उदरनिदानम्

श्लोक 1-2

अथात उदराणां निदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

धन्वन्तरिर्धर्मभृतां वरिष्ठो राजर्षिरिन्द्रप्रतिमोऽभवद्यः |
ब्रह्मर्षिपुत्रं विनयोपपन्नं शिष्यं शुभं सुश्रुतमन्वशात् सः ||३||

श्लोक 4

पृथक् समस्तैरपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव |
आगन्तुकं सप्तममष्टमं च दकोदरं चेति वदन्ति तानि ||४||

श्लोक 5-6

सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा |
स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः ||५||

गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः |६|

श्लोक 6-7

कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः ||६||

त्वचः समुन्नम्य शनैः समन्ताद्विवर्धमानो जठरं करोति |७|

श्लोक 7-8

तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे हि राज्यः ||७||

जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोफः |८|

श्लोक 8-9

सङ्गृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्धते कृष्णसिरावनद्धम् ||८||

सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत् |९|

श्लोक 9-10

यच्चोषतृष्णाज्वरदाहयुक्तं पीतं सिरा भान्ति च यत्र पीताः ||९||

पीताक्षिविण्मूत्रनखाननस्य पित्तोदरं तत्त्वचिराभिवृद्धि |१०|

श्लोक 10-11

यच्छीतलं शुक्लसिरावनद्धं गुरु स्थिरं शुक्लनखाननस्य ||१०||

स्निग्धं महच्छोफयुतं ससादं कफोदरं तत्तु चिराभिवृद्धि |११|

श्लोक 11-14

स्त्रियोऽन्नपानं नखरोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः ||११||

यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा |
तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम् ||१२||

तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च स चातुरो  मूर्च्छति सम्प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च ||१३||

प्रकीर्तितं दूष्युदरं तु घोरं … |१४|

श्लोक 14-16

… प्लीहोदरं कीर्तयतो निबोध |
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च ||१४||

प्लीहाभिवृद्धिं सततं करोति प्लीहोदरं तत् प्रवदन्ति तज्ज्ञाः |
वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र ||१५||

मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः |१६|

श्लोक 16

सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यकृद्दाल्युदरं तदेव ||१६||

श्लोक 17-19

यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा सहितैः पृथग्वा |
सञ्चीयते तत्र मलः सदोषः क्रमेण नाड्यामिव सङ्करो हि ||१७||

निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम् |
हृन्नाभिमध्ये परिवृद्धिमेति त(य)च्चोदरं विट्समगन्धिकं च ||१८||

प्रच्छर्दयन् बद्धगुदी विभाव्यः, … |१९|

श्लोक 19-21

…ततः परिस्राव्युदरं निबोध |
शल्यं यदन्नोपहितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा ||१९||

तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः |
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यतेऽतीव विदह्यते च ||२०||

एतत् परिस्राव्युदरं प्रदिष्टं… |२१|

श्लोक 21-23

… दकोदरं कीर्तयतो निबोध |
यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः ||२१||

पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि |
स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति ||२२||

स्निग्धं महत् सम्परिवृत्तनाभि भृशोन्नतं पूर्णमिवाम्बुना च |
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् ||२३||

श्लोक 24

आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता |
शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः |
दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि ||२४||

श्लोक 25

अन्ते सलिलभावं हि भजन्ते जठराणि तु |
सर्वाण्येव परीपाकात्तदा तानि विवर्जयेत् ||२५||

पुष्पिका

इति सुश्रुतसंहितायां निदानस्थाने उदरनिदानं नाम सप्तमोऽध्यायः  ||७||
error: Content is protected !!