||

श्लोक 40

हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् |
त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ||४०||

श्लोक 41

अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् |
प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ||४१||

श्लोक 42

या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः |
धृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेना ||४२||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थानेऽग्रोपहरणीयो नाम पञ्चमोऽध्यायः ||५||
error: Content is protected !!