अरोचकप्रतिषेधाध्यायः

श्लोक 1-2

अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

दोषैः पृथक् सह च चित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम् |
नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति  ||३||

श्लोक 4

हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु |४|

श्लोक 4

हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव  ||४||

श्लोक 5

कण्डूगुरुत्वकफसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु  |५|

श्लोक 5

सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति  ||५||

श्लोक 6

संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च  |६|

श्लोक 6-7

वाते वचाम्बुवमनं कृतवान् पिबेच्च स्नेहैः सुराभिरथवोष्णजलेन चूर्णम्  ||६||

कृष्णाविडङ्गयवभस्महरेणुभार्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम् |७|

श्लोक 7

पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ||७||

श्लोक 8

निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं  स्यात् |८|

श्लोक 8

चूर्णं यदुक्तमथवाऽनिलजे तदेव… |८|

श्लोक 8

…सर्वैश्च सर्वकृतमेवमुपक्रमेत ||८||

श्लोक 9-11

द्राक्षापटोलविडवेत्रकरीरनिम्बमूर्वाभयाक्षबदरामलकेन्द्रवृक्षैः |
बीजैः करञ्जनृपवृक्षभवैश्च पिष्टैर्लेहं पचेत् सुरभिमूत्रयुतं यथावत् ||९||

मुस्तां वचां त्रिकटुकं रजनीद्वयं च भार्गीं च कुष्ठमथ निर्दहनीं च पिष्ट्वा |
मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा पाठां तुगामतिविषां रजनीं च मुख्याम्  ||१०||

मण्डूकिमर्कममृतां च सलाङ्गलाख्यां मूत्रे पचेत्तु महिषस्य विधानविद्वा |
एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च  ||११||

श्लोक 12

सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान् पानानि  मूलफलषाडवरागयोगान् |अद्याद्रसांश्च विविधान् विविधैः प्रकारैर्भुञ्जीत चापि लघुरूक्षमनःसुखानि||१२||

श्लोक 13

आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि |१३|

श्लोक 13-14

त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि  ||१३||

क्षौद्रायुतानि वितरेन्मुखबोधनार्थ … |१४|

श्लोक 14-15

… मन्यानि तिक्तकटुकानि च भेषजानि |
मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ||१४||

मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्टैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः |१५|

श्लोक 15

स्यादेष एव कफवातहते विधिश्च शान्तिं गते हुतभुजि प्रशमाय तस्य  ||१५||

श्लोक 16-17

इच्छाभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु  शक्यरूपान् |
अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिशतैरनुमानयेत्तम् ||१६||

दैन्यं गते मनसि बोधनमत्र शस्तं यद्यत् प्रियं तदुपसेव्यमरोचके तु ||१७||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते  कायचिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम (एकोनविंशोऽध्यायः,  आदितः) सप्तपञ्चाशत्तमोऽध्यायः ||५७||