आरग्वधीयोऽध्यायः

श्लोक 1-2

अथात आरग्वधीयमध्यायं व्याख्यास्यामः || १ ||
इति ह स्माह भगवानात्रेयः ||२||

श्लोक 3-17

आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे | याह्नः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक् ||३||
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे। फणिज्झको वत्सकसप्तपर्णी पीलूनि कुष्ठं सुमनः प्रवालाः ||४||
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च | मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||५||
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः | सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः ||६||
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदगु भगन्दरार्शास्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||७||
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिगू
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात् ||८||
-तैस्तक्रपिष्टेः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत ।
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति ||९||
कुष्ठामृतासङ्गकटङ्कटे कासीसकम्पिल्लकमुस्तलोध्राः |
सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक् ||१०||
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम् | दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||
मनःशिलाले मरिचानि तैलमार्क पयः कुष्ठहरः प्रदेहः । तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनः शिलं स्यात् || १२ ||
रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः । करञ्जबीजेडगज सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः || १३||
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान् । त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात् || १४ ||
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः । ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन ||१५||
पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन | दवप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय || १६||
पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः। तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च||१७||

श्लोक 18-23

कोलं कुलत्थाः सुरदारुरास्नामाषातसीतैलफलानि कुष्ठम्। वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः ||१८||
आनूपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्। स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्। कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते||२०||
उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च । घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते||२१||
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च| घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||२२||
वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च|२३|

श्लोक 23-29

नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||२३||
प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च । शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च||२४||
रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम्||२५||
शैवालपद्मोत्पलवेत्रतुङ्गप्रपौण्डरीकाण्यमृणाललोध्रम्। प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||२६||
सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा | यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका च||२७||
शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना| शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः ||२८||
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः | पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः||२९||

श्लोक 30

तत्र श्लोकः
इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः । चूर्णप्रदेहान् विविधामयघ्नानारग्वधीये जगतो हितार्थम्||३०||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः||३||