औपद्रविकाध्यायः

श्लोक 1-2

अथात औपद्रविकमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-4

अध्यायानां शते विंशे यदुक्तमसकृन्मया |
वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति ||३||

इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् |४|

श्लोक 4-8

निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ||४||

शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः |
ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ||५||

षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः |
उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ||६||

त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च |
युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ||७||

यत्रोक्ता विविधा अर्था रोगसाधनहेतवः |८|

श्लोक 8-9

महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ||८||

आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम् |
सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ||९||

श्लोक 10-11

विद्याद्द्वयङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम् |
द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् ||१०||

सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् |११|

श्लोक 11-12

पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ||११||

आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे |१२|

श्लोक 12-13

दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः ||१२||

नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते |
कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः ||१३||

श्लोक 14

मण्डलानि च सन्धींश्च पटलानि च लोचने |
यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ||१४||

श्लोक 15

पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु |
अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् ||१५||

श्लोक 16

पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः |
शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः |
ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः ||१६||

श्लोक 17

द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि |
जायते तिमिरं येषु व्याधिः परमदारुणः ||१७||

श्लोक 18-19

तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम् |
मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् ||१८||

पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते |१९|

श्लोक 19-20

सिराणां कण्डराणां च मेदसः कालकस्य च ||१९||

गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः |२०|

श्लोक 20-21

सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः ||२०||

जायन्ते नेत्रभागेषु रोगाः परमदारुणाः |२१|

श्लोक 21-23

तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् ||२१||

गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः |
सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च ||२२||

विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा |
दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् ||२३||

श्लोक 24

तत्र सम्भवमासाद्य यथादोषं भिषग्जितम् |
विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ||२४||

श्लोक 25

सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम् |
वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः ||२५||

श्लोक 26-27

उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च |
प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च ||२६||

शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च |
स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् |
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ||२७||

श्लोक 28-29

वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश |
रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः ||२८||

तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः |२९|

श्लोक 29-31

हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या ||२९||

यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः |
याप्योऽथ तन्मयः काचः साध्याः स्युःसान्यमारुताः ||३०||

शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः |३१|

श्लोक 31-33

असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ||३१||

परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः |
अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ||३२||

दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति |३३|

श्लोक 33-35

असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ||३३||

अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत् |
दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगण्श्च यः ||३४||

क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः |
श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ||३५||

श्लोक 36-38

रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम् |
शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ||३६||

मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च |
सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ||३७||

पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः |
एते साध्या विकारेषु रक्तजेषु भवन्ति हि ||३८||

श्लोक 39-42

पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी |
असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ||३९||

वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या |
प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ||४०||

पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी |
तथाऽर्शोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ||४१||

सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च |
अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ||४२||

श्लोक 43

सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ |४३|

श्लोक 43

षट्सप्ततिर्विकाराणामेषा सङ्ग्रहकीर्तिता ||४३||

श्लोक 44-45

नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः |
शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ||४४||

सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु |
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ |
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ||४५||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालक्यतन्त्रे औपद्रविको नाम  प्रथमोऽध्यायः ||१||
error: Content is protected !!