
शलोक 1-2
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
शलोक 3
धन्वन्तरिमभिवाद्य सुश्रुत उवाच-प्रागभिहितः ‘प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च, स षट्सु रसेष्वायत्तः, रसाः पुनर्द्रव्याश्रयिणः,’ द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च, ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः, आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च, तथा ह्याहारवैषम्यादस्वास्थ्यं; तस्याशितपीतलीढखादितस्य नानाद्रव्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथग्द्रव्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं, न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः; आहारायत्ताश्च सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवानित्युक्तः प्रोवाच भगवान् धन्वन्तरिः-अथ खलु वत्स सुश्रुत! यथाप्रश्नमुच्यमानमुपधारयस्व- ||३||
शलोक 4
तत्र, लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पा-ण्डकपुण्डरीकमहाशालिशीतभीरुकरोध्रपुष्पक-दीर्घशूककाञ्चनकमहिषमहाशूकहायनकदूषकमहादूषकप्रभृतयः शालयः ||४||
शलोक 5
मधुरा वीर्यतः शीता लघुपाका बलावहाः |
पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ||५||
शलोक 6-7
तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः |
चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ||६||
व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः |७|
शलोक 7
तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ||७||
शलोक 8-9
षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहा-षष्टिकचूर्णककुरवककेदारप्रभृतयः षष्टिकाः ||८||
रसे पाके च मधुराः शमना वातपित्तयोः |
शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ||९||
शलोक 10-11
षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः |
मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्बलवर्धनः ||१०||
विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः |११|
शलोक 11
शेषास्त्वल्पान्तरास्तस्मात् षष्टिकाः क्रमशो गुणैः ||११||
शलोक 12
कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरितककुक्कुटा-ण्डकपारावतकपाटलप्रभृतयो व्रीहयः ||१२||
शलोक 13
कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः |
अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः ||१३||
शलोक 14
कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः |
तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे ||१४||
शलोक 15
दग्धायामवनौ जाताः शालयो लघुपाकिनः |
कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः ||१५||
शलोक 16
स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः |
किञ्चित्सतिक्तमधुराः पवनानलवर्धनाः ||१६||
शलोक 17
कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः |
ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ||१७||
शलोक 18
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः |
अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ||१८||
शलोक 19
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः |
तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः ||१९||
शलोक 20
विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः |२०|
इति शालिवर्गः |
शलोक 20
अथ कुधान्यवर्गः |
तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते ||२०||
शलोक 21
कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकान-न्दीमुखी-कुरुविन्दगवेधुकसरबरुकतोद(य)पर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः ||२१||
शलोक 22-23
उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः |
श्लेष्मघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः ||२२||
कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः |
कोद्रवश्च सनीवारः श्यामाकश्च सशान्तनुः ||२३||
शलोक 24
कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः |
यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः ||२४||
शलोक 25
मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा |२५|
शलोक 25
विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः ||२५||
शलोक 26
रूक्षा वेणुयवा ज्ञेया वीर्योष्णा कटुपाकिनः |
बद्धमूत्राः कफहराः कषाया वातकोपनाः ||२६||
शलोक 27
मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वा-ढकीप्रभृतयो वैदलाः ||२७||
शलोक 28
कषायमधुराः शीताः कटुपाका मरुत्कराः |
बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ||२८||
शलोक 29
नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः |
प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः ||२९||
शलोक 30
विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः |३०|
शलोक 30
मकुष्ठकाः कृमिकराः… |३०|
शलोक 30
… कलायाः प्रचुरानिलाः ||३०||
शलोक 31
आढकी कफपित्तघ्नी नातिवातप्रकोपणी |३१|
शलोक 31-32
वातलाः शीतमधुराः सकषाया विरूक्षणाः ||३१||
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः |
त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ||३२||
शलोक 33
हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः |३३|
शलोक 33
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ||३३||
शलोक 34
माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः |
सन्तर्पणः स्तन्यकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ||३४||
शलोक 35
कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता |
स्वादुर्विपाके मधुरोऽलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ||३५||
शलोक 36
माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव |३६|
शलोक 36
आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ||३६||
शलोक 37
उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः |
शुक्राश्मरीगुल्मनिषूदनश्च साङ्ग्राहिकः पीनसकासहन्ता ||३७||
शलोक 38
आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च |
कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ||३८||
शलोक 39-40
ईषत्कषायो मधुरः सतिक्तः साङ्ग्राहिकः पित्तकरस्तथोष्णः |
तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणे लेपन एव पथ्यः ||३९||
दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथ केश्योऽनिलहा गुरुश्च |४०|
शलोक 40
तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथाऽन्ये ||४०||
श्लोक 41-42
यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी |
व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ||४१||
स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च |
मेदोमरुत्तृड्हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ||४२||
श्लोक 43
एभिर्गुणैर्हीनतरैस्तु किञ्चिद्विद्याद्यवेभ्योऽतियवानशेषैः |४३|
श्लोक 43-44
गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ||४३||
स्निग्धोऽतिशीतोऽनिलपित्तहन्ता सन्धानकृच्छ्लेष्मकरः सरश्च |४४|
श्लोक 44-45
रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ||४४||
कटुर्विपाके मधुरस्तु शिम्बः प्रभिन्नविण्मारुतपित्तलश्च |४५|
श्लोक 45-46
सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ||४५||
यथादितस्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च |४६|
श्लोक 46-47
सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ||४६||
ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च |४७|
श्लोक 47-48
विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ||४७||
रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः |४८|
श्लोक 48-50
कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः ||४८||
उष्णाऽतसी स्वादुरसाऽनिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके |
पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ||४९||
तीक्ष्णोष्णरूक्षः कफमारुतघ्नस्तथागुणश्चासितसर्षपोऽपि |५०|
श्लोक 50
अनार्तवं व्याधिहतमपर्यागतमेव च |
अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ||५०||
श्लोक 51
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् |५१|
श्लोक 51
विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ||५१||
श्लोक 52
शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः |
कालप्रमाणसंस्कारमात्राः सम्परिकीर्तिताः ||५२||
इति कुधान्यवर्गः |
श्लोक 53
अथ मांसवर्गः |
अत ऊर्ध्वं मांसवर्गानुपदेक्ष्यामः; तद्यथा-जलेशया, आनूपा, ग्राम्याः, क्रव्यभुज, एकशफा, जाङ्गलाश्चेति षण्मांसवर्गा भवन्ति |
एतेषां वर्गाणामुत्तरोत्तरा प्रधानतमाः |
ते पुनर्द्विविधा जाङ्गला आनूपाश्चेति |
तत्र जाङ्गलवर्गोऽष्टविधः |
तद्यथा- जङ्घाला, विष्किराः, प्रतुदा, गुहाशयाः, प्रसहाः, पर्णमृगा, बिलेशया, ग्राम्याश्चेति |
तेषां जङ्घालविष्किरौ प्रधानतमौ ||५३||
श्लोक 54
तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृग-मातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ||५४||
श्लोक 55
कषायमधुरो हृद्यः पित्तासृक्कफरोगहा |
सङ्ग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ||५५||
श्लोक 56
मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः |
शीतलो बद्धविण्मूत्र सुगन्धिर्हरिणो लघुः ||५६||
श्लोक 57
एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते |
यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ||५७||
श्लोक 58
शीताऽसृक्पित्तशमनी विज्ञेया मृगमातृका |
सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ||५८||
श्लोक 59-60
लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकचकोरकल-विङ्कमयूरक्रकरोपचक्र-कुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहक यवालकप्रभृतयस्त्र्याहला विष्किराः ||५९||
लघवः शीतमधुराः कषाया दोषनाशनाः |६०|
श्लोक 60
सङ्ग्राही दीपनश्चैव कषायमधुरो लघुः |
लावः कटुविपाकश्च सन्निपाते तु पूजितः ||६०||
श्लोक 61-63
ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्धनः |
तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ||६१||
रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः |
कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ||६२||
हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः |६३|
श्लोक 63-64
वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ||६३||
लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः |६४|
श्लोक 64-65
कषायः स्वादुलवणस्त्वच्यः केश्योऽरुचौ हितः ||६४||
मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियदार्ढ्यकृत् |६५|
श्लोक 65-66
स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ||६५||
बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः |
वातरोगक्षयवमीविषमज्वरनाशनः ||६६||
श्लोक 67
कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेड-कडिण्डिमाणवकशतपत्रक-मातृनिन्दकभेदाशिशुकसारिकावल्गु लीगिरिशालट्वालट्टूषकसुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः प्रतुदाः ||६७||
श्लोक 68
कषायमधुरा रूक्षाः फलाहारा मरुत्कराः |
पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ||६८||
श्लोक 69
सर्वदोषकरस्तेषां भेदाशी मलदूषकः |६९|
श्लोक 69
कषायस्वादुलवणो गुरुः काणकपोतकः ||६९||
श्लोक 70
रक्तपित्तप्रशमनः कषायविशदोऽपि च |
विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ||७०||
श्लोक 71
कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः |७१|
श्लोक 71
रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ||७१||
श्लोक 72
सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः ||७२||
श्लोक 73
मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः |
उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ||७३||
श्लोक 74
काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ||७४||
श्लोक 75
एते सिंहादिभिः सर्वे समाना वायसादयः |
रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ||७५||
श्लोक 76
मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ||७६||
श्लोक 77
मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः |
सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ||७७||