आत्रेयभद्रकाप्यीयोऽध्यायः

श्लोक 1-2

अथात
आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः ||२||

श्लोक 3-7

आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च। पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः||३||
यः कुमारशिरा नाम भरद्वाजः स चानघः। श्रीमान् वार्योविदश्चैव राजा मतिमतां वरः ||४||
निमिश्च राजा वैदेहो बडिशश्च महामतिः । काङ्कायनश्च बाह्लीको बाह्लीकभिषजां वरः||५||
एते श्रुतवयोवृद्धा जितात्मानो महर्षयः । वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ||६||
तेषां तत्रोपविष्टानामियमर्थवती कथा | बभूवार्थविदां सम्यग्रसाहारविनिश्चये||७||

श्लोक 8

एक एव रस इत्युवाच भद्रकाप्यः, यं
पञ्चानामिन्द्रियार्थानामन्यतमं जिह्वावैषयिकं भावमाचक्षते कुशलाः, स पुनरुदकादनन्य इति|
द्वौ रसाविति शाकुन्तेयो ब्राह्मणः, छेदनीय उपशमनीयश्चेति | यो रसा इति पूर्णाक्षो मौद्गल्यः, छेदनीयोपशमनीयसाधारणा इति|
चत्वारो रसा इति हिरण्याक्षः कौशिकः, स्वादुर्हितश्च स्वादुरहितश्चास्वादुर्हितश्चास्वादुरहितश्चेति|
पञ्च रसा इति कुमारशिरा भरद्वाजः,

श्लोक 9

षडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुः, मधुराम्ललवणकटुतिक्तकषायाः |
तेषां [१] षण्णां रसानां योनिरुदकं, छेदनोपशमने द्वे कर्मणी, तयोर्मिश्रीभावात् साधारणत्वं, स्वाद्वस्वादुता भक्तिः [२], हिताहितौ प्रभावौ, पञ्चमहाभूतविकारास्त्वाश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः, तेष्वाश्रयेषु द्रव्यसञ्ज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरूक्षाद्याः; क्षरणात् क्षारः, नासौ रसः द्रव्यं तदनेकरससमुत्पन्नमनेकरसं कटुकलवणभूयिष्ठमनेकेन्द्रियार्थसमन्वितं करणाभिनिर्वृत्तम्; अव्यक्तीभावस्तु [३] खलु रसानां प्रकृतौ भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये; अपरिसङ्ख्येयत्वं पुनस्तेषामाश्रयादीनां भावानां विशेषापरिसङ्ख्येयत्वान्न युक्तम्, एकैकोऽपि ह्येषामाश्रयादीनां भावानां विशेषानाश्रयते विशेषापरिसङ्ख्येयत्वात्, न च तस्मादन्यत्वमुपपद्यते, परस्परसंसृष्टभूयिष्ठत्वान्न
चैषामभिनिर्वृत्तेर्गुणप्रकृतीनामपरिसङ्ख्येयत्वं भवति; तस्मान्न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्तः | तच्चैव कारणमपेक्षमाणाः षण्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्वमुपदेक्ष्यामः ||९||

श्लोक 10

अग्रे तु तावद्द्रव्यभेदमभिप्रेत्य किञ्चिदभिधास्यामः | सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे [१] ; तच्चेतनावदचेतनं च, तस्य गुणाः शब्दादयो गुर्वादयश्च द्रवान्ताः, कर्म पञ्चविधमुक्तं वमनादि ||१०||

श्लोक 11

तत्र द्रव्याणि
गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि
पार्थिवानि [१], तान्युपचयसङ्घातगौरवस्थैर्यकराणि; द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलान्याप्यानि, तान्युपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि; उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलान्याग्नेयानि, तानि दाहपाकप्रभाप्रकाशवर्णकराणि; लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि,
तानि रौक्ष्यग्लानिविचारवैशद्यलाघवकराणि;
मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलान्याकाशात्मकानि तानि मार्दवसौषिर्यलाघवकराणि||११||

श्लोक 12

अनेनोपदेशेन नानौषधिभूतं जगत किञ्चिद्द्रव्यमुपलभ्यते तां तां युक्तिमर्थं च तं तमभिप्रेत्य||१२||

श्लोक 13

न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति; द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाद्द्रव्यगुणप्रभावाच्च तस्मिंस्तस्मिन् काले तत्तदधिकरणमासाद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत् कुर्वन्ति, तत् कर्म; येन कुर्विन्ति, तद्वीर्यं; यत्र कुर्वन्ति, तदधिकरणं; यदा कुर्वन्ति, स कालः, यथा कुर्वन्ति, स उपायः; यत् साधयन्ति, तत् फलम्||१३||

श्लोक 14

भेदश्चैषां त्रिषष्टिविधविकल्पो
द्रव्यदेशकालप्रभावाद्भवति, तमुपदेक्ष्यामः||१४||

श्लोक 15

स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक्।
यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु||१५||

श्लोक 16-17

पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत्।
मधुरस्य तथाऽम्लस्य लवणस्य कटोस्तथा ||१६||
त्रिरसानि यथासङ्ख्यं द्रव्याण्युक्तानि विंशतिः|१७|

श्लोक 17-21

वक्ष्यन्ते [१] तु चतुष्केण द्रव्याणि दश पञ्च च||१७||
स्वाद्वम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ। योगं शेषैः पृथग्यातश्चतुष्करससङ्ख्यया||१८||
सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक्| युक्तौ शेषैः पृथग्योगं यातः स्वादूषणौ तथा||१९||
कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक्। यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा||२०||
युज्यते तु कषायेण सतिक्तौ लवणोषणौ|२१|

श्लोक 21-22

षट् तु पञ्चरसान्याहुरेकैकस्यापवर्जनात्||२१||

षट् चैवैकरसानि स्युरेकं षड्रसमेव तु|२२|

श्लोक 22-23

इति त्रिषष्टिर्द्रव्याणां निर्दिष्टा रससङ्ख्यया ||२२||
त्रिषष्टिः स्यात्त्वसङ्ख्येया रसानुरसकल्पनात् [१] | रसास्तरतमाभ्यां [२] तां सङ्ख्यामतिपतन्ति हि||२३||

श्लोक 24

संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा|
रसानां तत्र योग्यत्वात् [१] कल्पिता रसचिन्तकैः||२४||

श्लोक 25-26

क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित्| दोषौषधादीन् सञ्चिन्त्य भिषजा सिद्धिमिच्छता||२५||
द्रव्याणि द्विरसादीनि संयुक्तांश्च रसान् बुधाः| रसानेकैकशो वाऽपि कल्पयन्ति गदान् प्रति||२६||

श्लोक 27

यः स्याद्रसविकल्पज्ञः स्याच्च दोषविकल्पवित्| न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिषु [१] ||२७||

श्लोक 28

व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते। विपर्ययेणानुरसो रसो नास्ति हि सप्तमः||२८||

श्लोक 29-35

परापरत्वे युक्तिश्च सङ्ख्या संयोग एव च। विभागश्च पृथक्त्वं च परिमाणमथापि च||२९||
संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः। सिद्ध्युपायाश्चिकित्साया लक्षणैस्तान् प्रचक्ष्महे||३०||
देशकालवयोमानपाकवीर्यरसादिषु ।
परापरत्वे, युक्तिश्च योजना या तु युज्यते||३१||
सङ्ख्या स्याद्गणितं योगः सह संयोग उच्यते। द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च||३२||
विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः। पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता||३३||
परिमाणं पुनर्मानं, संस्कारः करणं मतम्। भावाभ्यसनमभ्यासः शीलनं सततक्रिया||३४||
इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः । चिकित्सा यैरविदितैर्न यथावत् प्रवर्तते||३५||

श्लोक 36

गुणा गुणाश्रया नोक्तास्तस्माद्रसगुणान् भिषक्| विद्याद्द्रव्यगुणान् [१] कर्तुरभिप्रायाः पृथग्विधाः||३६||

श्लोक 37

अतश्च प्रकृतं बुद्ध्वा देशकालान्तराणि च| तन्त्रकर्तुरभिप्रायानुपायांश्चार्थमादिशेत् ||३७||

श्लोक 38

षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम्।
षट् पञ्चभूतप्रभवाः सङ्ख्याताश्च यथा रसाः ||३८||

श्लोक 39

सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च, तास्त्वन्तरिक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहाभूतगुणसमन्विता [१] जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति, तासु [२] मूर्तिषु षडभिमूर्च्छन्ति रसाः||३९||

श्लोक 40

तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः,  पृथिव्यग्निभूयिष्ठत्वादम्लः, सलिलाग्निभूयिष्ठत्वाल्लवणः,  वाय्वग्निभूयिष्ठत्वात् कटुकः, वाय्वाकाशातिरिक्तत्वात्तिक्तः,  पवनपृथिवीव्यतिरेकात् कषाय इति|
एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां  भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः; षडृतुकत्वाच्च  कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः||४०||

श्लोक 41

तत्राग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः, लाघवादुत्प्लवनत्वाच्च [१] वायोरूर्ध्वज्वलनत्वाच्च वह्नेः; सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाजः, पृथिव्या गुरुत्वान्निम्नगत्वाच्चोदकस्य; व्यामिश्रात्मकाः पुनरुभयतोभाजः||४१||

श्लोक 42

तेषां षण्णां रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्यामः ||४२||

श्लोक 43(1)

तत्र, मधुरो रसः शरीरसात्म्याद्रसरुधिरमांसमेदोस्थिमज्जौजःशुक्राभिवर्धन आयुष्यः षडिन्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्नस्तृष्णादाहप्रशमनस्त्वच्यः केश्यः कण्ठ्यो बल्यः प्रीणनो जीवनस्तर्पणो बृंहणः स्थैर्यकरः क्षीणक्षतसन्धानकरो घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनो [१] दाहमूर्च्छाप्रशमनः षट्पदपिपीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्दवमालस्यमतिस्वप्नं
गौरवमनन्नाभिलाषमग्नेर्दौर्बल्यमास्यकण्ठयोर्मांसाभिवृद्धिं श्वासकासप्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्यवमथुस ञ्ज्ञास्वरप्रणाशगलगण्डगण्डमालाश्लीपद-
गलशोफबस्तिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दानित्येवम्प्रभृ तीन् कफजान् विकारानुपजनयति (१)|४३|

श्लोक 43(2)

अम्लो रसो भक्तं रोचयति, अग्निं दीपयति, देहं बृंहयति ऊर्जयति, मनो बोधयति, इन्द्रियाणि दृढीकरोति, बलं वर्धयति, वातमनुलोमयति, हृदयं तर्पयति, आस्यमास्रावयति, भुक्तमपकर्षयति क्लेदयति जरयति, प्रीणयति, लघुरुष्णः स्निग्धश्च|
स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति, तर्षयति, सम्मीलयत्यक्षिणी, संवेजयति लोमानि, कफं विलापयति, पित्तमभिवर्धयति, रक्तं दूषयति,मांसं विदहति, कायं शिथिलीकरोति, क्षीणक्षतकृशदुर्बलानां श्वयथुमापादयति, अपि च क्षताभिहतदष्टदग्धभग्नशूनप्रच्युतावमूत्रितपरिसर्पितमर्दि – -तच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात्, परिदहति कण्ठमुरो हृदयं च (२) |४३

श्लोक 43(3)

लवणो रसः पाचनः क्लेदनो दीपनश्च्यावनश्छेदनो भेदनस्तीक्ष्णः सरो विकास्यधःस्रंस्यवकाशकरो [१] वातहरः स्तम्भबन्धसङ्घातविधमनः सर्वरसप्रत्यनीकभूतः, आस्यमास्रावयति, कफं विष्यन्दयति, मार्गान् विशोधयति, सर्वशरीरावयवान् मृदूकरोति, रोचयत्याहारम्,
आहारयोगी, नात्यर्थं गुरुः स्निग्ध उष्णश्च स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानः पित्तं कोपयति, रक्तं वर्धयति, तर्षयति, मूर्च्छयति [२] तापयति, दारयति, कुष्णाति मांसानि प्रगालयति कुष्ठानि, विषं वर्धयति, शोफान् स्फोटयति, दन्तांश्च्यावयति, पुंस्त्वमुपहन्ति, इन्द्रियाण्युपरुणद्भि, वलिपलितखालित्यमापादयति, अपिच
लोहितपित्ताम्लपित्तविसर्पवातरक्तविचर्चिकेन्द्रलुप्तप्रभृती न्विकारानुपजनयति (३)|४३|

श्लोक 43

कटुको रसो वक्त्रं शोधयति, अग्निं दीपयति, भुक्तं शोषयति, प्राणमात्रावयति, चक्षुर्विरेचयति, स्फुटीकरोतीन्द्रियाणि, अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलानुपहन्ति, रोचयत्यशनं, कण्डूर्विनाशयति [१] व्रणानवसादयति, क्रिमीन् हिनस्ति, मांसं विलिखति, शोणितसङ्घातं भिनत्ति, बन्धांश्छिनत्ति, मार्गान् विवृणोति, श्लेष्माणं शमयति, लघुरुष्णो रूक्षश्च |
स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुंस्त्वमुपहन्ति, रसवीर्यप्रभावान्मोहयन्ति, ग्लापयति, सादयति, कर्शयति, मूर्च्छयति, नमयति, तमयति, भ्रमयति, कण्ठं परिदहति, शरीरतापमुपजनयति, बलं क्षिणोति, तृष्णां जनयति -अपि च
वाय्वग्निगुणबाहुल्याद्भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्वपृष्ठप्र भृतिषु मारुतजान् विकारानुपजनयति (४);
तिक्तो रसः स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्नः क्रिमिघ्नो मूर्च्छादाहकण्डूकुष्ठतृष्णाप्रशमनस्त्वमांसयोः स्थिरीकरणो ज्वरघ्नो दीपनः पाचनः स्तन्यशोधनो लेखनः क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोपशोषणो
रूक्षः शीतो लघुश्च
स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविषदस्वभावाच्च
रसरुधिरमांसमेदोस्थिमज्जशुक्राण्युच्छोषयति, स्रोतसां खरत्वमुपपादयति, बलमादत्ते, कर्शयति, ग्लपयति, मोहयति, भ्रमयति, वदनमुपशोषयति, अपरांश्च वातविकारानुपजनयति (4);
कषायो रसः संशमनः सङ्ग्राही सन्धानकरः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च
स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमान आस्यं शोषयति, हृदयं पीडयति, उदरमाध्मापयति, वाचं निगृह्णाति, स्रोतांस्यवबध्नाति, श्पावत्वमापादयति, पुंस्त्वमुपहन्ति, विष्टभ्य जरां गच्छति, यातमूत्रपुरीषरेतांस्यवगृह्णाति, कर्शयति, ग्लपयति, तर्षयति, स्तम्भयति, खरविशदरूक्षत्वात् पक्षवधग्रहापतानकार्दितप्रभृतींश्च वातविकारानुपजनयति ||४३||

श्लोक 44

इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः [१] सम्यगुपयुज्यमाना उपकाराय भवन्त्यध्यात्मलोकस्य, अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः; तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति||४४||

श्लोक 45

भवन्ति चात्र-
शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः। तयोरम्लं यदुष्णं च यद्द्रव्यं कटुकं तयोः||४५||

श्लोक 46-47

तेषां [१] रसोपदेशेन निर्देश्यो गुणसङ्ग्रहः। वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते||४६||
यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ | एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक् ||४७||

श्लोक 48-49

मधुरं [१] किञ्चिदुष्णं स्यात् कषायं तिक्तमेव च। यथा महत्पञ्चमूलं यथाऽब्जानूपमामिषम्||४८||
लवणं [२] सैन्धवं नोष्णमम्लमामलकं तथा| अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते||४९||

श्लोक 50-52

किञ्चिदम्लं हि सङ्ग्राहि किञ्चिदम्लं भिनत्ति च| यथा कपित्थं सङ्ग्राहि भेदि चामलकं तथा||५०||
पिप्पली [१] नागरं वृष्यं कटु चावृष्यमुच्यते। कषायः स्तम्भनः शीतः सोऽभयायामतोऽन्यथा||५१||
तस्माद्रसोपदेशेन [२] न सर्वं द्रव्यामादिशेत्| दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम्||५२||

श्लोक 53-57

रौक्ष्यात् कषायो रूक्षाणामुत्तमो मध्यमः कटुः। तिक्तोऽवरस्तथोष्णानामुष्णत्वाल्लवणः परः||५३||
मध्योऽम्लः कटुकश्चान्त्यः स्निग्धानां मधुरः परः । मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहान्निरुच्यते||५४||
मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः [१] | स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः||५५||
अम्लात् कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तमः। केचिल्लघूनामवरमिच्छन्ति [२] लवणं रसम्||५६||
गौरवे लाघवे चैव [३] सोऽवरस्तूभयोरपि|५७|

श्लोक 57-58

परं [१] चातो विपाकानां लक्षणं सम्प्रवक्ष्यते||५७||
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः। अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा||५८||

श्लोक 59-60

मधुरो लवणाम्लौ च स्निग्धभावात्त्रयो रसाः। वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः||५९||
कटुतिक्तकषायास्तु रूक्षभावात्त्रयो रसाः। दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम्||६०||

श्लोक 61-62

शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः। मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः||६१||
पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः| तेषां गुरुः स्यान्मधुरः कटुकाम्लावतोऽन्यथा||६२||

श्लोक 63

विपाकलक्षणस्याल्पमध्यभूयिष्ठतां [१] प्रति| द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत्||६३||

श्लोक 64-65

मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम्। वीर्यमष्टविधं केचित् केचिद्द्विविधमास्थिताः||६४||
शीतोष्णमिति, वीर्यं तु क्रियते येन या क्रिया | नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता क्रिया||६५||

श्लोक 66

रसो निपाते द्रव्याणां, विपाकः कर्मनिष्ठया| वीर्यं
यावदधीवासान्निपाताच्चोपलभ्यते||६६||

श्लोक 67

रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते।
विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः||६७||

श्लोक 68-73

कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः। तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम् [१] ||६८||
विषं विषघ्नमुक्तं यत् प्रभावस्तत्र [२] कारणम्। ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम्||६९||
मणीनां धारणीयानां कर्म यद्विविधात्मकम्| तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते [३] ||७०||
सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः। किञ्चिद्रसेन [४] कुरुते कर्म वीर्येण चापरम्||७१||
द्रव्यं गुणेन पाकेन प्रभावेण च किञ्चन। रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति||७२||
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्|७३|

श्लोक 73-79

षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम्||७३||
स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते। मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव च||७४||
दन्तहर्षान्मुखास्रावात् स्वेदनान्मुखबोधनात्। विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत् ||७५||
प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे । यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च ||७६||
संवेजयेद्यो रसानां निपाते तुदतीव च। विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः||७७||
प्रतिहन्ति निपाते यो रसनं स्वदते न च।
सतितो मुखवैशद्यशोषप्रह्लादकारकः [१] ||७८||
वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः।
बध्नातीव च यः कण्ठं कषायः स विकास्यपि ||७९||

श्लोक 80

एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच- भगवन्! श्रुतमेतदवितथमर्थसम्पद्युक्तं भगवत यथावद्द्रव्यगुणकर्माधिकारे वचः, परं त्वाहारविकाराणां [१] वैरोधिकानां लक्षणमनतिसङ्क्षेपेणोपदिश्यमानं शुश्रूषामह इति||८०||

श्लोक 81

तमुवाच भगवानात्रेयः- देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते;
परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि||८१||

श्लोक 82-83

तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामः- न मत्स्यान् पयसा सहाभ्यवहरेत्, उभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च ||८२||

तन्निशम्यात्रेयवचनमनु भद्रकाप्योऽग्निवेशमुवाच – सर्वानेव मत्स्यान् पयसा सहाभ्यवहरेदन्यत्रैकस्माच्चिलिचिमात्, स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति, तं चेत् पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति ||८३||

श्लोक 84

नेति भगवानात्रेयः सर्वानिव मत्स्यान पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं स हि महाभिष्यन्दित्वात् स्थूललक्षणतरानेतान् व्याधीनुपजनयत्यामविषमुदीरयति च । ग्राम्यानूपौदकपिशितानि च
मधुतिलगुडपयोमाषमूलकबिसैर्विरुडधान्यैर्वा [१] नैकध्यमद्यात् तन्मूलं हि बाधियन्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यमथवा [२] मरणमाप्नोति।
न पौष्करं रोहिणीक शाकं कपोतान् वा सर्वपतैलभ्रष्टान्मधुपयोभ्यां सहाभ्यवहरेत्, तन्मूलं हि
शोणिताभिष्यन्दधमनीप्रवि(ति)चयापस्मारशङ्खकगलगण्डरोहिणीनाम न्यतमं प्राप्नोत्यथवा मरणमिति |
न मूलकलशुनकृष्णगन्थार्जकसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं, कुष्ठाबाधभयात्।
न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम्, एतद्धि मरणायाथवा बलवर्णतिजोवीर्योपरोधायालघुव्याधये षाण्ड्याय चेति | तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भिः सहोपयोज्यं वैरोधिकत्वात् तथाऽऽम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्र भव्यजा
म्बवकपित्थतिन्तिडीक-
पारावताक्षोडपनसनालिकेरदाडिमामलकान्येवम्प्रकाराणि चान्यानि द्रव्याणि सर्व चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम्
तथा कद्भुवनकमकुष्ठककुलत्थमाषनिष्यावाः [३] पयसा सह विरुद्धाः। पद्मोत्तरिकाशाकं शार्करी मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति ।
हारिद्रकः सर्षपतेलभृष्टो विरुद्धः पित्तं चातिकोपयति । पायसो मन्धानुपानो विरुद्धः श्लेष्माणं चातिकोपयति ।
उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य
बलाका वारुण्या सह कुल्माषैरपि विरुद्धा, सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति ।
मयूरमांसमेरण्डसीसकावसक्तमेरण्डाग्निप्लुष्टमेरण्डतैलयुक्तं सद्यो
व्यापादयति |
हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय |
मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय | मधु चोष्णमुष्णार्तस्य च मधु मरणाय |
मधुसर्पिषी समघृते, मधु वारि चान्तरिक्षं समघृतं मधु पुष्करबीजं, मधु पीत्वोष्णोदकं, भल्लातकोष्णोदकं, तक्रसिद्धः कम्पिल्लकः पर्युषिता काकमाची, अङ्गारशूल्यों भासश्चेति विरुद्धानि |
इत्येतद्यथाप्रश्नमभिनिर्दिष्टं भवतीति||८४||

श्लोक 85

भवन्ति चात्र श्लोकाः-
यत् किञ्चिद्दोषमास्राव्य [१] न निर्हरति कायतः| आहारजातं तत् सर्वमहितायोपपद्यते||८५||

श्लोक 86-101

यच्चापि देशकालाग्निमान्त्रासात्म्यानिलादिभिः ।
संस्कारतो वीर्यत
कोष्ठावस्थाक्रमेरपि॥८६॥
परिहारोपचाराभ्यां पाकात् संयोगतोऽपि च। विरुद्धं तच्च न हितं हृत्सम्पद्विधिभिश्च यत् ||८०||
विरुद्ध देशतस्तावदुक्षतीक्ष्णादि धन्यनि आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते॥८८॥
कालतोऽपि विरुद्धं पच्छीतरूक्षादिसेवनम् | शीते काले तथोष्णे च कटुकोष्णादिसेवनम् ||८९|
विरुद्धमनले तद्वदन्नपानं चतुर्विधे।
मधुसर्पिः समधृतं मात्रया तद्विरुध्यते ||२०||
कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम् | यत्तत् सात्म्यविरुद्धं तु विरुद्धं त्वनिलादिभिः ||२१|
या समानगुणाभ्यासविरुद्धान्न्रीषधक्रिया संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत् ||२२||
एरण्डसीसकासक्तं शिखिमांसं यथैव हि। विरुद्ध वीर्यतो ज्ञेयं दीर्यतः शीतलात्मकम् ||२३||
तत् संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते । क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम् ||१४|
मृदकोष्ठस्य गुरु च भेदनीयं तथा बहु।
एतत् कोष्ठविरुद्धं तु विरुद्धं स्यादवस्थया ||९५||
श्रमव्यवायव्यायामसक्तस्यानिलकोपनम् |
निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ||१६||
गच्चानुत्सृज्य विण्मूत्रं भुङ्क्ते यश्चाबुभुक्षितः | तच्च क्रमविरुद्धं स्याद्यच्चातिक्षुद्वशानुगः ||२०||
परिहारविरुद्धं तु वराहादीनिषेव्य यत् सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते ||१८||
विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम्] अपक्वतण्डुलात्यर्थपक्वदां च यद्भवेत्। संगोगतो विरुद्धं तद्यथाऽम्लं पयसा सह|| ९९||
-अमनोरुचितं पच्च हद्विरुद्धं तदुच्यते। सम्पद्विरुद्धं तद्विद्यादसज्जातरसं तु यत् ||१००||
अतिकान्तरसं वाऽपि विपन्नरसमेव वा।
जो विधिविरुद्धं तु भुज्यते निभूते न यत्। तदेवंविधमन्त्रं स्याद्विरुद्धमुपयोजितम्॥ २०२ ||

श्लोक 102-103

षण्ढ्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगन्दराणाम्। मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव
||१०२||

किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम् [१] | सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति हेतुम्||१०३||

श्लोक 104-106

एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामि भावाः प्रतिकारा [१] भवन्ति।
तद्यथा – वमनं विरेचनं च तद्विरोधिनां च द्रव्याणां संशमनार्थमुपयोगः, तथाविधैश्च द्रव्यैः पूर्वमभिसंस्कारः शरीरस्येति||१०४||

भवतश्चात्र-
विरुद्धाशनजान् [२] रोगान् प्रतिहन्ति विवेचनम्| वमनं शमनं चैव पूर्वं वा हितसेवनम् ||१०५||
सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च| स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ||१०६||

श्लोक 107-113

तत्र श्लोका:-
मतिरासीन्महर्षीणां या या रसविनिश्चये ।
द्रव्याणि गुणकर्मभ्यां द्रव्यसङ्ख्या रसाश्रया ||१०७||
कारणं रससङ्ख्याया रसानुरसलक्षणम्।
परादीनां गुणानां च लक्षणानि पृथक्पृथक् || १०८||
पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना । ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः||१०९||
षण्णां रसानां षट्त्वे च सविभक्ता [१] विभक्तयः। उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि||११०||
प्रवरावरमध्यत्वं रसानां गौरवादिषु ।
पाकप्रभावयोर्लिङ्गं वीर्यसङ्ख्याविनिश्चयः||१११||
षण्णामास्वाद्यमानानां रसानां यत् स्वलक्षणम्। यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ||११२||
वैरोधिकनिमित्तानां व्याधीनामौषधं च यत्। आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः||११३||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम षड्विंशोऽध्यायः ||२६||