श्लोक 78
श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रिय-काजगरसर्पमूषिकनकुलमहाबभ्रुप्रभृतयो बिलेशयाः ||७८||
श्लोक 79
वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः |
वातं हन्युः श्लेष्मपित्ते च कुर्युः स्निग्धाः कासश्वासकार्श्यापहाश्च ||७९||
श्लोक 80
कषायमधुरस्तेषां शशः पित्तकफापहः |
नातिशीतलवीर्यत्वाद्वातसाधारणो मतः ||८०||
श्लोक 81-84
गोधा विपाके मधुरा कषायकटुका स्मृता |
वातपित्तप्रशमनी बृंहणी बलवर्धनी ||८१||
शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः |
प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः ||८२||
दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः |
चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्धनाः ||८३||
दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः |
मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ||८४||
श्लोक 85
अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदःपुच्छकप्रभृतयो ग्राम्याः ||८५||
श्लोक 86
ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः |
मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ||८६||
श्लोक 87
नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः |
छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ||८७||
श्लोक 88
बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु |८८|
श्लोक 88
मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ||८८||
श्लोक 89
श्वासकासप्रतिश्यायविषमज्वरनाशनम् |
श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ||८९||
श्लोक 90
औरभ्रवत्सलवणं मांसमेकशफोद्भवम् |९०|
श्लोक 90
अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ||९०||
श्लोक 91-92
दूरे जनान्तनिलया दूरे पानीयगोचराः |
ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ||९१||
अतीवासन्ननिलयाः समीपोदकगोचराः |
ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ||९२||
श्लोक 93
आनूपवर्गस्तु पञ्चविधः |
तद्यथा- कूलचराः, प्लवाः, कोषस्थाः, पादिनो, मत्स्याश्चेति ||९३||
श्लोक 94
तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखड्गिगोकर्णकाल-पुच्छकोद्रन्यङ्क्वरण्यगवयप्रभृतयः कूलचराः पशवः ||९४||
श्लोक 95
वातपित्तहरा वृष्या मधुरा रसपाकयोः |
शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनः ||९५||
श्लोक 96-97
विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः |
स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ||९६||
गवयस्य तु मांसं हि स्निग्धं मधुरकासजित् |
विपाके मधुरं चापि व्यवायस्य तु वर्धनम् ||९७||
श्लोक 98
स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः |
निद्रापुंस्त्वबलस्तन्यवर्धनो मांसदार्ढ्यकृत् ||९८||
श्लोक 99-104
रुरोर्मांसं समधुरं कषायानुरसं स्मृतम् |
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ||९९||
तथा चमरमांसं तु स्निग्धं मधुरकासजित् |
विपाके मधुरं चापि वातपित्तप्रणाशनम् ||१००||
सृमरस्य तु मांसं च कषायानुरसं स्मृतम् |
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ||१०१||
स्वेदनं बृंहणं वृष्यं शीतलं तर्पणं गुरु |
श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम् ||१०२||
कफघ्नं खड्गिपिशितं कषायमनिलापहम् |
पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ||१०३||
गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम् |
विपाके मधुरं चापि रक्तपित्तविनाशनम् ||१०४||
श्लोक 105
हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापुण्डरीकप्लवशरारीमुख-नन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्ला क्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयः प्लवाः सङ्घातचारिणः ||१०५||
श्लोक 106
रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः |
सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ||१०६||
श्लोक 107
गुरूष्णमधुरः स्निग्धः स्वरवर्णबलप्रदः |
बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत् ||१०७||
श्लोक 108
शङ्खशङ्खनकशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः ||१०८||
श्लोक 109
कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः ||१०९||
श्लोक 110
शङ्खकूर्मादयः स्वादुरसपाका मरुन्नुदः |
शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः ||११०||
श्लोक 111
कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः |
शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा ||१११||
श्लोक 112
मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च ||११२||
श्लोक 113
तत्र नादेयाः-रोहितपाठीनपाटलाराजीववर्मिगोमत्स्यकृष्णमत्स्यवागुञ्जा-रमुरलसहस्रदंष्ट्रप्रभृतयः ||११३||
श्लोक 114
नादेया मधुरा मत्स्या गुरवो मारुतापहाः |
रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः ||११४||
श्लोक 115
कषायानुरसस्तेषां शष्पशैवालभोजनः |
रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ||११५||
श्लोक 116
पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः |
दूषयेद्रक्तपित्तं तु कुष्ठरोगं करोत्यसौ |
मुरलो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ||११६||
श्लोक 117
सरस्तडागसम्भूताः स्निग्धाः स्वादुरसाः स्मृताः |
महाह्रदेषु बलिनः, स्वल्पेऽम्भस्यबलाः स्मृताः ||११७||
श्लोक 118
तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलनन्दिवार(रु)लकमकरग-र्गरचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः ||११८||
श्लोक 119-120
सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः |
उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः ||११९||
बलावहा विशेषेण मांसाशित्वात् समुद्रजाः |१२०|
श्लोक 120-121
समुद्रजेभ्यो नादेया बृंहणत्वाद्गुणोत्तराः ||१२०||
तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ |
स्निग्धत्वात् स्वादुपाकत्वात्तयोर्वाप्या गुणाधिकाः ||१२१||
श्लोक 122-125
नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः |
सरस्तडागजानां तु विशेषेण शिरो लघु ||१२२||
अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः |
किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते ||१२३||
अधस्ताद्गुरवो ज्ञेया मत्स्याः सागरसम्भवाः |
उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् ||१२४||
इत्यानूपो महाष्यन्दी मांसवर्ग उदीरितः ||१२५||
श्लोक 126
तत्र शुष्कपूतिव्याधिविषसर्पहतदिग्धविद्धजीर्णकृशबालानामसात्म्यचारिणां च मांसान्यभक्ष्याणि, यस्माद्विगतव्यापन्नापहतपरिणताल्पासम्पूर्णवीर्यत्वाद्दोषकराणि भवन्ति; एभ्योऽन्येषामुपादेयं मांसमिति ||१२६||
श्लोक 127-128
अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम् |
विषव्याधिहतं मृत्युं बालं छर्दिं च कोपयेत् ||१२७||
कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम् |
क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् ||१२८||
श्लोक 129
स्त्रियश्चतुष्पात्सु, पुमांसो विहङ्गेषु, महाशरीरेष्वल्पशरीराः, अल्पशरीरेषु महाशरीराः, प्रधानतमाः; एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराःप्रधानतमाः ||१२९||
श्लोक 130-133
स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः |
तद्यथा-रक्तादिषु शुक्रान्तेषु धातुषूत्तरोत्तरा गुरुतराः, तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकालेयकयकृदन्त्राणि ||१३०||
शिरःस्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः |
गुरु पूर्वं विजानीयाद्धातवस्तु यथोत्तरम् ||१३१||
सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः |
पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् ||१३२||
उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् |
पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् ||१३३||
श्लोक 134-135
अतीव रूक्षं मांसं तु विहङ्गानां फलाशिनाम् |
बृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम् ||१३४||
मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिनाम् |१३५|
श्लोक 135-136
जलजानूपजा ग्राम्या क्रच्यादैकशफास्तथा ||१३५||
प्रसहा बिलवासाश्च ये च जङ्घालसञ्ज्ञिताः |
प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम् |
अल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा ||१३६||
श्लोक 137
प्रामाणाधिकास्तु स्वजातावल्पसारा गुरवश्च |
सर्वप्राणिनां सर्वशरीरेभ्यः प्रधानतमा भवन्ति यकृत्प्रदेशवर्तिनस्तानाददीत; प्रधानालाभे मध्यमवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति ||१३७||
श्लोक 138
भवति चात्र-
चरः शरीरावयवाः स्वभावो धातवः क्रिया |
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ||१३८||
इति मांसवर्गः |
श्लोक 139
अथ फलवर्गः |
अत ऊर्ध्वं फलान्युपदेक्ष्यामः |
तद्यथा-दाडिमामलकबदरकोलकर्कन्धुसौवीरसिञ्चितिकाफलकपित्थ-मातुलुङ्गाम्राम्रातककरमर्दप्रियालनारङ्ग-जम्बीरलकुचभव्यपारावतवेत्र-फलप्राचीनामलकतिन्तिडीकनीपकोशाम्राम्लीकाप्रभृतीनि ||१३९||
श्लोक 140
अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः |
पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणि च ||१४०||
श्लोक 141-142
कषायानुरसं तेषां दाडिमं नातिपित्तलम् |
दीपनीयं रुचिकरं हृद्यं वर्चोविबन्धनम् ||१४१||
द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च |
त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् ||१४२||
श्लोक 143-148
अम्लं समधुरं तिक्तं कषायं कटुकं सरम् |
चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम् ||१४३||
हन्ति वातं तदम्लत्वात् पित्तं माधुर्यशैत्यतः |
कफं रूक्षकषायत्वात् फलेभ्योऽभ्यधिकं च तत् ||१४४||
कर्कन्धुकोलबदरमामं पित्तकफावहम् |
पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् ||१४५||
पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु |
सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् ||१४६||
कषायं स्वादु सङ्ग्राहि शीतं सिञ्चितिकाफलम् |
आमं कपित्थमस्वर्यं कफघ्नं ग्राहि वातलम् ||१४७||
कफानिलहरं पक्वं मधुराम्लरसं गुरु |
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ||१४८||
श्लोक 149-152
लघ्वम्लं दीपनं हृद्यं मातुलुङ्गमुदाहृतम् |
त्वक् तिक्ता दुर्जरा तस्य वातक्रिमिकफापहा ||१४९||
स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित् |
मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ||१५०||
दीपनं लघु सङ्ग्राहि गुल्मार्शोघ्नं तु केसरम् |
शूलाजीर्णविबन्धेषु मन्देऽग्नौ कफमारुते ||१५१||
अरुचौ च विशेषेण रसस्तस्योपदिश्यते |१५२|
श्लोक 152-155
पित्तानिलकरं बालं पित्तलं बद्धकेसरम् ||१५२||
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् |
कषायानुरसं स्वादु वातघ्नं बृंहणं गुरु ||१५३||
पित्ताविरोधि सम्पक्वमाम्रं शुक्रविवर्धनम् |
बृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्यति ||१५४||
आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्धनम् |१५५|
श्लोक 155
त्रिदोषविष्टम्भकरं लकुचं शुक्रनाशनम् ||१५५||
श्लोक 156-162
अम्लं तृषापहं रुच्यं पित्तकृत् करमर्दकम् |
वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् ||१५६||
हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम् |
पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् ||१५७||
पारावतं समधुरं रुच्यमत्यग्निवातनुत् |
गरदोषहरं नीपं प्राचीनामलकं तथा ||१५८||
वातापहं तिन्तिडीकमामं पित्तबलासकृत् |
ग्राह्युष्णं दीपनं रुच्यं सम्पक्वं कफवातनुत् ||१५९||
तस्मादल्पान्तरगुणं कोशाम्रफलमुच्यते |
अम्लीकायाः फलं पक्वं तद्वद्भेदि तु केवलम् ||१६०||
अम्लं समधुरं हृद्यं विशदं भक्तरोचनम् |
वातघ्नं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु ||१६१||
तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम् |
वातश्लेष्मविबन्धघ्नं जम्बीरं गुरु पित्तकृत् |
ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ||१६२||
श्लोक 163
क्षीरवृक्षफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्म-न्तकाश्वकर्णफल्गु- परूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि ||१६३||
श्लोक 164
फलान्येतानि शीतानि कफपित्तहराणि च |
सङ्ग्राहकाणि रूक्षाणि कषायमधुराणि च ||१६४||
श्लोक 165-176
क्षीरवृक्षफलं तेषां गुरु विष्टम्भि शीतलम् |
कषायं मधुरं साम्लं नातिमारुतकोपनम् ||१६५||
अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित् |
स्निग्धं स्वादु कषायं च राजादनफलं गुरु ||१६६||
कषायं मधुरं रूक्षं तोदनं कफवातजित् |
अम्लोष्णं लघु सङ्ग्राहि स्निग्धं पित्ताग्निवर्धनम् ||१६७||
आमं कषायं सङ्ग्राहि तिन्दुकं वातकोपनम् |
विपाके गुरु सम्पक्वं मधुरं कफपित्तजित् ||१६८||
मधुरं च कषायं च स्निग्धं सङ्ग्राहि बाकुलम् |
स्थिरीकरं च दन्तानां विशदं फलमुच्यते ||१६९||
सकषायं हिमं स्वादु धान्वनं कफवातजित् |
तद्वद्गाङ्गेरुकं विद्यादश्मन्तकफलानि च ||१७०||
विष्टम्भि मधुरं स्निग्धं फल्गुजं तर्पणं गुरु |
अत्यम्लमीषन्मधुरं कषायानुरसं लघु ||१७१||
वातघ्नं पित्तजनमामं विद्यात् परुषकम् |
तदेव पक्वं मधुरं वातपित्तनिबर्हणम् ||१७२||
विपाके मधुरं शीतं रक्तपित्तप्रसादनम् |
पौष्करं स्वादु विष्टम्भि बल्यं कफकरं फलम् ||१७३||
कफानिलहरं तीक्ष्णं स्निग्धं सङ्ग्राहि दीपनम् |
कटुतिक्तकषायोष्णं बालं बिल्वमुदाहृतम् ||१७४||
विद्यात्तदेव सम्पक्वं मधुरानुरसं गुरु |
विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ||१७५||
बिम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित् |
तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् ||१७६||
श्लोक 177
तालनालिकेरपनसमोचप्रभृतीनि ||१७७||
श्लोक 178
स्वादुपाकरसान्याहुर्वातपित्तहराणि च |
बलप्रदानि स्निग्धानि बृंहणानि हिमानि च ||१७८||
श्लोक 179-181
फलं स्वादुरसं तेषां तालजं गुरु पित्तजित् |
तद्बीजं स्वादुपाकं तु मूत्रलं वातपित्तजित् ||१७९||
नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् |
बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधनम् ||१८०||
पनसं सकषायं तु स्निग्धं स्वादुरसं गुरु |
मौचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम् |
रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु ||१८१||
श्लोक 182
द्राक्षाकाश्मर्यमधूकपुष्पखर्जूरप्रभृतीनि ||१८२||
श्लोक 183
रक्तपित्तहराण्याहुर्गुरूणि मधुराणि च |१८३|
श्लोक 183-186
तेषां द्राक्षा सरा स्वर्या मधुरा स्निग्धशीतला ||१८३||
रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा |
हृद्यं मूत्रविबन्धघ्नं पित्तासृग्वातनाशनम् ||१८४||
केश्यं रसायनं मेध्यं काश्मर्यं फलमुच्यते |
क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ||१८५||
रसे पाके च मधुरं खार्जूरं रक्तपित्तनुत् |
बृंहणीयमहृद्यं च मधूककुसुमं गुरु |
वातपित्तोपशमनं फलं तस्योपदिश्यते ||१८६||
श्लोक 187
वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि ||१८७||
श्लोक 188
पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च |
बृंहणान्यनिलघ्नानि बल्यानि मधुराणि च ||१८८||
श्लोक 189
कषायं कफपित्तघ्नं किञ्चित्तिक्तं रुचिप्रदम् |
हृद्यं सुगन्धि विशदं लवलीफलमुच्यते ||१८९||
श्लोक 190-191
वसिरं शीतपाक्यं च सारुष्करनिबन्धनम् |
विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् ||१९०||
विपाके मधुरं चापि रक्तपित्तप्रसादनन् |१९१|
श्लोक 191-193
ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ||१९१||
शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु |
स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम् ||१९२||
शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् |
गुरु श्लेष्मातकफलं कफकृन्मधुरं हिमम् ||१९३||
श्लोक 194
करीराक्षिकपीलूनि तृणशून्यफलानि च |
स्वादुतिक्तकटूष्णानि कफवातहराणि च ||१९४||
श्लोक 195
तिक्तं पिन्त्तकरं तेषां सरं कटुविपाकि च |
तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् ||१९५||
श्लोक 196
आरुष्करं तौवरकं कषायं कटुपाकि च |
उष्णं कृमिज्वरानाहमेहोदावर्तनाशनम् |
कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च ||१९६||
श्लोक 197-198
करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् |
अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् ||१९७||
रूक्षोष्णं कटुकं पाके लघु वातकफापहम् |
तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् ||१९८||
श्लोक 199
व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत् |
कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् ||१९९||
श्लोक 200
भेदनं लघु रूक्षोष्णं वैस्वर्यक्रिमिनाशनम् |
चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् ||२००||
श्लोक 201
कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम् |
कषायमीषन्मधुरं किञ्चित् पूगफलं सरम् ||२०१||
श्लोक 202-203
जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम् |
कक्को(ङ्को)लकं लवङ्गं च तिक्तं कटु कफापहम् ||२०२||
लघु तृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम् |२०३|
श्लोक 203-204
सतिक्तः सुरभिः शीतः कर्पूरो लघु लेखनः ||२०३||
तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः |२०४|
श्लोक 204
लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी ||२०४||
श्लोक 205-207
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः |
बैभीतको मदकरः कफमारुतनाशनः ||२०५||
कषायमधुरो मज्जा कोलानां पित्तनाशनः |
तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च ||२०६||
बीजपूरकशम्याकमज्जा कोशाम्रसम्भवः |
स्वादुपाकोऽग्निबलदः स्निग्धः पित्तानिलापहः ||२०७||
श्लोक 208
यस्य यस्य फलस्येह वीर्यं भवति यादृशम् |
तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ||२०८||
श्लोक 209
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् |
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम् |
ग्राह्युष्णं दीपनं तद्धि कषायकटुतिक्तकम् ||२०९||
श्लोक 210
व्याधितं कृमिजुष्टं च पाकातीतमकालजम् |
वर्जनीयं फलं सर्वमपर्यागतमेव च ||२१०||
इति फलवर्गः |
श्लोक 211
अथ शाकवर्गः |
शाकान्यत ऊर्ध्वं वक्ष्यामः |
तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि ||२११||
श्लोक 212
पित्तघ्नान्यनिलं कुर्युस्तथा मन्दकफानि च |
सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च ||२१२||
श्लोक 213-215
पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम् |
शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् ||२१३||
सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम् |
दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् ||२१४||
अलाबुर्भिन्नविट्का तु रूक्षा गुर्व्यतिशीतला |
तिक्तालाबुरहृद्या तु वामिनी वातपित्तजित् ||२१५||
श्लोक 216
त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि ||२१६||
श्लोक 217
स्वादुतिक्तरसान्याहुः कफवातकराणि च |
सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च ||२१७||
श्लोक 218-219
बालं सनीलं त्रपुसं तेषां पित्तहरं स्मृतम् |
तत्पाण्डु कफकृज्जीर्णमम्लं वातकफापहम् ||२१८||
एर्वारुकं सकर्कारु सम्पक्वं कफवातकृत् |
सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ||२१९||
श्लोक 220
सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम् |
भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ||२२०||
श्लोक 221
पिप्पलीमरिचशृङ्गवेरार्द्रकहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुर-सार्जकभूस्तृणसुगन्धक-कासमर्दककालमालकुठेरकक्षवकखरपुष्पशि-ग्रुमधुशिग्रुफणिज्झकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिलपर्णिका-वर्षाभूचित्रकमूलकलशुनकलायपलाण्डुप्रभृतीनि ||२२१||
श्लोक 222
कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च |
कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा ||२२२||
श्लोक 223
तेषां गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा |
शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी ||२२३||
श्लोक 224-225
स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रसेकि च |
कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् ||२२४||
नात्युष्णं नातिशीतं च वीर्यतो मरिचं सितम् |
गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः ||२२५||
श्लोक 226-228
नागरं कफवातघ्नं विपाके मधुरं कटु |
वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ||२२६||
कफानिलहरं स्वर्यं विबन्धानाहशूलनुत् |
कटूष्णं रोचनं हृद्यं वृष्यं चैवार्द्रकं स्मृतम् ||२२७||
लघूष्णं पाचनं हिङ्गु दीपनं कफवातजित् |
कटु स्निग्धं सरं तीक्ष्णं शूलाजीर्णविबन्धनुत् ||२२८||
श्लोक 229-230
तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्धनम् |
कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् ||२२९||
कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका |२३०|
श्लोक 230-232
भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता ||२३०||
आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम् |
सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशनी ||२३१||
दोषघ्नी कटुका किञ्चित् तिक्ता स्रोतोविशोधनी |२३२|
श्लोक 232-237
जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः ||२३२||
सुराभिर्दीपनो रुच्यो मुखवैशद्यकारकः |
कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ||२३३||
पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः |
तद्वत्तु सुमुखो ज्ञेयो विशेषाद्गरनाशनः ||२३४||
कफघ्ना लघवो रूक्षास्तीक्ष्णोष्णाः पित्तवर्धनाः |
कटुपाकरसाश्चैव सुरसार्जकभूस्तृणाः ||२३५||
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः |
विशेषतः पित्तहरः सतिक्तः कासमर्दकः ||२३६||
कटुः सक्षारमधुरः शिग्रुस्तिक्तोऽथ पिच्छिलः |
मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः ||२३७||
श्लोक 238-239
विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च |
त्रिदोषं सार्षपं शाकं गाण्डीरं वेगनाम च ||२३८||
चित्रकस्तिलपर्णी च कफशोफहरे लघू |
वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् ||२३९||
श्लोक 240-242
कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी |
सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका ||२४०||
महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् |
तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् ||२४१||
त्रिदोषशमनं शुष्कं विषदोषहरं लघु |
विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् ||२४२||
श्लोक 243
पुष्पं च पत्रं च फलं तथैव यथोत्तरं ते गुरवः प्रदिष्टाः |
तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ तु ||२४३||
श्लोक 244-248
स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः |
वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः ||२४४||
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् |
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ||२४५||
नात्युष्णवीर्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च |
बलावहः पित्तकरोऽथ किञ्चित् पलाण्डुरग्निं च विवर्धयेत्तु ||२४६||
स्निग्धो रुचिष्यः स्थिरधातुकारी बल्योऽथ मेधाकफपुष्टिदश्च |
स्वादुर्गुरुः शोणितपित्तशस्तः सपिच्छिलः क्षीरपलाण्डुरुक्तः ||२४७||
कलायशाकं पित्तघ्नं कफघ्नं वातलं गुरु |
कषायानुरसं चैव विपाके मधुरं च तत् ||२४८||
श्लोक 249
चुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदी(न्दी)भल्लातकच्छगलान्त्री-वृक्षादनीफञ्जीशाल्मलीशेलुवनस्पतिप्रसवशणकर्बुदारकोविदारप्र-भृतीनि ||२४९||
श्लोक 250
कषायस्वादुतिक्तानि रक्तपित्तहराणि च |
कफघ्नान्यनिलं कुर्युः सङ्ग्राहीणि लघूनि च ||२५०||