अर्शोनिदानम्

श्लोक 1-2

अथातोऽर्शसां निदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

षडर्शांसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेति ||३||

श्लोक 4

तत्रानात्मवतां यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकास-नपृष्ठयानवेगविधारणादिभिर्विशेषैः प्रकुपिता दोषा एकशो द्विशः  समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याधो  गत्वा गुदमागम्य प्रदूष्य गुदवलीर्मांसप्ररोहाञ्जनयन्ति विशेषतो मन्दाग्नेः, तथा तृणकाष्ठोपललोष्ठवस्त्रादिभिः शीतोदकसंस्पर्शनाद्वा कन्दाः  परिवृद्धिमासादयन्ति, तान्यर्शांसीत्याचक्षते ||४||

श्लोक 5-6

तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुः, तस्मिन् वलयस्तिस्रोऽध्यर्धाङ्गुलान्तरसम्भूताः प्रवाहणी विसर्जनी संवरणी चेति चतुरङ्गुलायताः ; सर्वास्तिर्यगेकाङ्गलोच्छ्रिताः ||५||

शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः |
गजतालुनिभाश्चापि वर्णतः सम्प्रकीर्त्तिताः |
रोमान्तेभ्यो यवाध्यर्धो गुदौष्ठः परिकीर्तितः ||६||

श्लोक 7

प्रथमा तु गुदौष्ठादङ्गुलमात्रे ||७||

श्लोक 8

तेषां तु भविष्यतां पूर्वरूपाणि-अन्नेऽश्रद्धा कृच्छ्रात् पक्तिरम्लीका  परिदाहो विष्टम्भः पिपासा सक्थिसदनमाटोपः  कार्श्यमुद्गारबाहुल्यमक्ष्णोः श्वयथुरन्त्रकूजनं गुदपरिकर्तनमाशङ्का  पाण्डुरोगग्रहणीदोषशोषाणां कासश्वासौ बलहानिर्भ्रमस्तन्द्रा  निद्रेन्द्रियदौर्बल्यं च ||८||

श्लोक 9

जातेष्वेतान्येव लक्षणानि प्रव्यक्ततराणि भवन्ति ||९||

श्लोक 10

तत्र मारुतात् परिशुष्कारुणविवर्णानि विषममध्यानि  कदम्बपुष्पतुण्डिकेरीनाडीमुकुलसूचीमुखाकृतीनि च भवन्ति;  तैरुपद्रुतः सशूलं संहतमुपवेश्यते कटीपृष्ठपार्श्वमेढ्रगुदनाभिप्रदेशेषु  चास्य वेदना भवन्ति, गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव  भवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||१०||

श्लोक 11

पित्तान्नीलाग्राणि तनूनि विसर्पीणि पीतावभासानि यकृत्प्रकाशानि  शुकजिह्वासंस्थानानि यवमध्यानि जलौकोवक्रसदृशानि प्रक्लिन्नानि  च भवन्ति; तैरुपद्रुतः सदाहं सरुधिरमतिसार्यते,  ज्वरदाहपिपासामूर्च्छाश्चास्योपद्रवा भवन्ति,  पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||११||

श्लोक 12

श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि  करीरपनसास्थिगोस्तनाकाराणि, न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति; तैरुपद्रुतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्यते, शोफशीतज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येव  भवन्ति, शुक्लत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||१२||

श्लोक 13

रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि  पित्तलक्षणानि च, यदाऽवगाढपुरीषप्रपीडितानि भवन्ति तदाऽत्यर्थं  दुष्टमनल्पमसृक् सहसा विसृजन्ति, तस्य चातिप्रवृत्तौ  शोणितातियोगोपद्रवा भवन्ति ||१३||

श्लोक 14

सन्निपातजानि सर्वदोषलक्षणयुक्तानि ||१४||

श्लोक 15

सहजानि दुष्टशोणितशुक्रनिमित्तानि, तेषां दोषत एव प्रसाधनं कर्त्तव्यम्,विशेषतश्चैतानि दुर्दर्शनानि परुषाणि पांसूनि दारुणान्यन्तर्मुखानि;  तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजः क्षीणरेताः क्षामस्वरःक्रोधनोऽल्पाग्निप्राणः परमलसश्च, तथा घ्राणशिरोऽक्षिनासाश्रवणरोगी, सततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते ||१५||

श्लोक 16

भवति चात्र-
बाह्यमध्यवलिस्थानां प्रतिकुर्याद्भिषग्वरः |
अन्तर्वलिसमुत्थानां प्रत्याख्यायाचरेत् क्रियाम् ||१६||

श्लोक 17

प्रकुपितास्तु दोषा मेढ्रमभिप्रपन्ना मांसशोणिते प्रदूष्य कण्डूं जनयन्ति,  ततः कण्डूयनात् क्षतं समुपजायते, तस्मिंश्च क्षते दुष्टमांसजाः प्ररोहाः  पिच्छिलरुधिरस्राविणो जायन्ते कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा, ते तु  शेफो विनाशयन्त्युपघ्नन्ति च पुंस्त्वं; योनिमभिप्रपन्नाः सुकुमारान्  दुर्गन्धान् पिच्छिलरुधिरस्राविणश्छत्राकारान् करीराञ्जनयन्ति, ते तु  योनिमुपघ्नन्त्यार्तवं च; नाभिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान्  पिच्छिलान् गण्डूपदमुखसदृशान् करीराञ्जनयन्ति; त एवोर्ध्वमागताः  श्रोत्राक्षिघ्राणवदनेष्वर्शांस्युपनिर्वर्तयन्ति; तत्र कर्णजेषु बाधिर्यं शूलं  पूतिकर्णता च, नेत्रजेषु वर्त्मावरोधो वेदना स्रावो दर्शननाशश्च, घ्राणजेषु प्रतिश्यायोऽतिमात्रं क्षवथुः कृच्छ्रोच्छ्वासता पूतिनस्यं  सानुनासिकवाक्यत्वं शिरोदुःखं च; वक्रजेषु  कण्ठौष्ठतालूनामन्यतमस्मिंस्तैर्गद्गदवाक्यता रसाज्ञानं मुखरोगाश्च  भवन्ति ||१७||

श्लोक 18

व्यानस्तु प्रकुपितः श्लेष्माणं परिगृह्य बहिःस्थिराणि कीलवदर्शांसि  निर्वर्तयति, तानि चर्मकीलान्यर्शांसीत्याचक्षते ||१८||

श्लोक 19-20

भवन्ति चात्र-
तेषु कीलेषु निस्तोदो मारुतेनोपजायते |
श्लेष्मणा तु सवर्णत्वं ग्रन्थित्वं च विनिर्दिशेत् ||१९||

पित्तशोणितजं रौक्ष्यं कृष्णत्वं श्लक्ष्णता तथा |
समुदीर्णखरत्वं चर्मकीलस्य लक्षणम् ||२०||

श्लोक 21

अर्शसां लक्षणं व्यासादुक्तं सामान्यतस्तु यत् |
तत्सर्वं प्राग्विनिर्दिष्टात्साधयेद्भिषजां वरः ||२१||

श्लोक 22

अर्शःसु दृश्यते रूपं यदा दोषद्वयस्य तु |
संसर्गं तं विजानीयात् संसर्गः स च षड्विधः ||२२||

श्लोक 23-24

त्रिदोषाण्यल्पलिङ्गानि याप्यानि तु विनिर्दिशेत् |
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च ||२३||

कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च |
सन्निपातसमुत्थानि सहजानि तु वर्जयेत् ||२४||

श्लोक 25-26

सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः |
तैस्तु प्रतिहतो वायुरपानः सन्निवर्तते ||२५||

ततो व्यानेन सङ्गम्य ज्योतिर्मृद्नाति देहिनाम् ||२६||

पुष्पिका

इति सुश्रुतसंहितायां निदानस्थानेऽर्शोनिदानं नाम द्वितीयोऽध्यायः ||२||
error: Content is protected !!