श्लोक 1-2
अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
तिक्तकद्रुमपत्राणां कार्यः क्वाथोऽवसेचने |३|
श्लोक 3-5
सुरा सौवीरकं कुष्ठं हरितालं मनःशिला ||३||
तथा सर्जरसश्चैव तैलार्थमुपदिश्यते |
पिप्पल्यः पिप्पलीमूलं वर्गो मधुरको मधु ||४||
शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते |५|
श्लोक 5
सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः ||५||
श्लोक 6
पुरीषं कौक्कुटं केशांश्चर्म सर्पत्वचं तथा |
जीर्णां च भिक्षुसङ्घाटीं धूमनायोपकल्पयेत् ||६||
श्लोक 7-9
कुक्कुटीं मर्कटीं शिम्बीमनन्तां चापि धारयेत् |
मांसमामं तथा पक्वं शोणितं च चतुष्पथे ||७||
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः |
शिशोश्च स्नपनं कुर्यात् सर्वगन्धोदकैः शुभैः ||८||
कराला पिङ्गला मुण्डा कषायाम्बरवासिनी |
देवी बालमिमं प्रीता संरक्षत्वन्धपूतना ||९||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेऽन्धपूतनाप्रतिषेधो नाम (सप्तमोऽध्यायः, आदितः) त्रयस्त्रिंशोऽध्यायः ||३३||