श्लोक 1-2
अथातः कृतवेधनकल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3-4
कृतवेधननामानि कल्पं चास्य निबोधत|
क्ष्वेडः कोशातकी चोक्तं मृदङ्गफलमेव च||३||
अत्यर्थकटुतीक्ष्णोष्णं गाढेष्विष्टं गदेषु च|
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु||४||
श्लोक 5
क्षीरादि कुसुमादीनां सुरा चैतेषु पूर्ववत्|५|
श्लोक 5-7
सुशुष्काणां तु जीर्णानामेकं द्वे वा यथाबलम्||५||
कषायैर्मधुकादीनां नवभिः फलवत् पिबेत्|
क्वाथयित्वा फलं तस्य पूत्वा लेहं निधापयेत्||६||
कृतवेधनकल्कांशं फलाद्यर्धांशसंयुतम् |
पृथक् चारग्वधादीनां त्रयोदशभिरासुतम्||७||
श्लोक 8
शाल्मलीमूलचूर्णानां पिच्छाभिर्दशभिस्तथा|८|
श्लोक 8
वर्तिक्रियाः षट् फलवत्, फलादीनां घृतं तथा||८||
श्लोक 9-10
कोशातकानि पञ्चाशत् कोविदाररसे पचेत्|
तं कषायं फलादीनां कल्कैर्लेहं पुनः पचेत्||९||
क्ष्वेडस्य तत्र भागः स्याच्छेषाण्यर्धांशिकानि तु|
कषायैः कोविदाराद्यैरेवं तत् कल्पयेत् पृथक्||१०||
श्लोक 11-12
कषायेषु फलादीनामानूपं पिशितं पृथक्|
कोशातक्या समं पक्त्वा रसं सलवणं पिबेत्||११||
फलादिपिप्पलीतुल्यं तद्वत् क्ष्वेडरसं पिबेत्|१२|
श्लोक 12
क्ष्वेडं कासी पिबेत् सिद्धं मिश्रमिक्षुरसेन च||१२||
श्लोक 13-14
तत्र श्लोकौ-
क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा|
दश पिच्छा घृतं चैकं षट् च वर्तिक्रियाः शुभाः||१३||
लेहेऽष्टौ सप्त मांसे च योग इक्षुरसेऽपरः|
कृतवेधनकल्पेऽस्मिन् षष्टिर्योगाः प्रकीर्तिताः||१४||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसम्पूरिते कल्पस्थाने कृतवेधनकल्पो नाम षष्ठोऽध्यायः||६||