इन्द्रियानीकमिन्द्रियम्

श्लोक 1-2

अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-4

इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्। ज्ञातुमिच्छन् भिषङ्गानमायुषस्तन्निबोधत [१] ||३||
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः।
अद्धा हि विदितं [२] ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||

श्लोक 5-6

स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम् [१] | – आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत्||५||
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्। तदेव तु पुनर्भूयो विस्तरेण निबोधत||६||

श्लोक 7

घनीभूतमिवाकाशमाकाशमिव मेदिनीम् | विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति||७||

श्लोक 8

यस्य दर्शनमायाति मारुतोऽम्बरगोचरः। अग्निर्नायाति चादीप्तस्तस्यायुःक्षयमादिशेत्||८||

श्लोक 9

जले सुविमले जालमजालावतते नरः।
स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते||९||

श्लोक 10

जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च| अन्यद्वाऽप्यद्भुतं किञ्चिन्न [१] स जीवितुमर्हति||१०||

श्लोक 11

योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्।
कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम्||११||

श्लोक 12

मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे । विद्युतो वा विना मेघैः पश्यन् [१] मरणमृच्छति||१२||

श्लोक 13-18

मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्| आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति ||१३||
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्। अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्||१४||
नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम् ।
अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति||१५||
प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः |
नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासवः [१] ||१६||
व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च | विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः||१७||
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति। तावुभौ [२] पश्यतः क्षिप्रं यमक्षयमसंशयम्||१८||

श्लोक 19-20

अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते । द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता [१] ||१९||
संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः । न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत्||२०||

श्लोक 21

विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम्|
न वा तान् [१] सर्वशो विद्यात्तं विद्याद्विगतायुषम् ||२१||

श्लोक 22

यो रसान्न विजानाति न वा जानाति तत्त्वतः। मुखपाकादृते पक्वं तमाहुः कुशला नरम्||२२||

श्लोक 23

उष्णाञ्छीतान् खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान्। स्पृश्यान् स्पृष्ट्वा ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते||२३||

श्लोक 24-25

अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम् | इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति||२४||
इन्द्रियाणामृते [१] दृष्टेरिन्द्रियार्थानदोषजान्।
नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति ||२५||

श्लोक 26

स्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम्। पश्यन्ति येऽसद्बहुशस्तेषां [१] मरणमादिशेत्||२६||

श्लोक 27

तत्र श्लोक:-
एतदिन्द्रियविज्ञानं यः पश्यति यथातथम्।
मरणं जीवितं चैव स भिषक् ज्ञातुमर्हति||२७||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने इन्द्रियानीकमिन्द्रियं नाम चतुर्थोऽध्यायः||४||